________________
धात्वर्थविचारः ]
व्युत्पत्तिवादः ।
( २०९ )
पस्थापितयोरेवार्थयोः परस्परमन्वयः प्रतीयते तथा सति घटकर्मत्वादिपदोपस्थापितयेोरपि घटकर्मत्वाद्योः परस्परमन्वयबोधप्रसङ्गात्, कृञादिसमानार्थकयतधातूपस्थाप्यफले विषयितात्मक द्वितीयार्थान्वयसंभवेनं 'घटं करोति' इतिवत् 'घटं यतते' इत्यादिप्रयोगप्रसङ्गाच, अपि तु ययोर्षादृशान्वयबोधे आकाङ्क्षा तदुपस्थापितयोरेव तादृशान्वयबोधः । आकाङ्क्षा च द्वितीयादेर्गम्यादिना कृञादिना च कल्प्यते न तु तत्समानार्थकेनापि स्पन्दियतिप्रभृतिनेति ।
किं वा ननु गम्धात्वर्थोपि स्पन्द एव स्पन्दधास्वर्थोपि स्पन्द एवेति समानार्थकत्वात् ' ग्रामं गच्छति' इतिवत् 'ग्रामं स्पन्दते' इति प्रयोगः कथं न स्यादित्याशङ्क्याह- न हीति, न हि याभ्यां काभ्यां पदाभ्यामुपस्थितयोरर्थयोः परस्परमन्ययः प्रतीयते, तथा सति = यदि याभ्यां काभ्यां पदाभ्यामुपस्थितयोरप्यर्थयोः परस्परमन्वयः प्रतीयेत तदा 'घटः कर्मत्वम् ' इत्यत्र घटकर्मत्वपदाभ्यामुपस्थितयोरपि घटकर्मत्वयोः परस्परमन्वयबोधः स्यादेव न चैवं भवति किं तु 'घटं करोति' इत्यत्र घटपदेनोपस्थितघटस्य द्वितीयोपस्थितकर्मत्वस्य चान्वयः प्रतीयते तस्मान्न याभ्यां काम्यां पदाभ्यामुपस्थितयोरर्थयोरन्वयः प्रतीयते इति गमूधातूपस्थितस्पन्दस्य द्वितीयोपस्थितफलस्य चान्वयः संभवति न तु स्पन्दधातूपस्थितस्पन्दस्य फलस्य चेत्यर्थः । किं च यदि येन केनचिदुपस्थितयोरप्यर्थयोः परस्परमन्वयः प्रतीयेत तदा कृञादिसमानार्थकयत्यादिधातूपस्याप्यफलेपि विषयितात्मकद्वितीयार्थस्यान्वय संभवेन 'घटं करोति' इतिवत् 'घटं यतते' इत्यपि प्रयोगः स्यादेव न चैत्रं भवतीत्यर्थः । अत्र धातोः फलावच्छिन्नव्यापारवाचकत्वमतेनोक्तम्- कृत्रादिसमानार्थकयतधातूपस्थाप्यफले इति तन्मते फलावच्छिन्नव्यापारस्य धातुवाच्यत्वेन फलस्यापि धातुवाच्यत्वं प्राप्तमेव, अवच्छिन्नत्वं चात्र जनकत्वमेव फलं चात्र यत्नः, तस्मिन् यत्नरूपफले द्वितीयार्थविषयिताया आश्रयत्वेनान्वयः घटनिष्ठविषयतानिरूपित विषयिताश्रयत्वस्य यत्ने सत्त्रात् 'घटं करोति' इत्यत्र घटनिष्ठविषयतानिरूपित विषयिताश्रयी भूतकृति( यत्न ) मानिति बोधोदयात् | 'घटं यतते' इतिप्रयोगस्तु न भवतीति सिद्धान्तमाह- अपि त्विति, ययोः पदयोर्यादृशान्त्रयबोधे आकाङ्क्षा = परस्परमपेक्षा भवति ताभ्यामेव पदाभ्यामुपस्थितयोरर्थयोस्तादृशान्वयस्य बोधो जायते यथा - घटपदद्वितीयापदयोर्घटकर्मत्वबोधे आकाङ्क्षास्तीति ‘ घटम् ' इतिघटपद द्वितीयापदाभ्यामुपस्थितयोरेव घटकर्मत्वयोः परस्परमस्वयबोधो जायते, तथात्रापि द्वितीयादेर्गम्यादिनैवाकाङ्क्षति गम्धातूपस्थितस्पन्दे एव द्वितीयोपस्थितफलस्यान्वयो भवति न तु स्पन्दधातूपस्थितस्पन्दपीति न ' ग्रामं स्पन्दते ' इति प्रयोगापत्तिः । तथा द्वितीयादेः कुञादिनैवाऽकाङ्क्षेति कुञ्चातूपस्थाप्यफले र्थस्य ( विषयितायाः ) अन्वयो भवति न यतिधातूपस्थापितफलेपीति न 'घटं प्रयोगापत्तिरित्याह- आकाङ्क्षा चेति । स्पन्दियतीत्यत्र यथासंख्यमन्वयः ।
१४
"Aho Shrutgyanam"
एव द्वितीया - यतते' इति -