________________
(१२०)
साद
[ प्रथमाकारकेसिद्धः, अन्यथा-- सादृशवाक्यजन्यस्याऽप्रामाण्यज्ञानानास्कन्दितबोधस्य 'भूतले घटः । इत्यादिवाक्यजन्यघटादिविशेष्यकभूतलाद्याधेयत्वप्रकारकबोधविरोधिवायाः सर्वानुभवसिद्धाया अनुपपत्तेः । नञ्पदं विना यत्र धर्मिणि यस्य विशेपणतया भानं यादृशसमभिव्याहाराद् भवति ताशसमभिव्याहारस्थले नसते तत्र धर्मिणि तदभावः प्रतीयते इत्यनुभवाऽफ्लापप्रताच । एवं च नर्थाभावेऽनुयोगितया घटायन्वयबोधोपपत्तये निपातातिरिक्तत्वविशेषणमावश्यकम् । स्वीक्रियेत । विपक्षे बाधकमाह- अन्पधेति । अन्यथा- ‘भूतले न घटः । इतिवाक्यात् 'घटो भूतलवृत्तित्वाभाववान् । इत्येवं घटविशेष्यकभूतलवृत्तित्वाभावप्रकारकशाब्दबोधानङ्गीकारे त्वदुक्तरीत्या ताशवाक्यजन्यस्य= भूतले न घटः । इतिवाक्यजन्यस्य बोधस्य ' भूतले घटः ' इतिवाक्यजन्यस्य च बोधस्य परस्परं सर्वानुभवसिद्धो विरोधो नोपपद्येत, अयं भावः-- प्रतियोगिताप्रकारकशाब्दबोधस्वीकर्तृमते उक्तरीत्या - भूतले न घटः ' इतिवाक्यात् ‘बटप्रतियोगिकाभावो भूतलवृत्तिः । इत्येवं भूतलवृत्तित्वप्रकारकप्रतियोगिताप्रकारकाभावविशेष्यक एव शाब्दबोधो जायते ‘भूतले घटः । इतिवाक्याच भूतलवृत्तित्वप्रकारकघटविशेष्यकशाब्दबोचो जायते तयोश्च परस्परं विरोधो नोपपद्यते- न हि घटाभावविशेष्यकं भूतलवृत्तित्यप्रकारकं प्रतियोगि. ताप्रकारकं च ज्ञान घटविशेष्यकभूतलवृत्तित्वप्रकारकज्ञानं विरुणद्धि ग्राह्याभावानवगाहित्वात् किं
घटविशेष्यकभूतलवृत्तित्वप्रकारकज्ञानं घटविशेष्यकभूतलवृत्तित्वाभावप्रकारकमेव ज्ञानं विरुगद्धि तस्मात् — भूतले घटः ' 'भूतले न घटः । इत्युभयवाक्यजन्यशाब्दबोधयोः परस्परं सर्वानुभवसिद्धविरोधस्योपपत्तये · भूतले न घटः' इतिषाक्यात् 'घटो भूतलवृत्तित्वाभाववान् ' इत्येवं घटे ससम्यन्तार्थभूलवृत्तिस्वाभावस्यान्व्यः स्त्रीकर्तव्य एव. अन्यथा-- नञ्पदं विनेत्यादिसर्गनुभवापलापश्च स्यात् । नञ्पदमिति- नरुपदं विना यादृशसमभिव्याहारात्= भूतले घटः । इतिसमभिव्याहारात् यत्र धर्मिणि-घटे यस्य भूतलवृत्तिरवस्य विशेषणतया भानं भवति तादृशसमभिव्याहारस्थले नसत्त्वे ' भूतले न घटः ' इत्यत्र तत्र धर्मिणि-घटे तदभावः भूतलवृत्ति. साभावः प्रतीयते इति सर्वानुभव : "प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमौ" इत्यनेनोक्तः तथा च 'भूतले घटः । इत्यस्माद् ‘भूतलवृत्तित्ववान् घटः । इतिबोधो जायते इति भूतले न घटः' इत्यस्मात् 'भूतलवृत्तित्वाभावधान् घटः' इतिशाब्दबोधः स्वीकर्तव्य एव. अत्र भूतलवृत्तिस्वाभावेऽनुयोगित्वरूपेण घटस्यान्वयोस्ति- घटस्यैवात्र भूतलवृत्तित्वाभावानुयोगित्वात् । अनुयोगितारूपेण चान्मयो भेदान्वय एव भेदेन च नामार्धयोरन्वयो न भक्तीत्यत्र नअर्थे भूतलवृत्तित्वाभावे घटस्याप्यनुयोगित्वेन रूपेण भेदान्वयो न स्यादिति तदुपपत्तये, उक्तनियमे निपातातिरिक्तत्वविशेषणं देयमेव तथा च निपातातिरिक्तनामार्थयो देनान्वयासंभवेपि निपातार्थनिपातातिरिक्तनामार्थयोस्तु भेदेनान्वयः संभवतीति नो निपातत्वात् तदर्थस्याभावस्य घटस्य च भेदेनाप्यन्ययो न विरुद्ध इत्लाइ- एवं चेति ।
"Aho Shrutgyanam"