________________
धात्वर्थ विचार:]
व्युत्पत्ति वादः । त्यव्यवहितोत्तरत्वनिवेशनमावश्यकम् , विशिष्य तत्तत्पदमन्तर्भाव्यैव पदार्थोपस्थितेरेकैकविधबोधे नानाहेतुताया व्यवस्थापितत्वाद् एकपदाधीनतद्विषयकशा. ब्दबांधे पदान्तरवृत्तिज्ञानजन्यतदुपस्थितेयभिचारस्य प्रकारान्तरेण वारणासंभ. वात् । एवं च धात्वर्थतावच्छेदकफले द्वितीयार्थान्वयबोधेपि क्षतिविरहः- तत्रैता. दृशकारणस्य व्यभिचाराप्रसक्तेरिति वदन्ति ।। बहुधा प्रतिपादितम्, एतदेवाह- तद्विशेष्यकेति । यथा घटविशेष्यकत्रोधं प्रति घटपदजन्योपस्थितेः कारणत्वं तथा कलशपदजन्योपस्थितेरपि कारणत्वमस्त्येव किं तु घटपदजन्योपस्थिति जन्यशाब्दबोधकाले कलशपदजन्योपस्थितेरसत्त्वेन कारणत्वव्यभिचारः स्यादिति तादृशव्यभिचारस्य कार्यतावच्छेदककोटौ कारणाव्यवहितोत्तरत्वनिवेशं विना प्रकारान्तरेण वारणासंभवादित्याह-- एकपदेति, तथा च घटपदजन्योपस्थित्यव्यवहितोत्तरजायमानघटविशेष्यकशाब्दबोधं प्रति घटपदजन्योपस्थितिः कारणमित्येवं विशेषरूपेण तत्तत्पदमन्तर्भाव्यैव पदार्थोपस्थितेः कारणत्वं वक्तव्यम् , एकप्रकारकबोधे घटकलशादिपदजन्यनानाविधोपस्थितीनां या नानाहेतुता तस्याः प्रकारान्तरेण व्यवस्थाया असंभवादित्याह-- विशिष्येति । तथा च प्रकृतेपि संयोगविशेष्यकवृत्तिज्ञानजन्यसंयोगोपस्थित्यव्यवहितोत्तरजायमानस्योगविशेष्यकशाब्दबोधं प्रति संयोगविशेष्यकवृत्तिज्ञानजन्यसंयोगोपस्थिते; कारणत्वमित्येवं विशेषरूपेणैव कार्यकारणभावो वक्तव्यः तत्तच्छाब्दबोध प्रति तत्तद्विशेष्यकोपस्थितेरेव कारणत्वमिति यावत् तथा च यदा ' गमनं न स्पन्दः ' इत्यत्र गमनपदालक्षणया विशेष्यत्वेन संयोगोपस्थितिः स्यात्तदा तत्र विशेष्यत्वेनोपस्थितसयोगे स्पन्भेदान्वयस्य न काप्यनुपपत्तिः- एतादृशबोधं प्रति संयोगविशेष्यकोपस्थितेः कारणत्वात् तस्यान श्वात्र सत्त्वात्-- गमनपदेन लक्षणया संयोगस्य विशेष्यतयैवोपस्थितत्वात् , यदा च गमनपदासंयोगावच्छिन्नव्यापारस्यवोपस्थितिस्तदा तस्याः संयोगविशेष्यकशाब्दबोधं प्रति कारणत्वामान वान्न व्यापारकदेशे संयोगे स्पन्दभेदान्वयापत्तिः-संयोगस्थ विशेष्यतयोपस्थित्यभावादिति न 'गमनं न स्पन्दः । इतिप्रयोगापत्तिः । एवं च तत्तच्छाब्दबोधं प्रति तत्तद्विशेष्यकोपस्थिते: कारणत्वे स्वीकृते — ग्रामं गच्छति । इत्यत्र द्वितीयार्थाधेयताया व्यापारैकदेशेपि संयोगेऽन्वयोपगमे संयोगविशेष्यकद्वितीयार्थाधेयत्वप्रकारकशाब्दबोधं प्रति द्वितीयासमभिव्याहृतगमधातुजन्यसंयोगोपस्थितेः कारणत्वं प्राप्तमित्येतादृशकारणसत्वात् 'ग्रामं गच्छति । इत्यत्र व्यापरिकदेशेपि संयोगे द्वितीयार्थाधेयत्वस्यान्वये न काप्यनुपपत्तिः । स्पन्दभेदप्रकारकसंयोगविशेऽपशाब्दबोधं प्रति च संयोगविशेष्यकोपस्थितेरेव कारणत्वात् तस्याश्च 'गमनं न स्पन्दः । इत्यत्रा. भावान व्यापारैकदेशे संयोगे स्पन्दभेदान्वयापत्तिरिति न ‘गमनं न स्पन्दः' इतिप्रयोगापत्तिरित्याशयेनाह- एवं चेति । क्षतिविरहः= गमनं न स्पन्दः । इतिप्रयोगापत्तिरूपा क्षतिर्नास्तीत्यर्थः। उक्त हेतुमाह- तत्रेति, तत्र स्पन्दभेदप्रकारकसंयोगविशेष्यकशाब्दबोधे एतादृशकारणस्य गम्धातुजन्याया व्यापारैकदेशत्वेन संयोगस्योपस्थितेः कारणत्वमेव नास्ति ( संयोगविशे
"Aho Shrutgyanam"