________________
( २१४ )
सादर्श:
[ द्वितीयाकारकप्रथमखण्डे
शक्तिभ्रमादिना घटपदस्यापि पटादिबोधकतया पटादितात्पर्येणापि स्वारसिकधटादिपदप्रयोगापत्तेः । नापि शक्त्या बोधकत्वं तथा - निरूङलक्षणयापि स्वारसिकपदप्रयोगात् ।
शक्तिभ्रमं लक्षणाज्ञानं चान्तरेण गम्यादेर्विभागादिरूपफलविशेषविशेषितस्प न्दादिबोधकत्वाऽभावनियमोऽसिद्ध एवेति तात्पर्य भ्रम सहकृतशक्तिप्रमया तादृशबौधजननेपि न क्षतिः । विना लक्षणाग्रहं भ्रमानधीनतादृशबोधो गमिप्रभृतितो न
प्रयोगनियामकं स्यात्तदा शक्तिभ्रमेण घटपदस्यापि पटादिबोधकत्वात् पटेपि घटपदस्य स्वारसिप्रयोगः स्यादेव न चैवं भवतीति न तदर्थबोधकत्वमात्रं तदर्थतात्पर्येण स्वारसिकप्रयोगनियाकमित्यर्थः । ननु नात्र शक्तिभ्रमस्य प्रसङ्ग इति शक्त्या बोधकत्वं स्वारसिकप्रयोगनियामक भविष्यत्येवेति द्वितीयायाः शक्त्यैव विभागरूपफलबोधकत्वमस्त्येवेति विभागादितात्पर्येण 'ग्रामं गच्छति इति प्रयोगः स्यादेवेत्याशङ्क्याह - नापीति । तथा = स्वारसिकप्रयोगनियामकम् । बारहारहेतुमाह-निरूढेति । तस्मादमादितात्पर्यमेव स्वारसिकप्रयोगनियामकम् गम्धातुसमभिव्याहृत द्वितीयाया अनादितात्पर्ये च संयोगरूपफले एवेति न विभागतात्पर्येण ' ग्रामं गच्छति इतिप्रयोगापत्तिरित्यर्थः । निरूढलक्षणया स्वारसिकपदप्रयोगो यथा प्रवीणे कुशलेतिपदप्रयोगः ।
नवनादितात्पर्यस्यैव स्वारसिकप्रयोगनियामकत्वे शक्तिभ्रमं विना तथा लक्षणाज्ञानं विना गम्यादेर्विभागादिरूपफल विशेष विशेषितस्पन्दादिबोधकत्वं नास्ति किं तु शक्तिभ्रमेण वा लक्षणाज्ञानेन वैव गम्यादेर्विभागादिरूपफल विशेष विशेषित स्पन्दादिबोधकत्वमस्तीति नियमस्य भङ्गः श्वात्, अनादितात्पर्यस्य नियामकत्वेऽनादितात्पर्यभ्रमेणापि गम्यादेर्विभागादिरूपफलविशेषविशेवितस्पन्दादिबोधकत्वापत्तेरित्याशङ्क्याह-शक्तिभ्रममिति । उक्तनियमो नास्त्येवेति तात्पर्यभ्रम सहकृतशक्तिप्रमया तादृशबोधजनने गम्यादेर्विभागादिरूपफल विशेषविशेषितस्पन्द विषयकबोधजननेपि न चतिः=न किं चिन्नियमभङ्गः । द्वितीयायाः संयोगविभागादौ शक्तिरस्त्येवेति 'ग्रामं गच्छति' इत्यत्रापि द्वितीयाया यद् विभागे शक्तिज्ञानं तत्प्रमैवास्ति किं तु गम्धातुसमभिव्याह्नद्वितीयायाः संयोगे एवानादितात्पर्यमस्तीति विभागेऽनादितात्पर्यग्रहो भ्रम एवेत्युक्तम् - तात्पभ्रमसहकृतशक्तिप्रमयेति । स्वमतेन नियमस्वरूपमाह - विनेति, लक्षणाज्ञानेन वा शक्तिभ्रमेण बा तात्पर्यभ्रमेण चैव गम्यादिधातुतो विभागादिरूपफलविशेषविशेषितस्पन्दादिबोधो जायते. नान्यथेत्येव नियमोस्तीत्यर्थः । स च = उक्तनियमः । ननु यदुक्तम् -' लक्षणाग्रहं विना गमिप्रभूतिधातुभ्यो विभागादिरूपफल विशेष विशेषितस्पन्दादिरूपव्यापारबोधस्तात्पर्यभ्रमेणैव जायते' इति नियम इति, स नियमो न संभवति यतः - यस्य पुंसो गम्धातोर्विभागाद्यर्थे पूर्वपूर्वेषां तात्पर्यमस्तीति तात्पर्यभ्रमो जातस्तेन पुंसा यत्र यदा स्वकीयतात्पर्येण विभागादिविषयक स्वीयतात्पर्येण ग्रामं गच्छति' इत्यादिप्रयोगः कृतस्तत्र तदा श्रोतुर्गमधातोर्विभागाद्यर्थे पूर्वपूर्वेषां तात्पर्यमस्तीत्याकारकस्यानादितात्पर्यभ्रमस्याभावेप्युक्तवक्तुर्विभागादितात्पर्येण ' ग्रामं गच्छति' इति
*
"Aho Shrutgyanam"