________________
सादर्श:
[ प्रथमाकार के
( ११८ ) तथाविधविशिष्टवैशिष्ट्यबोध सामय्यास्तादृशशाब्दसामग्र्या समं युगपदऽवस्थानासंभवेन तादृशप्रतिबन्धकत्वकल्पनाविरहादित्यधिकं दर्शितदिशाऽवसेयम् ॥
अथैवंरीत्या ' भूतले न घट: ' इत्यादौ घटादिपदस्य घटप्रतियोगि कादौ तदुतरसुब्विभक्तेरेव वा प्रतियोगितायां लक्षणामभ्युपेत्य तत्र 'घटप्रतियोगि काभावो भूतलवृत्तिः ' इत्याद्याकारकप्रतियोगिताप्रकार कशाब्दबोधोपगम एव समुचितः, तथा सति तथाविधसमभिव्याहारज्ञानवटितसामय्याः : वटप्रतियोगि कत्वाभावयत्ववांत्र: ' इति बोधो जायते इति शाब्दबोधे चैत्रे ज्ञानाश्रयत्वस्य विशेषणत्वाद् उक्तविशिवैशिष्ट्या वगाहिप्रत्यक्षे च चैत्रे ज्ञानाश्रयत्वाभावस्य विशेषणत्वात् शाब्दबोधप्रत्यक्षयोः परस्परं विरोधः प्राप्त इति शाब्दबोधप्रत्यक्षसामग्र्योर्युगपदेवस्थानमेव न संभवति येनैकसामग्र्याः प्रतिबन्धकत्वकल्पनापत्तिः स्यात् L तथा च तादृशसामग्र्याः जानाति चैत्रः इति शाब्दबोधीयसामय्या ज्ञानाश्रयत्वप्रकारकयोग्यताज्ञानघटिताया: 'यो विरोधी ज्ञानाश्रयत्वाभा ववत्ता निश्चयस्तेन तथाविध= उक्तविशिष्टवैशिष्ट्या वगाहिप्रत्यक्षसामाग्र्याः घटिततया तस्याः प्रत्यक्षसामग्र्यास्तादृश=उक्तशाब्दबोधसामग्र्या सहावस्थानमेव न संभवति, अर्थात् ज्ञानाश्रयत्वाभाववत्ताया निश्चयेनोक्तप्रत्यक्षमेव भवति शाब्दबोधश्च ज्ञानाश्रयत्व निश्चयरूपस्वकारणाभावात्स्वयमेवानुत्पन्नं तिष्ठतीति न प्रतिबन्धकत्वकल्पनाधिक्य मित्यर्थः । प्रकृतवादविस्तरमुपसंहरतिइश्यधिकमिति, वादग्रन्थानां दिक्प्रदर्शकत्वादधिकमेवमेव प्रदर्शितरीत्या स्वयं कल्पनीयमित्यर्थः ॥ एवंरीत्या यथा ' जानाति ' इत्यादावाख्यातार्थाश्रयत्वप्रकारक बोधः स्वीकृतस्तथा भूतले न चट:' इत्यादावपि प्रतियोगिताप्रकारक एव शाब्दबोधः स्वीकर्तव्य इत्यन्वयः । प्रतियोगिताप्रकार शाब्दबोधप्रकारमाह- - भूतल इति । ' भूतले न घटः इत्यत्र घटपदस्य घटप्रतियोगिके क्षणा तेन अर्थाभावेन चाभेदान्वयेन सप्तम्यन्तभूतलपदस्य च भूतलवृत्तित्वार्थपरत्वेन 'घटप्रतियोगि काभावो भूतलवृत्तिः ' इतिशाब्दबोधो जायते, किं चात्र घटपदस्य घट एवार्थस्तदुत्तर= घटपदोत्तरवर्तमानविभक्तेरेव प्रतियोगितायां लक्षणा तत्र घटस्याssधेयत्वसंबन्धेन प्रतियोगितायां प्रतियोगितायाश्च निरूपकत्वसंबन्धेन नञर्थाभावे भेदान्वयः घटत्वावच्छिन्न प्रतियोगिताकाभावो भूतलवृत्ति: ' इति शाब्दबोधः । अत्र चाभावे प्रतियोगिता प्रकारतया भासते इति प्रतियोगिताप्रकारकः शाब्दबोधः । एवंरूपप्रतियोगिताप्रकार कशाब्दबोधस्वीकारस्योपयोगमाह- तथा सतीति, प्रतियोगिताप्रकार कशाब्दबोधस्वीकारे सति तथाविध= ' भूतले न घट:' इत्याकारकसमभिव्याहारज्ञानघटितशाब्दसामग्र्याः ' घटप्रतियोगि कत्वाभाववानऽभावः प्रमेय: ' इति विशिष्टशिष्टावगाहिप्रत्यक्षं प्रति प्रतिबन्धकत्वकल्पनापत्तिर्नास्ति तथा हि- प्रतियोगिताप्रकार कशाब्दबोधस्वीकारे ' भूतले न घट: ' इति वाक्यात् 'घटप्रतियोगिकाभावो भूतलवृत्तिः , इति शाब्दबोधो जायते तत्र प्रतियोगिता प्रकारः, " घटप्रतियोगिकश्वाभाववानभावः प्रमेयः ' इति प्रत्यक्षे चाभावे घटप्रतियोगिकत्वाभावः प्रकार इति प्रत्यक्षशाब्दबोधयोः परस्परं विरोधे
,
,
-
" Aho Shrutgyanam"
५