________________
(२१२)
सादर्श:- [ द्वितीयाकारकप्रथमखण्डे-- विषयकबोधस्यापि प्रसिद्धः, एवं तादृशम्य पुंसः 'ग्रामं गच्छति , 'ग्राम त्यजति' इत्यादितोप्यविलक्षणबोधोदयात् फलविशेषबोधकसामय्या गम्यादिपदजन्यबोधनियामकताया वक्तुमशक्यत्वात् , तथा चाऽभ्रान्तस्यापि भवन्मते ततोऽविलक्षणबोधसंभवेनैकविधबोधतात्पर्येण व्युत्पन्नानां ताशप्रयोगप्रसङ्गो दुर्वार इति चेत् ?, मेपि फलविशेषबोधकसामग्रीप्रभावात् फलविशेषस्याप्युपस्थित्या त्यजतिगच्छतिपदाभ्यां विलक्षण एव बोध उत्पद्यतेत्युक्तं तदपि वक्तुं न शक्यते- अविलक्षणबोधोदयस्य प्रदर्शितत्वादित्याहविमिति । तथा चाभ्रान्तस्यापि ततः= त्यजति, गच्छति । 'त्यागः, गमनम्' इत्यादितोऽविल. क्षणबोधसंभवेनेकविधबोधतात्पर्येण व्युत्पन्नानां तादृशप्रयोगप्रसङ्गः त्यागादितात्पयेण गमनादिपदप्रयोगप्रसङ्गो दुर्वार एवेत्युपसंहरति- तथा चेति ।
अयं भाव:--- पूर्वपक्षिणा धातोर्व्यापारमात्रवाचित्वं स्वीकृत्यापि गम्यादिपदजन्यशाब्दबोधसा. श्रीशरीरे फलविशेषयोधिकाया द्वितीयाविभक्त्यादिसमभिव्याहारादिरूपायाः सामग्र्या निवेशेन अत्यापि गम्यादेविलक्षणबोधजनकत्वं प्रतिपादितं तत्र त्यजिगम्योः पर्यायताभ्रमाभावकाले तु ममधातुजन्यशाब्दबोधसामग्रीशरीरे संयोगरूपफलबोधकसामग्रीनिवेशेन त्यधातुजन्यशाब्दबो. असामग्रीशरीरे च विभागरूपफलबोधकसामग्रीनिवेशेन संयोगविभागादिरूपफलविशेषविषयकबोधस्यापि जायमानत्वात् त्यजिगम्योः शक्त्या विलक्षणबोधजनकत्वसंभवेपि त्यजिगम्योः पर्याबताभ्रमकाले तु नैवं संभवति किं तु त्यजूधातुजन्यशाब्दबोधसामग्रीशरीरे गम्धातुजन्यशाब्दमोधसामग्रीशरीरे चैकसमानफलबोधकसामग्र्या एव निवेश: स्यादिति ‘ग्रामं गच्छति , ' ग्राम स्यजति' इत्युभयत्रैवेकसमानफलबोधकसामग्रीविशिष्टसामत्र्या व्यापारमात्रवाचकत्यजिगमिभ्यां शक्त्या विलक्षणबोधोत्पत्तरसंभव एव, ' त्यागः' ' गमनम् । इत्यादौ तु फलबोधकद्वितीयायाः समभिव्याहाराभावेन संयोगादिरूपफलविशेषबोधकद्वितीयासमभिव्याहाररूपसामग्र्याः शाब्दबोधजनकसामग्र्यां निवेश एव नास्ति येन त्यागमनपदाभ्यां विलक्षणबोधः स्यादिति त्यागगमनप. दघटकगम्यादिशक्तिज्ञानात् फलाविषयक एव बोधः संभवति न फलविषयक इति सिद्धं तथा च 'त्यागः , 'गमनम् । इत्यादौ गम्यादिशक्तज्ञानात् फलाविषयकबोधस्याप्युक्तरीत्या जायमा. नत्वे बोधवलक्षण्यसंपादकफलोपस्थितेश्च फलोपस्थापकामावादभावे प्राप्ते त्यजिम्.म्योश्च व्यापार, मात्रवाचकत्वस्वीकारेणाऽभ्रान्तस्यापि त्यजिगमिभ्यामविलक्षणबोधावश्यम्भावाद् व्युत्पन्नानामपि स्यागादितात्पर्येण गमनादिपदप्रयोगादिप्रसङ्गः स्यादेव । एवमेव ' ग्रामं गच्छति ' 'प्राम स्यजति ' इत्यत्रापि त्यजिगम्योस्तु व्या गरमात्रवाचकत्वमेव फल विशेषबोधकसामग्र्याश्चोक्तरीत्या
म्यादिधातुजन्यबोधवै लक्षयनियामकत्वं न भवतीत्यऽभ्रान्तस्यापि व्युत्पन्नस्थ त्यजिर्गामभ्यामविलक्ष गबोधावश्यम्भावात् — ग्रामं त्यजति ' इतितात्पर्य ' ग्रामं गच्छति । इतिप्रयोगातिप्रसङ्गः स्यादेवेति धातोव्योपारमात्रवाचकत्वं न युक्तमिति ।
"Aho Shrutgyanam'