________________
(२१)
सादर्शः- [ द्वितीयाकारकप्रथमखण्डेन चाकाक्षात्र समभिव्याहारः स च गम्यादिनेव स्पन्द्यादिनापि समान एवेति वाच्यम्, यतः- द्वितीयादेर्गभ्यादिसमभिव्याहारस्यैव फलबलादन्वयबोधौपयिकत्वमुपगम्यते न तु स्पन्दिप्रभृतिसमभिव्याहारस्येति न तस्याकाक्षात्वम्अन्वयबोधीपयिकसमभिव्याहारस्यैव तथात्वात्, अत एव समानार्थकत्वेपिगम्यादेरिव न स्पन्द्यादेः सकर्मकत्वव्यवहारः- फलान्वितव्यापारबोधकधातुत्वस्यैव तन्नियामकत्वात् ।
अथ धातोापारमात्रवाचित्वे 'त्यजति गच्छति ' 'त्यागो गमनम् ' इत्यादिवाक्यादविलक्षणबोधप्रसङ्गः, न हि शक्तिभ्रमाद्यऽजन्मनोस्तादृशवाक्यजन्य
नन्वाकाङ्क्षा समभिव्याहार एव समभिव्याहारश्च गम्यादिनेव स्पन्द्यादिनापि नानुपपन्न इति द्वितीयार्थफलस्य संयोगादेः स्पन्दिधातूपस्थापितस्पन्दरूपव्यापारे जनकत्वसंबन्धेन कथं नान्वयः स्यादित्याशक्याह- न चेति । परिहरति- यत इति, “ ग्रामं स्पन्दते । इत्यत्र ग्रामवृत्तिसंयोगजनकत्वविशिष्टव्यापारविषयको बोधो न जायते 'ग्रामं गच्छति ' इत्यत्र च जायते इति फलबलाद् द्वितीयादेर्यो गम्यादिना समभिव्याहारस्तस्यैवोक्तशाब्दबोधकारणत्वमुपगम्यते इति तादृशस्योक्तशाब्दबोधजनकस्यैव समभिव्याहारस्याकाङ्क्षात्वं युक्तं न तु द्वितीयादेः स्पन्दिप्रभृतिधातुनापि यः समभिव्याहारस्तस्यापि- उक्तशाब्दबोधाऽजनकत्वादित्यर्थः । तस्य स्पन्दिप्रभृतिसमभिव्याहारस्य । अत्र विनिगमनामाह- अन्वयेति । तथात्वात्= आकाङ्क्षात्वात् । अत एव द्वितीयादेः स्पन्द्यादिना सह सममिव्याहरस्याकाङ्क्षात्वाऽभावादेव द्वितीयार्थफलस्य स्पन्द्याद्युपस्थापितस्पन्दादिव्यापारे; आकाङ्क्षाविरहेणान्वयासंभवादेव गमिस्पन्दिधात्वोः समानार्थकत्वेपि गम्यादेरेव सकर्मकत्वं न स्पन्द्यादेः- फलान्वितव्यापारबोधकधातोरेव सकर्मकत्वनियमात् तथा च गम्यादेः फलान्त्रित यापारबोधकत्वात्सकर्मकत्वम्, स्पन्द्यादेः फलान्वितव्यापारबोवावाभावादकर्मकलनि पर्थ इत्याह- अत एवेति । तन्नियामकलमकर्मकत्व पयहा नियामकत्यम् । एवं समानापि धमादेख सकर्मकत्वं न यत्यावरिति शेयम् । पेन ब्यापारग कर्मभूतपदार्थे किंचित् फलमुत्पद्यते तस्य फलान्वितव्यापारत्वं ज्ञेयं यथा गमनव्यापारण ग्रामे गमनकर्तृदेवदत्तस्य संयोग उत्पद्यते न चैव स्पन्द्यादिधातुबोध्यव्यापारेस्तीति तत्र फलावितत्वं नास्तीति । । ननु यदि धातोः फलवाचकत्वं न स्यात् किं तु व्यापारमात्रवाचकत्वं स्यात्तदा सर्वेषामेव धातूनां व्यापारमात्रवाचकत्वेन समानार्थकत्वं स्यात्तथा च य एव ' त्यजति ' पदाद्बोधः स्यात्स एवं गच्छति ' पदादपि बोधः स्यात्, तथा त्यागगमनपदाभ्यामपि समानार्थक एवं बोधः स्यात् , न च शक्तिभ्रमं विना कोपि त्यजतिपदजन्यबोधगच्छतिपदजन्यबोधयोरवैलक्षण्यम्तुल्यत्वं स्वीकरोति, तथा त्यागपदजन्यगमनपदजन्यबोधयोरप्यवैलक्षण्यं न कोपि स्वीकरोति, तथासति-उक्तबोधयोरवलक्षण्ये सति त्यागादितात्पर्येण गमनादिपदं व्युत्पन्ना अपि प्रयुञ्जीरन् ,
"Aho Shrutgyanam"