________________
(२१६)
सादर्श:- [द्वितीयाकारप्रथमखण्डे - ङ्गः। न वा स्पन्देः सकर्मकत्वम्-तत्र फलस्य धात्वर्थताऽनवच्छेदकत्वात् । एवं च धातोरेव फलविशेषलाभात् फलान्वयिनी वृत्तिरेव द्वितीयार्थः । न च "कर्मणि द्वितीया" इत्यनुशासनविरोधः-तस्य कर्मणि-फलनिष्ठाधेयत्वान्वयिनि प्रकृतितात्पर्ये तदुत्तरं द्वितीयेत्यर्थकत्वात् । न चैवं तस्य शक्तिग्राहकत्वानुपपत्तिःअनादितात्पर्यग्रहसंपादकत्वेन परम्परया शक्तियाहकत्वसंभवात् । न च फलस्य पदार्थंकदेशतया तत्र द्वितीयार्थवृत्तेरन्वयासंभवः-- व्युत्पत्तिवैचित्र्येण प्रकृते एक
देशान्वयस्वीकारात् । विभागाश्रयस्यैव त्यधातुकर्मत्वं ज्ञेयम् । एवंरीत्या कर्मत्वलक्षणेन स्पन्देः स्पन्द्यादिधातोः सकर्मकत्वापत्तिरपि नास्ति तत्र फलस्य धात्वर्थतावच्छेदकत्वाभावादित्याह-न घेति । एवं च धातोः फलावच्छिन्नव्यापारवाचकत्वेन फलविशेषवाचकत्वमपि धातोरेव प्राप्तं न द्वितीयाया इति फलान्वयिनी संयोगादिरूपफलनिष्ठा या वृत्तिः आधेयता सैव द्वितीयार्थः, संयोगस्य ग्रामनिष्ठत्वाद् ग्रामनिरूपिताऽऽधेयता संयोगेऽस्त्येव, 'ग्रामं गच्छति' इत्यत्र 'ग्रामनिरूपिताधेयतावत्संयोगजनकव्यापारवान्' इतिबोधोदयादित्याह-एवमिति । ननु द्वितीयाया आधेयतार्थकत्वे "कर्मणि द्वितीया इतिसूनविरोधः स्यात्-अनेन सूत्रेण कर्मत्वे द्वितीया विधीयते नत्वाधेयतायामित्याशङ्क्य ह-न चेति । परिहारहेतुमाह-तस्येति, तस्य= "कर्मणि द्वितीया" इति सूत्रस्य 'यदा प्रकृतिभूतमामादिपदस्य संयोगादिरूपफलनिष्ठा याऽऽधेयता तादृशाधेयतान्वयिनि-तादृशाधेयतानिरूपके ग्रामादिपदार्थे तात्पर्य भवति तदा तदुत्तरम् ग्रामादिपदोत्तरं द्वितीया भवति' इत्यवार्थो न तु 'कर्मत्वे द्वितीया भवति' इत्यर्थ इति नास्माकं "कर्मणि द्वितीया" इत्यनुशासन विरोधोपी. त्यर्थः । सूत्रपटकस्य “ कर्मणि" इतिपदस्यार्थमाह- फलनिष्ठाधेयत्वान्वयिनीति । ननु सूत्रघरककर्मपदस्य कर्मपदार्थे कर्मत्वे वा शक्तिः संभवति न तु फलनिष्ठाधेयत्वान्वयिन्यपि किं तु तत्र तात्पर्यमात्रमेव स्यात् त्वयापि सूत्रतात्पर्यस्यैव वर्णितत्वादिति तस्य="कर्मणि द्वितीया " इति सूत्रस्य त्वदुक्तार्थपरत्वे शक्तिग्राहकत्वं न स्यादस्ति च व्याकरणस्यापि शक्तिग्राहकत्वम् "शक्तिग्रहं व्याकरणोपमान " इति प्रमाणादित्याशङ्क्याह- न चैवमिति । अनादितात्पर्यग्राहकत्वमपि शक्तिग्राहकत्वमेवास्ति किं वाऽनादितात्पर्यग्राहकत्वपरम्परया शक्तिग्राहकत्वं सूत्रस्य शेयं सूत्रधटककर्मपदस्थ च फलनिष्ठाऽऽधेयत्वाऽन्वयिन्येवानादितात्पर्यमस्ति तादृशास्यैव बोधस्य जायमानत्वादित्यभिप्रायेण परिहारहेतुमाह- अनादीति । ननु फलावच्छिन्नव्यापारस्य धात्वर्थत्वे फलस्य पदार्थैकदेशत्वं प्राप्तं तत्र च द्वितीयार्थस्य वृत्तेः-आधेयताया अन्वयो न संभवति-"पदार्थः पदार्थेनान्वेति न तु पदार्थंकदेशेन" इति व्युत्पत्तिविरोधादित्याशङ्कयाह- न चेति । परिहारहेतुमाह- व्युत्पत्तीति । धात्वदन्यत्र पदार्थस्य पदार्थंकदेशेऽन्वयो न भवति धात्वर्थस्थले तु धात्वर्थैकदेशेपि पदार्थान्तरस्यान्चयो भवतीत्येतादृशव्युत्पत्तिवैचित्र्येग पदार्थैकदेशेपि फले द्वितीयार्थाधेयत्वान्वये न कोपि विरोध इत्यर्थः ।
"Aho Shrutgyanam"