________________
(२२४)
सादर्श:- [ द्वितीयाकारकप्रथमखण्डे-- अथ फलस्य द्वितीयार्थत्वे 'भूमि गच्छति न महीरुहम् ' इत्यादौ महीरुहवृतिसंयोगादेर्जनकतासंबन्धावच्छिन्नाभाव एव नञर्थों वाच्यः स च वृत्त्यानेयामकसंबन्धस्याऽभावप्रतियोगितानवच्छेदकतया अप्रसिद्धः । नव्यमते तु द्वितीयार्थस्याधेयत्वस्य फलनिष्ठोऽभाव एव तथेति नानुपपत्तिः । न च भूमिकर्मकगमनकर्तादौ महीरुहकर्मकगमनकर्तृत्वाद्यभावः प्रतीयते इति वाच्यम्, कर्तृवाचकपदाऽसमभिव्याहारस्थले तदसंभवात् ।।
न च तत्राप्याख्यातार्यान्वयबोधानुरोधेन कर्तृवाचकपदाध्याहारस्यावश्यक तयाऽध्याहृतपदोपस्थाप्यकर्तर्येव तादृशाभावो नसा बोधयिष्यते इति वाच्यम्,
आख्यातार्थविशेष्यकस्याप्यन्वयबोधस्य संभवेनाऽध्याहारस्याऽनावश्यकत्वात् । वृत्तिसंयोगस्याभावो ‘नों वक्तव्यः स च जनकत्वसंबन्धावच्छिन्न प्रतियोगिताकोऽभावो प्रसिद्ध एव वृत्त्यऽनियामकस्य जनकत्वसंबन्धस्याऽभावप्रतियोगितावच्छेदकत्वाभावात्, वृत्तिनियामकस्यैव संबन्धस्याभावप्रतियोगितावच्छेदकत्वात्, अप्रसिद्धस्य च बोधो न संभवतीति प्राचीनमते ' भूमि गच्छति न महीरुहम् ' इत्यत्र वाक्यार्थबोधानुपपत्तिर्दोष इत्याशङ्कतेअथेति । नन्वत्र नवीनमते कथं वाक्यार्थबोधोपपत्तिः स्यादित्याशय नवीनमतेनात्र वाक्यार्थमोधमुपपादयति- नव्यमते इति, नवीनमते तु द्वितीयार्थ आधेयत्वमेवेति तस्याधेयत्वस्य संयो. गादिरूपफलनिष्ठोऽभाव एव तथा नअर्थ इति नात्र वाक्यार्थानुपपत्तिः- संयोगादावाऽऽधेयत्वस्याश्रयतासंबन्धेनान्वयसंभवादाऽऽश्रयतासंबन्धस्य वृत्तिनियमकत्वेनाऽभावप्रतियोगितावच्छेदक. त्वात् संयोगे आश्रयत्वसंबन्धावच्छिन्न प्रतियोगिताकाधेयत्वाभावस्थात्र प्रतीयमानत्वादित्यर्थः । ननु 'भूमि गच्छति न महीरुहम् ' इत्यत्र न जनकतासंबन्धेन संयोगाद्यभावो नर्थ उच्यते येनोक्तानुपपत्तिः स्यात् किं तु भूमिकर्मकगमनकर्तरि समवायेन महीरुहकर्मकगमनव्यापारकर्तृत्वाभाव एव नना प्रतीयते स एवात्र नार्थ इत्युच्यते समवायस्य च वृत्तिनियामकत्वेनाभावप्रतियोगितावच्छेदकत्वसंभवादित्याशङ्क्याह- न चेति । परिहारमाह- कर्तृवाचकेति, कर्तृवाचकपदसत्त्वे तेनोपस्थितकर्तरि उक्तकर्तृत्वाभावबोधनसंभवेपि कर्तृवाचकपदाभावे तदसंभवात्-उक्तगमनकर्ववाभावबोधनासंभवात्, अनुयोगिसत्त्वे ह्यभावप्रतीतेः संभवादित्यर्थः । ___ ननु तत्रापि-कर्तृवाचकपदाऽसमभिव्याहारस्थलेप्याख्यातार्थस्य व्यापारस्यवान्वयबोधोपपत्त्यर्थं कतृवाचकपदस्याध्याहारः कर्तव्य एव येनाऽध्याहृतपदोपस्थितकर्तरि व्यापारादेरन्वयः स्यात् तथा चाध्याहृतपदोपस्थितकर्तर्येव नत्रा तादृशामावः उक्तमहीरुहकर्मकगमनकर्तृत्वाभावो बोधयिष्यते इति नात्र वाक्यार्थानुपपत्तिरित्याशझ्याह- न चेति । परिहारमाह-- आख्यातार्थेति, 'भूमे. र्गमनं न महीरुहस्थ' इत्यादौ प्रथमान्तगमनपदवाच्यव्यापारविशेष्यकोपि शाब्दबोधो जायते एवेति कर्तृवाचकपदाऽसमभिव्याहारस्थले सर्वत्र कर्तृवाचकपदाध्याहारनियमस्यासंम्बात्, अनुपस्थित. करि चोक्तकर्तृत्वाभावान्चयासंभवात् , तथा च महीरुहवृत्तिसंयोगस्य जनकल्वसंबन्धावच्छिन्ना
"Aho Shrutgyanam"