________________
रक्तनवीनप्राचीनमतसमीक्षा] व्युत्पत्तिवादः ।
(२२३) समानविषयकानुमित्यादिप्रतिबन्धकतायां फलप्रकारतानिरूपितव्यापारविशेष्यताशालित्वेन धातुजन्योपस्थितेर्निवेशनीयतया तस्यास्तादृशविशेष्यताशालित्वेन व्यापारविशेष्यतानिरूपितफलप्रकारताशालित्वेन वा निवेश इत्यत्र विनिगमनाविरहात् सामग्रीमतिबन्धकताधिक्यमऽवच्छेदकगौरवं च । प्राचीनमते द्वितीयाजन्य फलोपस्थितेः सामय्यन्तनिवेशस्तु नव्यमतसिद्धतज्जन्याधेयत्वोपस्थितिनिवेशस्थलीय इति । नव्यमते ताशस्थले शाब्दबोधस्याधिकविषयतया तात्पर्यज्ञानादिकमप्यधिकविषयकमेव शाब्दधीहेतुर्भविष्यति प्रतिबन्धकसामय्यामप्यनतर्भविष्यतीति च गौरवम् । प्रामं गच्छति' इत्यादिवाक्यज्ञानघटितसामग्या या समानविषयकानुमित्यादिप्रतिबन्धकता तच्छरीरे धातुजन्योपस्थितेः फलनिष्ठप्रकारतानिरूपितव्यापारनिष्ठविशेष्यताशालित्वेन रूपेण निवेशनीयतया तत्र तस्याः धातुजन्योपस्थितेः तादृशविशेष्यताशालित्वेन फलप्रकारतानिरूपितव्यापारविशेष्यताशालित्वेन वा निवेशः कर्तव्यः व्यापारविशेष्यतानिरूपितफलप्रकारताशालित्वेन रूपेण वा निवेश: कर्तव्य इत्यत्र विनिगमनाविरहात् द्विविधरूपेणैव निवेशः स्यादिति सामग्र्या द्वैविध्येन सामग्रीनिष्ठप्रतिबन्धकताया अपि द्वैविध्यं स्यादेवेतिगौरवाधिक्यम्, अवच्छेदकगौरवं च फलावच्छिन्नव्यापारस्य धात्वर्थत्वे धात्वर्थतावच्छेदकं फलावच्छिन्नव्यापारत्वं स्यात्तच गुरु इत्यवच्छेदकगौरवम् । प्राचीनमते तु शुद्धव्यापार एव धात्वर्थ इति नोक्तरीत्या समान विषयकानुमित्यादिकं प्रति शाब्दसामग्र्या द्विविधप्रतिबन्धकत्वं न बाऽवच्छेदकगौरवं व्यापारत्वमात्रस्यैव धात्वर्थतावच्छेदकत्वादित्यर्थः । ननु प्राचीनमतेपि द्वितीयाजन्यफलोपस्थितेरपि शाब्द. सामन्यामन्तर्भावात् तादृशोपस्थितेः प्रतिबन्धकत्वेन गौरवं स्यादित्याशङ्कयाह-प्राचीनमत इति, नवीनमते यथा तजन्य-द्वितीयाजन्याधयेत्वोपस्थितेः शाब्दसामग्र्यामन्तर्भावस्तथा प्राचीनमते द्वितीयाजन्यफलोपस्थितेः शाब्दसामयामन्तर्भाव इति साम्यमेवेत्यर्थः। स्थलीयः= स्थानीयः । नवीनमते पुनगौरवमाह-नव्यमते इति, नवीनमते तादृशस्थले= 'ग्राम गच्छति' इत्यादिस्थले शाब्दबोधे व्यापारस्य फलस्याऽऽधेयत्वस्य च विषयतया भासमानत्वेन शाब्दबोधकारणीभूततात्पर्यज्ञानादिकमपि शाब्दबोधसमानविषयकत्वादधिकविषयकमेव शाब्दबोधकारणं स्यात्, तादृशमेवाधिकविषयकं तात्पर्यज्ञानादिकं समानविषयकानुमित्यादिप्रतिबन्धकीभूतायां शाब्दसामग्यामन्तर्भूतं च स्यात् तेन च प्रतिबन्धकतास्वरूपाधिक्यं स्यादिति गौरवम् । - ननु ' ग्रामं गच्छति । इत्यादौ संयोगादिरूपफलस्य द्वितीयार्थत्वे तस्य फलस्य जनकत्वसंबन्धेन धात्वर्थव्यापारेऽन्वयो भवति-ग्रामवृत्तिसंयोगजनकव्यापारवानितिबोधोदयात्, इत्येवं स्थिते ' भूमि गच्छति न महीरुहम् ( जलमितिशेषः ) ' इत्यत्र महीरुहवृत्तिसंयोगस्य जनकस्वसंबन्धेन गमनव्यापारेऽभावो वक्तव्य इत्यत्र जनकत्वसंबन्धावच्छिन्नप्रतियोगिताको महीरुह
"Aho Shrutgyanam"