________________
(२०८)
सादर्श:- [ द्वितीयाकारकप्रथमखण्डेन च संयोगविभागादिरूपफलमपि धातुलभ्यमेव- गमित्यजिप्रभृतीनां तदवच्छिन्नस्पन्दादिरूपव्यापारवाचकत्वादितिवाच्यम्, व्यापारमात्रस्य धात्वर्थत्वात् । फलविशेषान्वयबोधे च धातुविशेषजन्यव्यापारोपस्थितेहेतुतया 'ग्रामं त्यजति' इत्यादी धात्वर्थस्पन्दे ग्रामनिष्ठविभागजनकत्वमेव 'ग्रामं गच्छति" इत्यादौ च धात्वर्थस्पन्दे ग्राममिष्ठसंयोगजनकत्वमेव प्रतीयते न तु विपरीतम् ।
'ग्रामं गच्छति' इत्यादिवञ्च 'ग्रामं स्पन्दते' इत्यादयो न प्रयोगा:-द्विती. यादेर्गम्याद्युपस्थापितस्पन्दादावेव फलान्वयबोधकत्वात्, स्पन्दिप्रभृत्युपस्थापिते तस्मिन् द्वितीयादिना फलान्वयबोधजननासंभवात्, न हि येन केन चिदु.
ननु “ फलव्यापारयोर्धातुः" इति प्रमाणात् संयोगविभागादिरूपं फलमपि धातुलभ्यमेवगमित्यजिप्रभृतीनां धातूनां तदवच्छिन्नस्पन्दादिरूपव्यापारवाचकत्वात्-संयोगविभागादिफलजनकस्पन्दादिरूपव्यापारवाचकत्वात्-जनकत्वसंबन्धेन संयोगादिरूपफलविशिष्टव्यापारवाचकत्वेन संयोगादिरूपफलवाचकत्वस्यापि प्राप्तत्वात् कथं फलस्य कर्मप्रत्ययवाच्यत्वमुच्यते इत्याशङ्कतेन चेति । परिहरति-व्यापारेति, व्यापारमात्रमेव धातुवाच्यमस्ति न तु फलमपीति संयोगादिरूपफलम् 'ग्रामं गच्छति' इत्यादी कर्मप्रत्यय ( द्वितीया ) वाच्यमेवेत्यर्थः । ननु व्यापारमात्रस्य धात्वर्थत्वे फलमात्रस्य च कर्मप्रत्ययार्थत्वे 'ग्रामं त्यजति' इत्यत्रापि धात्वर्थव्यपारे संयोगजनकत्वं प्रतीयेतेति सर्वत्र सर्वप्रतीत्यापत्त्या व्यापारविशेषफल विशेषयोः प्रतीतिनियमो न स्यादित्याशङ्क्याह-फलविशेषेति, सामान्यतः फलविषयकशाब्दबोधं प्रति कर्मप्रत्ययस्य कारणत्वेपि फलविशेषविषयकशाब्दबोधं प्रति तु धातुविशेषजन्यव्यापारोपस्थितेरेव कारणत्वं ज्ञेयं तथा च 'ग्रामं त्यजति' इत्यत्र ग्रामकर्मकत्यागरूपफलविषयकशाब्दबोधं प्रति त्यजधातुजन्यस्पन्दरूपव्यापारोपस्थितेर्हेतुत्वात् त्यजधात्वर्थस्पन्दे ग्रामनिष्ठो यो विभागस्तादृशविभागरूपफलजनकत्वमेव प्रतीयते न तु विपरीतम् ग्रामनिष्ठसंयोगरूपफलजनकत्वम्' तथा 'ग्रामं गच्छति' इत्यत्र ग्रामकर्मकसंयोगरूपफलविषयकशाब्दबोधं प्रति गम्धातुजन्यस्पन्दरूपव्यापारोपस्थितेहेतुत्वाद् गम्धात्वर्थस्पन्दे ग्रामनिष्ठो यः संयोगस्तादृशसंयोगरूपफलजनकत्वमेव प्रतीयते न तु विपरीतम्-ग्रामनिष्ठविभागरूपफलजनकत्वम्, फलविशेषान्वयबोधे यदि धातुविशेषजन्यव्यापारोपस्थितेर्हेतुत्वं न स्यात्तदोक्तवैपरीत्यमपि स्यादेव= त्यधात्वर्थस्पन्दे ग्रामनिष्ठसंयोगजनकत्वं गम्धात्वर्थस्पन्दे च ग्रामनिष्ठविभागजनकत्वमपि प्रतीयेत न चैवं प्रतीयते इति “फलविशेषान्वयबोधे" इत्यादिविशेषकार्यकारणभाव आश्रीयते इत्यर्थः।। ___ ग्राममिति-द्वितीया विभक्तिर्गमधातूपस्थिते एव स्पन्दरूपव्यापारे जनकत्वसंबन्धेन संयोगरूपफलस्यान्वयबोधजननसमर्थास्ति न तु स्पन्दधातूपस्थापितेपि स्पन्दरूपव्यापारे, स्पन्दधातूपस्थापिते तस्मिन् स्पन्दरूपव्यापारे द्वितीयादिना फलान्वयस्य बोधजननासंभवादिति 'ग्राम गच्छति 'इतिवत् 'प्रामं स्पन्दते' इति प्रयोगो न भवतीत्यर्थः । उक्तमुपपादयति- न हीति ।
"Aho Shrutgyanam"