________________
अथ द्वितीया
"कर्मणि द्वितीया" इत्यनुशासनात् कर्मत्वं द्वितीयार्थः, तत्र कर्मपदस्य धर्मपरत्वात् सप्तम्या वाचकतार्थकत्वात् । कर्मणश्च न तथात्वम्- कर्मणि नामार्थस्य ग्रामादेरभेदान्वयसंभवेपि धात्वर्थगमनादिना तदन्वयासंभवात् गौरवाच । कर्मत्वं च क्रियाजन्यफलशालित्वम् तत्र च क्रिया धातुत एवं लभ्यते, जन्यजनकभावस्य च विनैव पदार्थत्वं संसर्गमर्यादया भानं संभवतीति फलमात्रं कर्मप्रत्ययार्थः ।
|| श्रीमद्धयग्रीवाय भगवते नमः ॥
" कर्मणि द्वितीया "
66
,
66
द्वितीयाविभक्त्यर्थनिरूपणमारभते - कर्मणीति, कर्मत्वं द्वितीयार्थ इत्यत्र इति सूत्रमेत्र प्रमाणमित्यर्थः । तत्र = " कर्मणि द्वितीया " इतिसूत्रे कर्मपदस्य ग्रामादिरूपकर्म - पदार्थवृत्तिकर्मत्वरूपधर्मपरत्वात् कर्मत्वं द्वितीयार्थः । गुणे शुक्लादयः पुंसि " इत्यादी * गुणवाचकाः शुक्लादयः पुंसि ' इत्यर्थस्यामीष्टत्वाद् यथा गुणे " इति सप्तम्या वाचक. - सार्थकत्वं तथात्रापि " कर्मणि " इति सप्तम्या वाचकतार्थकत्वात् " कर्मणि द्वितीया " इति - सूत्रस्य ' कर्मत्ववाचिका द्वितीया' इत्यर्थः संपन्न इत्याह- सप्तम्या इति । ननु सूत्रे कर्मपदं कर्मभूतग्रामादिपदार्थपरमेत्र किं न स्यादित्याशङ्क्याह - कर्मणश्चेति, कर्मणः कर्मभूतग्रामादिप-दार्थस्य तु न तथात्वम् = द्वितीयार्थत्वं संभवति, यदि कर्मैव द्वितीयार्थः स्यात्तदा ग्रामस्यैव कर्मस्वाद् द्वितीयार्थत्वेन प्रधानीभूततादृशकर्मपदार्थे नामार्थस्य = प्रमपदवाच्यस्य ग्रामस्य ' ग्रामं गच्छति ' इत्यत्राभेदान्वयसंभवेपि धात्वर्थगमनादिना तु तत् तस्य कर्मपदार्थस्यान्वयो न संभयति - कर्मभूतग्रामादिनिरूपितजनकत्वादेर्धात्वर्थगमनादावभावादित्यर्थः । ननु कर्मणोपि द्वितीयार्थत्वे तस्य कर्मभूतग्रामपदार्थस्य स्ववृत्तिफलजनकत्वसंबन्धेन धात्वर्थगमनादिनाऽन्वयः संभवत्येवेति ' ग्रामं गच्छति ' इत्यादौ कर्मणोपि द्वितीयार्थत्वे न कोपि दोषः स्वं कर्म तद्वृत्ति फलं संयोगस्तज्जनकत्वं धात्वर्थगमनेऽस्त्येवेत्याशङ्क्याह- गौरवाच्चेति, एवं हि गौरवं स्यादेचेति न कर्मद्वितीयार्थ: : किं तु कर्मत्वमेव तत्र कर्मत्वं हि चैत्रादिकर्तृकव्यापारजन्यसंयोगादिरूपं फल• मेव तस्य तु जनकत्वसं बंधेन साक्षादेव धात्वर्थगमनादिनाऽन्वयः संभवत्येव - ग्रामवृत्तिसंयोगजयापार इतिबोधोदयादिति न गौरवमपीति भावः । कर्मत्वस्वरूपमाह- कर्मत्वमिति । क्षेत्र = क्रिषाजन्यफलशालित्वे यः क्रियापदार्थः प्रविष्टः स धातुवाच्य एवं क्रियातज्जन्यफलयोश्च यो जन्यजनकभावः स संसर्गत्वादाकाङ्क्षाबलेनैव भासते इत्यवशिष्टं संयोगादिरूपं फलमात्रमेत्र कर्मप्रत्ययस्य द्वितीयादेरर्थ इत्यर्थः ।
"Aho Shrutgyanam"