________________
(२१८)
सादर्शः- [ द्वितीयाकारकप्रथमखण्डेपस्थितिस्तत्र फलविशेष्यकस्पन्दभेदान्वयबोधप्रसिद्धया गमनपदसमभिव्याहार. तजन्यफलोपस्थितिघटितसामय्याः फलविशेष्यकस्पन्दत्वाद्यवच्छिन्नभेदान्वयबोधप्रयोजकताया आवश्यकत्वात् तद्भलेन शक्तिप्रमाधीनबोधेपि फलांशे स्पन्दभेदादिभानप्रसङ्गात् ।
एवं च फलव्यापारयोः पृथक् शक्तिस्वीकारपक्षेपि न निस्तार:-- तथात्वेपि हि 'गमनं न स्पन्दः' इत्यादौ फलांशे शक्तिप्रमया स्पन्दभेदान्वयबोधसंभवेन ताशप्रयोगापत्ते१रत्वादिति चेत् ?,
न, तद्विशेष्यकवृत्तिज्ञानजन्यतदुपस्थितिजन्यतावच्छेदककोटी तादृशोपस्थिफलोपस्थितेः सत्त्वात् फले सयोगे स्पन्दभेदस्यान्वयः संभवत्येवेति तत्र फलविशेष्यकस्पन्दभेदप्रकारकशाब्दबोधस्य प्रसिद्ध्या गमनपदसमभिव्याहारेण गमनपदजन्यसंयोगरूपफलोपस्थित्या च घटितायाः सामन्याः फलविशेष्यकस्पन्दभेदप्रकारकशाब्दबोधं प्रति प्रयोजकताया: हेतुतायाः स्त्रीकारस्यावश्यकत्वात् तद्बलेन उक्तैतादृशसामग्रीबलेन शक्तिप्रमाधीनबोधेपि यत्र 'गमनं न स्पन्दः इतिवाक्यघटकगमनपदाच्छक्तिप्रमया संयोगावच्छिन्नव्यापारस्योपस्थितिर्जाता तयोपस्थित्या च शाब्दबोधो जायते तत्रापि फले संयोगे स्पन्दभेदान्वयप्रयोजिकाया उक्ताया गमनपदसमभिव्याहारगमनपदजन्यसंयोगरूपफलोपस्थितिघटितसामन्याः सत्त्वादेव फलांशे= गमनपदोपस्थितफतावच्छिन्नव्यापारकदेशभूतेपि फले स्पन्दभेदस्यान्वयबोधः स्यादेवेति — गमनं न स्पन्दः ' इतिप्रयोगोपि स्यादेव संयोगे स्पन्दभेदस्य सत्त्वादेव. न चैवं प्रयोग इष्ट इति तद्वारणाय सयोगे स्पन्दभेदान्वयबोधं प्रति शक्तिप्रमया विशेष्यतया संयोगोपस्थितेः कारणत्वं वक्तव्यं, सा च ' गमनं न स्पन्दः । इत्यत्र नास्तीति न संयोगे स्पन्दभेदान्वयापत्तिस्तथा चैवमेव 'ग्राम गच्छति । इत्यत्रापि संयोगस्य विशेष्यतयोपस्थित्यभायात्तत्रसंयोगे द्वितीयार्थाधेयत्वान्य. यासंभव इत्यर्थः ।
ननु गम्यादिधातोः फलव्यापारयोः पृथक् पृथक् खण्डशः शक्तिं स्वीकारण्यामस्तथा च 'ग्रामं गच्छति । इत्यत्र गम्धातुना संयोगरूपफलस्यापि व्यापारवत् स्वतन्त्र विशेष्यतयोपस्थितिर्भविष्यति न व्यापारविशेषगत्वेन येनात्र संयोगरूपफले द्वितीयार्थाधेयत्वस्यान्वयानुपपत्तिः स्यादित्याशङ्कयाह एवं चेति । एवं च एवमेव । परिहारहेतुमाह- तथात्पीति । तथात्व=फलव्यापारयोः पृथक् शक्तिस्वीकारपक्षेपि 'गमनं न सन्दः । इत्यत्रापि गमनपदाद् व्यापारवत् संयोगरूपफलस्यापि पृथक् शक्त्या विशेष्यतयोपस्थितिः स्यादेवेति विशेष्यतयोपस्थितसंयोगे स्पन्दभेदस्यान्वयसंभवेन तादृशप्रयोगस्य= गमनं न स्पन्दः । इति प्रयोगस्याऽऽपत्तिरिय स्यादिति न फलव्यापारयोर्धातूनां खण्डशक्तिस्वीकारपक्षेपि निम्तार इत्यर्थः ।। ____ अथेत्यादिना शङ्कितं परिहरति- नेति, यत्रैकविधशाब्दबोधं प्रत्यनेक विधोपस्थिः यादीनां कारणत्वं प्राप्नोति तत्र कार्यतावच्छेदककोटौ कारणाव्यवहितोत्तरत्वनिवेशस्य मर्यादास्तीति
"Aho Shrutgyanam"