________________
धात्वर्थविचारः ) व्युत्पत्तिवादः।
(२१७) अथ ‘गमनं न स्पन्दः' इत्यादितो धात्वर्थतावच्छेदकफले स्पन्दभेदान्वयबोधसंभवेनैतादृशप्रयोगस्य वारणाय फलविशेष्यकान्वयबोधे तद्विशेष्यकवृत्तिज्ञानजन्यफलोपस्थितित्वेन हेतुत्वकल्पनस्यावश्यकत्वात् तादृशकारणबाधेन धात्वर्थतावच्छेदकफले द्वितीयार्थान्वयासंभवः।
न च यादृशपदसमभिव्याहारज्ञानात् फलविशेष्यकस्पन्दभेदान्वयबोधः प्रसिइस्तादृशपदसमभिव्याहारज्ञानतादृशपदज्ञानजन्यफलाद्युपस्थितिघटितसामग्र्यास्तादृशान्वयबाधोत्पादप्रयोजिकाया असत्खेनोक्तस्थले तदापत्यऽसंभव इति वाच्यम्, यत्र गमनादिपदादेव लक्षणया शक्तिभ्रमेण वा स्वातन्त्र्येण फलो.
ननु यद्युक्तरीत्या द्वितीयार्थाधेयात्वस्य धात्वर्थैकदेशेपि संयोगादिरूपफलेऽन्वयो भवति तदा 'गमनं न स्पन्दः' इत्यत्रापि गमनपदादुपस्थितो यः संयोगरूपफलावच्छिन्नव्यापारस्तादृशव्यापारैकदेशभूतसंयोगे स्पन्दभेदस्यान्वयसंभवेन 'गमनं न स्पन्दः' इत्यपि प्रयोगः स्यादेव, न चैवं प्रयोगो भवाते धात्वर्थस्य सादरूपस्वेन तत्र स्पन्दभेदासंभवादित्येतादृशप्रयोगस्य='गमनं न स्पन्दः ' इति प्रयोगस्य वारणाय फलविशेष्यकबोधं प्रति तद्विशेष्यक=फलविशेष्यकवृत्तिज्ञानजन्यफलोपस्थितेहेतुत्वं वक्तव्यं यथा 'संयोगो न स्पन्दः' इत्यत्र संयोगविशेष्यकवृत्तिज्ञानासंयोगोपस्थितिरस्तीति स्पन्दभेदप्रकारकसंयोगविशेष्यकशाब्दबोधो जायते तथा च 'गमनं न स्पन्दः' इत्यत्र गमनदेन विशेष्यतयोपस्थितिस्तु गमनरूपस्पन्दस्यैव भवति न फलस्येति न संयोगरूपफले स्पन्द भेदस्यान्वयः संभवात विशेष्यतयोपस्थितं गमनं तु स्पन्दरूपमेवेति न तत्रापि स्प-दभेदान्वयः संभवतीति 'गमनं न स्पन्दः' इतिप्रयोगो न भवति, तथा च 'ग्राम गच्छति' इत्यत्रापि संयोगरूपफलस्य विशेष्यतयोपस्थितिर्नास्तीति तादृशकारणबाधेन फलविशेष्यकबोधसपादिकायाः फलस्य विशेष्यतयोपस्थितेर्बाधेनः-असत्त्वान्नात्र धात्वर्थतावच्छेदकफले संयोगे 'द्वतीयार्थस्याधेयत्वस्यान्वयः संभवतोत्याशङ्कते- अथेति । अथेत्यत्र 'अथैवम्' इतियुक्तः पाठः । किं वा "वोवसंभवेन' इत्यत्र 'बोधासंभवेन' इतिपठितव्यम् । . ननु यादृशपदसममिव्याहारज्ञानात्-'संयोगः स्पन्दो न' इत्यत्र संयोगपदसमभिव्याहारज्ञानात् संयोगरूपले स्पन्दभेदान्वयबोधो जायते इति तादृशपद-संयोगपदसमभिव्याहारेण संयोगपदजन्यसंयोगरूपफलोपस्थित्या च घटितायाः तादृशान्वयबोधोत्पादप्रयोजिकायाः-स्पन्दभेदप्रकारकसंयोगरूपफलविशेष्यकबोधोत्पत्तिप्रयोजिकायाः सामग्र्या उक्तस्थले- 'गमनं न स्पन्दः' इत्यत्रा सत्त्वेन तदापत्त्यऽसंभवःगमनपदोपस्थितसंयोगरूपफलावच्छिन्नव्यापारैकदेशे :संयोगरूपफले स्पन्दभेदान्वयस्यापत्ति स्ति, संयोगस्य विशेष्यतयोपस्थापकसामग्रीसत्त्वे एव विशेष्य. तयोपस्थितसंयागे पदार्थान्तरान्वयसंभवादिति न 'गमनं न स्पन्दः' इति प्रयोगापत्तिरित्याशङ्कयाह- न चेति । परिहरति- यत्रेति, यदा हि 'गमनं न स्पन्दः' इत्यत्र गमनपदेन लक्षणया शक्तिभ्रमेण वा केवलसंयोगरूपफलस्यैवोपस्थितिर्भवति तत्र स्वातन्त्र्येण विशेष्यतया
"Aho Shrutgyanam"