________________
धावर्थविचारः ]
व्युत्पत्तिवादः ।
(२१५)
संभवतीत्येव नियमः, स च तात्पर्यभ्रमेणैव निर्वहति । विभागाद्यर्थे पूर्वपूर्वेपा मनादितात्पर्यभ्रमवतो वक्तुः स्वकीयतात्पर्येण ग्रामं गच्छति' 'इत्यादिमयोगो यत्र तत्र श्रोतुस्तात्पर्य भ्रमासंभवेपि वक्तृतात्पर्यानादित्वभ्रम एव प्रयोगसंपादनद्वारा तदर्थशाब्दबोधप्रयोजक इति न तादृशनियमक्षतिरिति प्राचीनपथपरि
ष्कारप्रकारः t
नव्यास्तु-संयोगादिरूपफलविशेषावच्छिन्नस्पन्दो गम्याद्यर्थः । तद्धात्वर्थतावच्छेदकफलशालित्वमेव तद्धातुकर्मत्वं नातो गम्यादिकर्मत्वस्य पूर्वदेशादौ प्रसप्रयोगात् श्रोतुर्विभागादिविषयकशाब्दबोधो जायते एवेत्युक्तनियमस्य व्यभिचारः प्राप्त इत्याशङ्क्याह-विभागाद्यर्थेति, तत्र श्रोतुः पूर्वपूर्वेषामनादितात्पर्यभ्रमासंभवेपि उक्तवक्तृतात्पर्ये वनादित्वभ्रमत्येव तेनैव वक्तृतात्पर्यानादित्वभ्रमेण श्रोतापि विभागादितात्पर्येण ' ग्रामं गच्छति' इति प्रयोगं संपादयति ( करोति ) एतादृशवाक्याद्विभागादिरूपफलविषयक बोधोपि श्रोतुर्जा इत्यनादितात्पर्यमाभावेपि वक्तृतात्पर्यभ्रम एव ' ग्रामं गच्छति' इतिप्रयोगसंपादनद्वारा तादृशार्थबोधस्य=विभागादिविषयकशाब्दबोधस्य प्रयोजको भवति, वक्तृतात्पर्यभ्रमपि च तात्पर्यभ्रम एवेति तादृश नियमस्य = तात्पर्यभ्रमेणैव गम्यादिना विभागादिरूपफलविशेषविशेषितस्पन्दादिबोधो जायते नान्यथेति नियमस्य क्षतिः = व्यभिचारो नास्त्येव - उक्तस्थलेपि श्रोतुस्तात्पर्यभ्रमस्य सत्त्वादेवेत्यर्थः ।
EL
नवीनमतमाह-नव्यास्त्विति, नवीनमते न केवलव्यापरवाचकत्वं धातूनां किं तु फलव्यापारयोर्धातुः " इतिवैयाकरण "तवत् संयोगादिरूपफलविशेषावच्छिन्नस्पन्दादिव्यापारवाचकत्व - मेष: गम्यादिधातूनाम्, जनकत्वसंबन्धेन संयोगादिरूपफल विशिष्टत्वमेव फल विशेषावच्छिनत्वम् तथा च गम्धातोः संयोगरूपफलावच्छिन्नस्पन्दे एवं शक्तिर्न स्पन्दमात्रे इति न विभागादितापर्येण ' ग्रामं गच्छति ' इति प्रयोगापत्तिः । एवं विभागरूपफलावच्छिन्नरूपन्दे एवं त्यजुधातोः शक्तिरिति न संयोगादितात्पर्येण ' ग्रामं त्यजति ' इति प्रयोगापत्तिरित्यर्थः । कर्मस्वस्वरूपमाह - तद्धात्वर्थेति । यदि प्रकृतधात्वर्थफलशालित्वं कर्मत्वमित्युच्येत तदा गमनेन यथोत्तरदेशसंयोग उत्पद्यते इत्युत्तरदेश संयोगस्य फलखं तथा पूर्वदेशविभागोप्युत्पद्यते एवेति पूर्वदेशविभागस्यापि गमनफलत्वं स्यादेव तथा च गमनजन्यसंयोगवत्त्वाद् यथोत्तरदेशस्य गम्यादिकर्मत्वं तथा गमनजन्य विभागरूपफलवत्त्वात् पूर्वदेशस्यापि गम्यादिकर्मत्वं स्यादेव न चैतदिष्टमिति तद्धात्वर्थतावच्छेदकफलशालिखमेव तद्धातुकर्मत्वमित्युच्यते एवं च ' ग्रामं गच्छति इत्यत्र गम्धात्वर्थतावच्छेदकं फलं संयोग एवेति तादृशसंयोगाश्रयत्वमेव गमधातुकर्मत्वमिति लेब्धम्, गमनजन्यसंयोगाश्रयत्वं तृत्तरदेशस्यैवास्तीत्युत्तर देशस्यैव गमूधातुकर्मत्वं प्राप्तं न तु पूर्वदेशस्यापि - पूर्वदेशस्य गमनजन्यसंयोगरूपफलाश्रयत्वाभावात् । पूर्वदेशस्य विभागाश्रयत्वात् त्यज् धातुकर्मत्वमेव, एवम् 'ग्रामं त्यजति' इत्यत्र धात्वर्थतावच्छेदकं फलं विभाग एवेति तादृश
"Aho Shrutgyanam"