________________
भेदान्वयवादः व्युत्पत्तिवादः।
(११९) वानभावः प्रमेयः' इत्यादिविशिष्टवैशिष्टयबोधं प्रति प्रतिबन्धकत्वाकल्पनेन लाघ. वादित्युक्तनियमे निपातातिरिक्तत्वविशेषणवैयर्यमिति चेत् ?,
न, ‘भूतले न घटा ' इत्यादौ घटाद्यभावे भूतलाद्यन्वितसप्तम्यर्थाधेयत्वस्येव तात्पर्यवशाद् घटादौ सप्तम्यन्तार्थभूतलादिवृत्तित्वाभावस्यान्वयबोधोप्यनुभव. प्राप्ते उक्तशाब्दबोधस्य च ' घटप्रतियोगिकत्वाभाववानभावः । इत्येवं बाधस्तादृशबाधस्यामावस्य 'घटप्रतियोगिकत्वाभावाभाववानभावः । इत्येवमुक्तशाब्दसामग्र्या निश्चये जाते प्रत्यक्षं विशेषणज्ञानरूपस्वकारणाभावात् स्वयमेव नोत्पद्यते इति न शाब्दसामग्र्याः प्रतिबन्धकस्वकल्पनापत्तिः । तथा चैतल्लाघवार्थ प्रतियोगिताप्रकारकशाब्दबोधे स्वीकृतेऽत्र घटप्रतियोगिकेतिघटनामार्थेन नर्थाभावेन च परस्परमभेदान्वये जाते निपातातिरिक्तनामार्थयोरभेदेनैवान्वयो भवति निपातार्थनिपातातिरिक्तनामार्थयोस्तु भेदान्वयोपि भवतीतिनियमस्य तदर्थं निपातातिरिक्तत्वविशेषणस्य चस्पेक्षा नास्त्येव- उक्तरीत्या निपातार्थरूपनअर्थाभावस्य नामार्थस्य घटस्य चाभेदान्वयस्य प्रदर्शितत्वादित्यर्थः । अयं भावः- उक्तनियमे निपातातिरिक्तत्वविशेषणस्य निपातार्थनिपातातिरितनामर्थयोर्भेदान्वय एव फलमस्ति तत्रोक्तरीत्या निपातार्थनिपातातिरिक्तनामार्थयोरभेदान्वये संभवति सति भेदान्वयप्रतिपादनं निष्फलमेव किं च निपातातिरिक्तनामार्थयोरभेदान्वयो निपाता. थेनिपातातिरिक्तनामार्थयोश्च भेदान्त्रय इतिवैषम्ये गौरवमपीति तदर्थ निपातातिरिक्तत्वविशेषणमपि व्यर्थमेव निरातातिरिक्तत्वविशेषणाभावे हि निपाताथनिपातातिरिक्तनामार्थयोरभेदान्वयः प्राप्नोति सच प्रदर्शित- एव, एवम् 'चन्द्र इव मुखम् ' इत्यत्रापि चन्द्रपदस्य चन्द्रप्रतियोगिके लक्षणया बन्द्रप्रतियोगिकं यत्सादृश्यं तद्वन्मुखमित्येवं निपातार्थसादृश्यस्य निपातातिरिक्त मामार्थचन्द्रस्य चामेदान्वयो द्रष्टव्यः, एवमन्यत्राप्यूह्यमिति । उक्तनियमेनिपातातिरिक्तनामार्थयोः (६८) इतिनियमे ।
प्राचीनमते तु प्रतियोगितायाः प्रकारत्वानभ्युपगमात् 'भूतले न घटः' इतिवाक्यात् 'प्रतियोगितासंबन्धेन घटवानऽभावः ' इति शाब्दबोधो जायते इत्यऽभावे घट एक प्रकार उक्तप्रत्यक्षे चाभावे घटप्रतियोगिकत्वाभावः प्रकारो न तु घटाभावो येनोक्तशाब्दबोधप्रत्यक्षयोर्विरोधः स्यात् . विरोधाभावे चोभयसामग्र्योर्युगपदवस्थानसंभवात् प्रत्यक्षस्य विभिन्न विषयकत्वाच तत्प्रति शाब्दसामग्र्याः प्रतिवन्धकत्वकल्पनापत्त्या गौरवं स्यादेवेति प्रतियोगिताप्रकारक एव शाब्दबोधः समुचित इत्यर्थः । ___ उक्तं परिहरति-- नेति । परिहारहेतुमाह- भूतल इति । भूतलाद्यन्वित: भूतलनिरूपितो य: सप्तम्यर्थ आधेयत्वम्=वृत्तित्वम् ( भूतलवृत्तित्वम् ) तस्येव. यथोक्तरीत्या — भूतले न घटः ' इत्यत्र घटाभावे भूतलवृत्तित्वस्यान्वयः- 'घटप्रतियोगिकामावो भूतलवृत्तिः । इत्येवमस्ति तथा तात्पर्यवशाद् घटादी सप्तम्यर्थो यदं भूतलवृत्तित्वं तदभावस्याप्यन्वयबोधः 'घटो भूतलवृत्तित्वाभाववान् ' इत्येवं बोधोऽनुभवसिद्ध एवेति कथं प्रतियोगिताप्रकारक एव शाब्दबोधः सर्वत्र
"Aho Shrutgyanam"