________________
भेदान्वयवादः] व्युत्पत्तिवादः।
(११७) न च दीधितिकृन्मते तादृशयोग्यताज्ञानहेतुत्वाकल्पनलाघवोप ‘जानाति इत्याद्यानुपूर्वीज्ञानघटितज्ञाधातुशक्तिज्ञामजन्यज्ञानोपस्थितिघटितशान्दसामन्या भिन्नविषयकप्रत्यक्ष प्रति प्रतिबन्धकतायामाख्यातजन्याश्रयत्वोपस्थिते निवेशस्याधिक्याद् गौरवमिति वाच्यम्, भवन्मतोप ' ज्ञानाश्रयत्वाभाववांश्चैत्रः सुन्दरः' इत्यादिविशिष्टवैशिष्टयावगाहिप्रत्यक्षे 'जानाति चैत्र' इत्याद्यानुपूर्वीज्ञानघटितज्ञाधातुजन्यज्ञानोपस्थितिघटितसामग्याः प्रतिबन्धकताधिक्येन गौरवात् । __ मन्मते च तादृशसामथ्या विरोधिज्ञानाश्रयत्वाभाववत्तानिश्चयवटिततया ग्यताज्ञानस्य हेतुता स्वीकरणीया. अन्यत्राश्रयत्वसंसर्गकशाब्दबोचं प्रति तादृशः आश्रयतासंसर्गकयोग्यताज्ञानस्य च हेतुता स्वीकार्येति द्विविधकार्यकारणभावकल्पनापत्त्या संसर्गतावादे गौरवम् । प्रकारतावादे तु ज्ञानाश्रयत्वप्रकारकयोग्यताज्ञानस्यैव हेतुत्वमित्येककार्यकारणभाक्कल्पदेन लाघवमित्यर्थः । ___ ननु दीधितिकृन्मते=आश्रयत्वस्य प्रकारताचादे तादृश-आश्रयत्वसंसर्गकयोग्यताज्ञानस्य हेतुत्वकल्पनापत्तिर्यद्यपि नास्ति सर्वत्राश्रयत्वप्रकारकयोग्यताज्ञानस्यैव हेतुत्वात्तेनैव च ज्ञाधातो. र्ज्ञानाश्रयत्वे शक्तिश्रमस्थले स्वारसिकलक्षणाग्रहस्थले च निर्वाहादिति लाघवमस्ति तथापि विभिनविषयकप्रत्यक्ष प्रति शाब्दसामग्र्याः प्रतिबन्धकत्वं सर्वसंमतमस्ति तत्र 'जानाति ' इत्यादा. वाऽऽश्रयत्वस्य प्रकारत्वे आश्रयत्वस्याख्यातेनोपस्थितिः स्वीकार्या तथा चात्र जानातीत्यानुपूर्वीज्ञानघटिता तथा ज्ञाधातुशक्तिज्ञानजन्यज्ञानोपस्थितिघटिता या शाब्दसामग्री तस्याः प्रतिबन्धकत्व प्राप्ते तादृशप्रतिबन्धकतायामाख्यातजन्याश्रयत्वोपस्थितेनिवेशस्य-बाख्यातजन्याअपलोपस्थितेरपि प्रतिबन्धकत्वं कल्पनीयमिति गौरवम् । संसर्गतावादे चारयातस्यात्र निरर्थकत्वादाश्रयत्वस्य च संसर्गविधया भानादाख्यातजन्याश्रयत्वोपस्थितिरेव न भवति येन तस्याः प्रतिबन्धकत्वकल्पनापत्तिः स्यात्. तथा चाऽऽश्रयत्वोपस्थितेः प्रतिबन्धकत्वकल्पनापत्त्यऽभावात्संसर्गतावादे लाघवमित्याशक्याह- न चेति । प्रतिबन्धा परिहारहेतुमाह- भक्मतेऽफीति । भवन्मते-भाश्रयत्वस्य संसर्गतामतेपि । संसर्गतामते हि ' जानाति चैत्रः । इतिवाक्येन * आश्रयतासंबन्धेन ज्ञानवांश्चैत्रः । इत्येव बोधो जायते विशिष्टवैशिष्ट्यावगाहिप्रत्यक्षं च 'ज्ञानाश्रयत्वाभाववांश्चैत्रः सुन्दरः ' इति. अत्र च ज्ञानाश्रयत्वाभावश्चैत्रे विशेषणं न तु ज्ञानाभाव इत्युलसान्दबोधप्रत्यक्षयोः परस्परं विरोधाभावात् विभिन्न विषयकत्वाच्चोभयप्रयोजकसामग्र्योर्युगपदापत्तिः संभवतीत्युक्तविशिष्टवैशिष्ट्यावगाहिप्रत्यक्ष प्रति — जानाति चैत्रः । इतिशाब्दबोधसामच्या ज्ञाधातुजन्यज्ञानोपस्थितिघटितायाः प्रतिवन्धकताकल्पनाधिक्येन गौरवमित्यर्थः । ज्ञाना. अश्वत्वाभावविशिष्ट चैत्रे सुन्दरत्ववैशिष्ट्यमिति प्रत्यक्षस्य विशिष्टवैशिष्टयावगाहित्वम् ।
प्रकारतावादी स्वमते उक्तगौरवाभावमुपपादयति- मन्मत इति । 'जानाति । इत्यकारूपातस्याश्रयत्वार्थकत्वादाश्रयत्वस्य प्रकारत्वस्वीकाराम · जानाति चैत्रः । इतिवाक्येन ' ज्ञानाश्र
"Aho Shrutgyanam"