________________
उक्तनवीनप्राचीनमतसमीक्षा } व्युत्पत्तिवादः ।
(२२१) तेप्याधेयत्ववाचकताया आवश्यकत्वात् । न च द्वितीयायाः संयोगादिवाचकत्वमते आधेयत्वे तस्या लक्षणैव न तु शक्तिरिति वाच्यम्, आधेयतात्वस्याऽखण्डतया संयोगत्वादिसमशरीरत्वात् संयोगत्वाद्यवच्छिन्ने तदवच्छिन्ने वा शक्तिः कल्प्यते इत्यत्र विनिगमकासंभवात् ।
अस्तु वा ममाप्याधेयत्वे लक्षणैव शक्तिस्तु संख्यायामेव । यदि च द्विती. यादेः फलबोधकतामते फलेपि तस्या लक्षणैव न तु शक्तिः, शक्तिस्तु संख्यायामेव- संयोगविभागादिरूपप्रत्येकफलापेक्षया संख्यायां तत्प्रयोगप्राचुर्यस्य विनिः गमकत्वादित्युच्यते ? । तथापि तन्मते धातुजन्यशुद्धव्यापारोपस्थितेः शाब्दबोधहेतुताकल्पनमधिकम्-द्वितीयाद्यसमभिव्याहारस्थलानुरोधेन फलविशेषावच्छिमपीति गौरवं नवीनमते केवलाधेयत्ववाचकत्वमेवेति लाघवमित्यर्थः । ननु प्राचीनमते द्विती. थायाः संयोगादिरूपफले एव शक्तिः आधेयत्वे तु तस्याः द्वितीयाय। लक्षणैवेति न फलाऽऽधे. पत्वोभयवाचकत्वापत्त्या गौरवमित्याशङ्कयाह- न चेति । परिहारमाह- आधेयतात्वस्येति, पया संयोगलमखण्डो धर्मस्तथाऽऽधेयतात्वमप्यखण्ड एव धर्म इत्याऽऽधेयतात्वस्य संयोगत्वसमानत्वेन विशेषाभावात् संयोगत्वाद्यवच्छिन्ने संयोगादौ फले द्वितीयायाः शक्तिरुचिता वा तदवच्छिन्ने आधेयतात्वावच्छिन्ने आधेयत्वे वा द्वितीयायाः शक्तिरुचितेत्यत्र विनिगमकाभावाद् द्वितीयायाः फले एव शक्तिरिति नियमो न संभवति, तस्माद् द्वितीयाया अधेयत्वे एव शक्तिःउक्तोदाहरणस्थलेषु द्वितीयाया आधेयत्वबोधकतायाः सर्वमतसिद्धत्वादित्यर्थः । अखण्डेति-- बहुपदार्थाऽघटितत्वमेवाऽखण्डत्वम् ।
नवीन माह- अस्तु वेति, आधेयत्वे द्वितीयाया लक्षणास्वीकारेपि फले तु द्वितीयायाः शक्तिस्त्येिव किं तु संख्यायामेव शक्तिः- द्वितीयान्तप्रयोगेषु सर्वत्र द्वितीयाया एव संख्याबोधकत्वात्, फलं तु धातुलभ्यमेव- फलावच्छिन्नव्यापारे एव धातुशक्तिस्वीकारादित्यर्थः । ननु प्राचीनमतेपि द्वितीयाया यत्फलबोधकत्वं तलक्षणयैव न शक्त्येति फलेपि द्वितीयाया लक्षणैवोच्यते न शक्तिः शक्तिस्तु द्वितीयायाः संख्यायामेव स्वीक्रियते- 'ग्रामं गच्छति' इत्यत्र संयोग एव फलम् — ग्रामं त्यजति ' इत्यत्र विभाग एव फलं नत्वेकं फलं सर्वत्रास्ति यस्मिन् द्वितीयायाः शक्तिः स्वीक्रियेत संख्या तु सर्वत्रैव शाब्दबोधविषयो भवतीति संख्यायां तत्प्रयोगप्राचुर्यस्य द्वितीयाप्रयोगप्राचुर्यस्यैव संख्यायां शक्तिकल्पने विनिगमकत्वादिति फले द्वितीयाया लक्षणया द्वितीयाया एव फलबोधकत्वं न धातोरित्याशङ्क्याह-यदि चेति । उत्तरमाह-तथापीति, तथापि=फले द्वितीयाया लक्षणास्वीकारेण शक्त्यऽस्वीकारेपि तन्मतेप्राचीनमते धातुना फलानवच्छिन्नस्य शुद्धस्य केवलस्य व्यापारस्योपस्थितिर्या भवति तस्या यच्छाब्दबोधहेतुत्वं तदधि. कमेव स्याद् यतः-' त्यजति । 'गच्छति' इत्यादी द्वितीयासमभिव्याहाररहितस्थले फलबोधिकाया द्वितीयाया अभावाद् धातोरेव फलावच्छिन्नव्यापारे लक्षणा स्वीकर्तव्या तथा च धातु
"Aho Shrutgyanam"