________________
धारवर्थविचारः] . न्युत्पत्तिवादः।
मैवम्-कर्मप्रत्ययासमभिव्याहृतत्यागगमनादिपदस्य तत्तत्फलावच्छिन्नव्यापा. रेऽनादितात्पर्य कल्प्यते न तु केवलव्यापारे, अनादितात्पर्यमेव च स्वारसिकप्र. योगनियामकमित्येकार्थतात्पर्येण प्रामाणिकानां स्वारसिको न त्यागगमनादिपदप्रयोगः । ___ एवं त्यजिगमिप्रभृतिसमभिव्याहृतकर्मप्रत्ययस्य फलविशेष एव नियतं ताशें तात्पर्यमिति न विभागादितात्पर्येण ' ग्रामं गच्छति' इत्यादिप्रयोगः । तदर्थबोधकत्वमानं तु न तदर्थतात्पर्येण स्वारसिकप्रयोगनियामकम, तथा सति
परिहरति- मैवमिति, कर्मप्रत्ययो द्वितीयादिस्तत्समभिव्याहारस्थले 'मामं गच्छति ' ' ग्रामं त्यजति । इत्यादौ तु संयोगविभागादिरूपफलबोधकद्वितीयासत्त्वादेतादृशवाक्यजन्यबोधस्थ बैलक्षण्यं स्पष्टमेव संभवति, कर्मप्रत्ययाऽसमभिव्याहृतत्यागगमनादिपदस्य द्वितीयान्तकर्मवाचकप्रामादिपदरहितस्य ' त्यजति । 'गच्छति , ' त्यागः ' ' गमनम् ' इत्यादिपदस्य तत्तत्फलावच्छिन्नव्यापारे तात्पर्य कल्प्यते यथा 'गच्छति । इतिपदघटकगम्धातोः संयोगरूपफलज. नकव्यापारे ' त्यजति । इतिपदवटकत्यज्धातोर्विभागरूपफलजनकव्यापारे एवानादितात्पर्यमस्ति न तु केवलव्यापारे-फलानवच्छिन्नव्यापारे, अनादितात्पर्यमेव च स्वारसिकप्रयोगनियामक स्तीति न प्रामाणिकानामेकार्थतात्पर्येण त्यागतात्पर्येण गमनपदप्रयोगापत्तिः, गमनतात्पर्येण वा त्यागपदप्रयोगापत्तिरित्यर्थः । यथा कौपीनशब्दस्य पापे शक्तत्वेप्यऽनादितात्पर्य पुरुषेन्द्रिया. च्छादकवस्त्रविशेषे एवास्तीति तादृशवस्त्रतात्पर्येणैव कौपीनशब्दप्रयोगो भवति न तु शक्यार्थपापतात्पर्येगापि तथात्र धातोापारमात्रशक्तत्वेप्यनादितात्पर्य फल विशेषावच्छिन्नव्यापारे एवास्तीति तादशमलविशेषावच्छिन्नव्यापारतात्पर्येणैव तत्तद्धातुपदप्रयोग उपपद्यते न तु शक्यार्थव्यापारमा तात्पर्येणापीति नोक्तप्रयोगसांकर्यापत्तिरिति भावः ।
एवमेव 'ग्रामं गच्छति । इत्यादौ कर्मप्रत्ययस्य द्वितीयादेर्यदि संयोगादिरूपफलविशेष तात्पर्य न स्यात् किं तु फलमात्रे तात्पर्य स्यात्तदा द्वितीयायाः संयोगविभागादिरूपानेकविधफलेषु शक्तत्वाद् द्वितीयया विभागरूपफलोपस्थितेरपि संभवाद् धातोश्च व्यापारमात्रस्योपस्थितेः संभवात् ' ग्रामं गच्छति । इत्यनेन विभागजनकव्यापारबोधस्यापि संभवाद् विभागादितात्पर्यण * ग्रामं गच्छति । इति प्रयोगः स्यादेव, यदा च गम्धातुसमभिव्याहृतकर्मप्रत्ययद्वितीयायाः फलविशेष-संयोगे एक तात्पर्य न विभागे तथा त्यधातुसमभिव्याहृतद्वितीयाया विभागरूपफले एव तात्पर्य न संयोगे तदा तु विभागादितात्पर्येण ' ग्रामं गच्छति ' इत्यादिप्रयोगापत्तिास्त्ये: वेत्याह-एवमिति । तादृशम्=अनादि । ननु यदि द्वितीयाया विभागरूपफलबोधकत्वमप्यस्ति तत्र शक्तत्वात् तदा 'ग्रामं गच्छति' इत्यत्रापि द्वितीयया विभागरूपफलोपस्थितिसंभवाद् विभागतात्पर्येण ' ग्रामं गच्छति । इतिस्वारसिकप्रयोगः कथं न स्यादित्याशझ्याह-तदर्थेति । विपक्षे बाधकमाह-तथा सतीति । तथासति-यदि तदर्थबोधकत्वमात्रं तदर्थतात्पर्येण स्वारसि.
"Aho Shrutgyanam"