________________
भेदान्वयवादः ]
व्युत्पत्तिवादः ।
( १२१ )
एवम् ' न पचति चैत्रः ' ' चैत्रस्य न धनम्' इत्यादौ पाककृतिचैत्रस्वत्वाद्यभावस्य नञर्थस्य चैत्र - धनादावन्वयबोधोपपत्तये च तदावश्यकम् ।
न चोक्तस्थलेषु नत्रोऽभाववल्लाक्षणिकतयाऽभाववता सममनुयोगिनोऽभेदाबोध एव तत्रोपेथते इति वाच्यम्, तथा सति सर्वत्राभाववत एव नञथतया मुख्यार्थपरनजो दुर्लभत्वापत्तेः । अभावस्य भेदान्वयोपगमेपि कार्यकारणभावकल्पनाधिक्यविरहेणाभाववति लक्षणाऽनौचित्यात् । अभाववतोऽभेदान्वयबो
एवमिति - यथोक्तस्थले नञर्थाभावस्य घटस्य च भेदेनान्ययोपपत्त्यथमुक्त नियमे निपाता'तिरिक्तत्व विशेषणमावश्यकमेवम् ' न पचति चैत्रः ' इत्यत्र नञर्थस्य पाककृत्यभावस्य चत्रे विशेष्यत्वादिलक्षणभेद संबन्धेनान्वयोपपत्त्यर्थम् ' चैत्रस्य न धनम् ' इत्यत्र नञर्थस्य चैत्रस्वत्वाभा वस्य धने मेदसंबन्धेनान्वयोपपत्त्यर्थं च तत् = निपातातिरिक्तत्वविशेष गमावश्यकम् । अन्यधात्र antar चत्रादौ भेदेनान्वयो न भवेदित्यर्थः ।
9
ननु यद्युक्तस्थलेषूक्तरीत्या भेदेनैवान्वयः संभवेन्नामेदेन तदोक्तनियमे निपातातिरिक्तत्वविशेषमावश्यकं स्यादपि नैवमस्ति किं तुक्तस्थलेषु नमोऽभाववति लक्षणा तेनाभाववता चानुयोगिनोमेदान्यपि संभवति यथा- ' भूतले न घट: ' इत्यत्र घटाभाववदभिन्नं भूतलम्. न पचति चैत्र: ' इत्यत्र पाककृत्यभाववदभिन्नश्चैत्रः. ' चैत्रस्य न धनम् इत्यत्र चैत्रस्वत्वाभाववदभिन्नं धनमित्येवमभेदान्वयबोधो भविष्यतीत्याशङ्क्याह-न चेति । परिहारहेतुमाह- तथा सतीति, एवं हि सर्वत्र नञोऽभाववति लक्षणापत्त्या नञः स्वमुख्यार्थाभावबोधकत्वं कचिदपि नोपलम्येत विनिगमनाविरहात् सर्वत्रैव लक्षणाप्रसङ्गात् । मुख्यार्थाभावे च लक्षणापि न स्यात् लक्षणाया: शक्यसंबन्धरूपत्वात् । नञश्वोक्तस्थलेष्वभावबोधकत्वे स्वीकृते उक्तानुपपत्त्या उक्तनियमे निपातातिरिक्तत्वविशेषणमावश्यकमित्यर्थः ।
ननुक्तस्थलेषु सर्वत्रैव वाऽभावस्य भेदान्वयोपगमे नञोऽभावार्थकत्वं स्वीकार्य तथा च नत्रSभाववति लक्षणाऽनङ्गीकारेणाऽभावपरत्वाश्रयणे नञ्पदघटितवाक्यस्थले नञाऽभावस्योपस्थितिः स्वीकार्य तादृशनञ्पदजन्याभावोपस्थितेरपि शाब्दबोधं प्रति कारणत्वापत्त्या कार्यकारणभावकल्पनाधिक्येन गौरवं स्यात्, मन्मते च नञोऽभाववति लाक्षणिकतयाऽभावोपस्थितेरपेक्षैव नास्ति येनाभावोपस्थितेः कारणत्वं स्यादिति न तादृशं गौरवमित्याशङ्क्याह- अभावस्येति, अभावस्य दान्योपगमाथ नञोऽभावार्थकत्वस्वीकारेपि कार्यकारणभावकल्पनायामाधिक्यं नास्त्येव यतः -- नत्रोऽभावार्थकत्व स्वीकारे यथा नञ्पदघटितवाक्यजन्यशाब्दबोधं प्रति नञ्पदजन्याऽभावोपस्थिते: कारणत्वमस्ति तथा नञोऽभाववति लक्षणास्वीकारे नञ्पदजन्याभाववदुपस्थितेः कारणत्वमस्त्येवेन्युमयमते कार्यकारणभावे साम्यमेव नाधिक्यमिति न नञोऽभाववति लक्षणास्वीकारः समुचित इत्यर्थः ।
विपक्षे बाधकमाह - अभाववत इति, नत्रोऽभाववति लक्षणास्वीकारे तस्याभाववतोऽनुयो
"Aho Shrutgyanam"