________________
(२२०)
सादर्शः- (द्वितीयाकारकप्रथमखण्डेअत्रेदं चिन्त्यते- व्यापारमात्रस्य धात्वर्थतायामापि सर्वानुपपत्तीनामुद्धृतत्वात फलावच्छिन्नव्यापारस्य गुरुतया तथात्वमनुचितम् ।
अथ फले द्वितीयादेः शक्त्यन्तरकल्पनामपेक्ष्य धातोविशिष्ट शक्तिकल्पनमेवो. चितम् । न च भवन्मतेप्याधेयत्वे द्वितीयादेः शक्त्यन्तरस्य कल्पनीयत्वात्तदंशे साम्यमिति वाच्यम् , 'ग्राममध्यास्ते ' 'ग्राममधिशेते ' ' ग्रामं संयुनक्ति'
इत्यादौ द्वितीयायाः सर्वमते एवाधेयत्वबोधकतया द्वितीयादेः फलवाचकत्वमव्यकोपस्थितेरेव कारणत्वात् ) येन ' गमनं न स्पन्दः । इत्यत्र गमधातुना व्यापरिकदेशत्वेनाप्युपस्थिते संयोगे स्पन्दभेदान्वयः आपद्येत ? यदि स्पन्दभेदप्रकारकसंयोगविशेष्यकशाब्दबोधं प्रति गम्धातुजन्याया व्यापारकदेशत्वेन संयोगस्योपस्थितेः कारणत्वं स्यात्तदा 'गमनं न स्पन्दः' इत्यत्र स्पन्दभेदप्रकारकसंयोगविशेष्यकशाब्दबोधस्याऽजायमानत्वेप्येतादृशकारणस्य सत्त्वेन व्यभिचारः स्यात् ? न चैवमस्ति । किं वा तत्र=आधेयत्वप्रकारकसंयोगविशेष्यकशाब्दबोधे एतादृशकारणस्य गम्धातुजन्यसंयोगविशेष्यकोपस्थितेः कारणत्वमेव नास्ति येन 'ग्रामं गच्छति' इत्यत्र संयोगविशेष्यकोपस्थितिं विनाप्याधेयत्वप्रकारकसंयोगविशेष्यकशाब्दबोधस्य जायमानत्वेन एतादृशकारणस्य संयोगविशेष्यकोपस्थितेर्व्यभिचारः स्यादित्यर्थः प्रतीयते ।
इत्येवं प्राचीननवीनयोर्मतमुपपाद्य तयोः समीक्षामारभते- अत्रेदमित्यादिना, प्राचीनमतानुसारेण व्यापारमात्रस्यापि धात्वर्थत्वे न कोपि दोषः, ये च नवीनेन दोपाः प्रदर्शितास्तेप्युद्धतास्तथा च फलावच्छिन्नव्यापारस्य गुरुतया तथात्वम् धात्वर्थत्वं नोचितमित्यर्थः । व्यापारमात्रस्य धात्वर्थत्वे ये दोषा यथा प्रदर्शिता यथा चोद्धृतास्तत्सर्वं पूर्व द्वितीयाकारकग्रन्यमारभ्य द्रष्टव्यमित्यलमत्र पुनस्तत्प्रदर्शनेन । __ननु प्राचीनमतानुसारेण फले संयोगादौ द्वितीयादेः शक्तिकल्पनापेक्षया धातोरेव विशिष्टे= फलावच्छिन्नव्यापारे शक्तिकल्पनमुचितं लाघवात् . फले द्वितीयायाः पृथक् शक्तिकल्पने गौरवादित्याशङ्कते- अथेति । ननु भवन्मते नवीनमतेपि धातोरेव फलावच्छिन्नव्यापारे शक्तिस्वीकारेण फले द्वितीयायाः शक्त्यभावेप्याधेयत्वे तु शक्तिः स्त्रीक्रियते एवेति यथा मया प्राचीनेन फले द्वितीयायाः शक्तिः स्वीक्रियते तथा त्वया नवीनेनाधेयत्वे शक्तिः स्वीक्रियते एवेति साम्यमेव प्रत्युत धातोः फलावच्छिन्नव्यापारे शक्त्या गौरवमधिकमित्याशङ्कयाह- न चेति । परिहारमाह-- ग्राममिति, 'ग्राममध्यास्ते ' इत्यत्र स्थितिरूपफलं तु धात्वर्थ एव द्वितीया च सप्तम्यर्थे जातास्तीति द्वितीयाया आधेयत्वमेवार्थः-ग्रामनिरूपिताधेयतावती स्थितिरितिबोधः, 'ग्राममधिशेते । इत्यत्र शयनरूपफलं तु धात्वर्थ एव द्वितीयार्थ आधेयत्वमेव ' ग्राम संयुनकि ' इत्यत्र संयोगरूपफलं तु धात्वर्थ एव द्वितीयार्थ आधेयत्वमेव भवतीत्युक्तोदाहरणस्थलेषु सर्वमतेष्वेव द्वितीयाया आधेयत्वरूपार्थबोधकत्वात प्राचीनमते द्वितीयायाः फलवाचकत्वस्वीकारेप्याधेयत्ववाचकत्वमावश्यकमेव तथा च प्राचीनमते द्वितीयायाः फलवाचकत्वमप्याधेयत्ववाचकत्व
"Aho Shrutgyanam"