________________
(२२२)
सादर्श:- [ द्वितीयाकारकप्रथमखण्ड - नव्यापारे धातोर्लक्षणाया भवतामप्यावश्यकत्वाद धातुजन्यतादृशव्यापारोपस्थितिहेतुताया उभयसिद्धत्वात् ।
यदि च 'स्पन्दते ' इत्यादित इव शक्तिभ्रमात् 'गच्छति ' इत्यादितोपि शुद्धव्यापारबोध आनुभविक इति मन्यते ? तथापि तन्मते शाब्दबुद्धौ द्वितीयादि. जन्यफलोपस्थितेः कारणतायाः कल्पनाधिक्यं तज्जन्याधेयत्वोपस्थितिहेतुत्वकल्पनस्य चोक्तस्थलानुरोधेनोभयमत एवावश्यकत्वादितिचेत् ?, अस्तु तन्मते तादृशकारणताया आधिक्यम् ।
नव्यमते तु 'ग्रामं गच्छति' इत्यादिवाक्यज्ञानघटितशाब्दसामय्याः
जन्यफलावच्छिन्नव्यापारोपस्थितेरपि शाब्दबोधहेतुत्वं स्वीकर्तव्यमेवेति गौरवम् । 'गच्छति । इत्यत्रापि संयोगानुकूलव्यापारस्य प्रतीयमानत्वेन धातुजन्यायास्तादृशव्यापारोपस्थितेः फलावच्छिन्नव्यापारोपस्थितेः शाब्दबोधहेतुता तव मम चेत्युभयमतसिद्धास्तीति प्राचीनमते धातुजन्योभयविधोपस्थितेः शाब्दबोधहेतुत्वकल्पनं प्राप्तमिति गौरवम, नवीनमते तु धातुजन्यफलावच्छिन्नव्यापारोपस्थितेरेकाया एव शाब्दबोधहेतुत्वकल्पनापत्तिरिति लाघवमित्यर्थः । __ननु यथा ' स्पन्दते ' इत्यत्र न किंचित्फलावच्छिन्नव्यापारस्य बोधो जायते किं तु शुद्धव्यापारस्यैव तथा शक्तिनमात् ' गच्छति । इत्यत्रापि द्वितीयारहितस्थले शुद्धव्यापारबोध एव जायते न फलावच्छिन्नव्यापारबोध इति धातुजन्यशुद्धव्यापारोपस्थितेरेवैकायाः प्राचीनमतेपि शाब्दबोधहेतुत्वमस्ति नोक्तधातुजन्यद्विविधोपस्थितेरिति नोक्तगौरवमित्याशङ्क्याह-यदि चेति । उत्तरमाह-तथापीति, तथापि धातुजन्योक्तद्विविधव्यापारोपस्थितेः शाब्दबोधहेतुत्वकल्पनापत्त्यभावेपि तन्मते-प्राचीनमते 'ग्रामं गच्छति ' इत्यत्र शाब्दबोधं प्रति यद् द्वितीयाजन्यफलोपस्थितेः कारणत्वकल्पनं ( कारणत्वं ) तदधिकमेव, यतः-उक्तस्थलानुरोधेन 'ग्राममध्यास्ते । इत्यादौ स्थित्यादिरूएफलस्य धातुनैव लभ्यत्वाद् धातोः स्थित्यर्थकत्वाद् द्वितीयागा आधेपत्वार्थकत्वमुभय ( तव मम ) मतसिद्धमेवेति तज्जन्य=द्वितीयाजन्याधेयत्वोपस्थितेस्तु शाब्दबोधहेतुत्वकल्पनमुभयमतसिद्धत्वादावश्यकमेवेति द्वितीयाजन्यफलोपस्थितेः कारणत्वकल्पनमधिकमेवेतिगौरवम् । नवीनमते त्वाधेयत्वमेव द्वितीयार्थ इति सर्वत्र द्वितीयाजन्याधेयत्वोपस्थितेरेकाया एव शाब्दबोधकारणत्वकल्पनापत्तिरिति लाघवमित्यर्थः । अथेत्यादिनारब्धामाशङ्कां परिसमापयति इति चेदिति । उत्तरमाह-अस्त्विति, तन्मते द्वितीयायाः फलबोधकत्ववादिप्राचीनमते सादृशकारणतायाः उक्तरीत्या शाब्दबोधं प्रति द्वितीयाजन्यफलोपस्थितेः कारणताया आधिक्यमस्तु तन्न दोषावहं नवीनमतस्यैव तदपेक्षयाधिकप्रदर्शयिष्यमाणगौरवग्रस्तस्यादित्यर्थः ।
नव्यमते स्वाभिप्रेतं गौरवं प्रदर्शयति- नव्यमते इति, शाब्दबोधसामग्र्याः समानविषयकामुमितिं प्रति प्रतिबन्धकत्वं सर्वमतसिद्धमेव, नवीनमते धातोः फलावच्छिन्नव्यापारे शक्तिरस्ति तत्र
"Aho Shrutgyanam"