________________
धाविचारः ]
व्युत्पत्तिवादः ।
( २११ )
ๆ
बोधो वैलक्षण्यं कश्चिदभ्युपैति तथा सति त्यागादितात्पर्येण गमनादिपदं व्युत्पन्ना अपि प्रयुञ्जीरन् । न च तत्र फलविशेषावच्छिन्नव्यापारे लक्षणा स्वीक्रियते इति विलक्षणबोधोपपत्तिरिति वाच्यम्, लक्षणया विलक्षणबोधजननेपि शक्याऽविलक्षण बोधजननसंभवेन दर्शितातिप्रसङ्गस्य दुर्वारत्वात् ।
न च गम्यादिशक्तिज्ञानजन्यार्योपस्थित्या फलाविषयकान्वयबोधस्य कुत्रा - प्यजननात् तादृशोपस्थितिघटितसामग्रीशरीरे फलविशेषबोधकसामय्यपि निवेइयते तथा च त्यागगमनादिपदयोः शक्त्या नाऽविलक्षणबोधजनकतेति वाच्यम्, त्यजिग म्योरेकार्थवाचकतारूपपर्यायतां विपर्यस्यतो गमनादिपदात् त्यागादिपदजन्यबोधसमानाकारकबोधस्य सर्वानुभवसिद्धतया गम्यादिशक्तिज्ञानात् फला
न चैवमस्ति, तस्माद्धातोः फलविशिष्टव्यापारवाचकत्वमेव युक्तं तथा च त्यागगमनादिव्यापाराणामवच्छेदकीभूतफलभेदान्नोक्तवोधयोरवैलक्षण्यापत्तिर्न वा व्युत्पन्नानां गमनादितात्पर्येण त्यागादिपदप्रयोगापत्तिरित्याशङ्कते - अथेति । ननु धातोर्व्यापारमात्रवाचकत्वेपि= व्यापारमात्रे एव शक्तिस्वकारेपि तत्र' त्यजति गच्छति ' ' त्यागो गमनम् ' इत्यादी फलविशेषविशिष्टव्यापारे लक्षणा स्वीक्रियते तथा च फलभेदात् लक्षणया तत्तद्धातुपदेन विलक्षणबोधसंभवेन नाऽविलक्षणबोधप्रसङ्ग इति न गमनादितात्पर्येण त्यागादिपदप्रयोगापत्तिरित्याशङ्क्याह- न चेति । परिहरति- लक्षणयेति । लक्षणया विलक्षणबोधसंभवेपि शक्त्याऽविलक्षणबोधसंभवेन दर्शितातिप्रसङ्गस्य=गमनादितात्पर्येण त्यागादिपदप्रयोगप्रसङ्गस्य दुर्वारत्वात् ।
ननु गम्यादिधातुशक्तिज्ञानेन जायमाना यार्थोपस्थितिस्तया फलाऽविषयकबोधः कदापि न जन्यते किं तु फलविषयक एव बोधो जन्यते इति शाब्दबोधजनिका या तादृशोपस्थितिघटिता सामग्री तस्याः शरीरे स्वरूपे फलविशेषबोधकसामग्र्यपि निवेश्यते तथा च फलविशेषविषयकबोधजनक सामग्रीघटितया उक्तगम्यादिशक्तिज्ञानजन्यार्थोपस्थितिघडितसामय्या त्यागगमनादिपदाभ्यां शतयापि नाऽविलक्षणत्रोपप्रसङ्ग इति न गमनादितात्पर्येण त्वादिपदयोगापत्तिरित्याशङ्कते— न चेति । परिहरति- त्यजिगम्योरिति, विपर्यस्यतः = ( भ्रमवतः ) यस्य पुरुषस्य त्यजिगम्योरेकार्थवाचकतारूपपर्यायत्वमो जातः = य एव त्यजधातोरर्थः स एव गम्धातोरव्यर्थ इति भ्रमो जातस्तस्य पुरुषस्य गमनादिपदात् त्यागादिपदजन्यबोधतुल्य एव बोधो जायते इति सर्वानुभवसिद्धमस्ति - उक्त भ्रान्तपुरुषदृष्ट्या त्यजिगम्योः समानार्थकत्वेन पर्यायरूपत्वादिति तस्य भ्रान्तस्य गम्यादिधातुशक्तिज्ञानात् फलाविषयक बोधस्यापि = फल विशेषाविषयकबोधस्यापि प्रसिद्धे :द: जायमानत्वात् शक्त्यापि त्यागगमनादिपदाभ्यामविलक्षणबोधोत्पत्तिस्तदवस्थैष । एवमेव तदृशस्य = उक्तभ्रमवतः पुंसः त्यजिगम्योः पर्यायत्वज्ञान ( भ्रम ) सत्त्वेन ' ग्रामं गच्छति : 'ग्रामं त्यजति' इत्यादिवाक्याभ्यामप्यविलक्षणबोधोदयात् फलविशेषबोधकसामय्या यद् गम्यादि. पदजन्यबोधनियामकत्वमुक्तं नाम त्यजिगमिधातुभ्यां सामान्यतो व्यापारमात्रविषयकबोधे जायमा
"Aho Shrutgyanam"