________________
( १२२ )
सादर्श:
[ प्रथमाकारके
घोपगमे ' भूतले घट: ' इत्यादिवाक्यजन्यबोधे ' भूतले न घटः ' इत्यादिवाक्यजन्यबोधस्याऽविरोधितापत्तेश्व. लाघवात् स्वरूपसंबन्धेन ग्राह्याभावनिश्वयस्यैव विशिष्टबुद्धिविरोधित्वात् न त्वभेदसंसर्गकग्राह्याभावाश्रयप्रकारकनिश्चयस्येति । 'नीलो घट: ' इत्यादौ विशेषणविभक्तेरभेदार्थकत्वमतेपि यद्यप्युक्तरीत्या लाव संभवति तथापि तत्रापि न नो विद्वेष इति दिक् ॥ गिपदार्थेनाभेदान्वयस्वीकारे ' भूतले घटः ' भूतले न घटः ' इतिवाक्यजन्यशाब्दबोधयोर्यः खलु सर्वानुभवसिद्धो विरोधः स नोपपद्येत. यतः - • भूतले घटः ' इति वाक्यात् भूतलवृत्तिर्घट : ' इति बोधो जायते. नञोऽभाववति लक्षणया 'भूतलेन घट:' इत्यस्माच्च' घटाभावव-दभिन्नं भूतलम् ' इति बोधो जायते इति प्रथमवाक्येन घटे भूतलवृत्तित्वस्य द्वितीयवाक्येन च भूतले घटाभाववदभिन्नत्वस्य बोधनात् परस्परं न विरोध उपपद्यते । घटे भूतलवृत्तित्वबोधस्य घटे भूतलवृत्तित्वाभावबोधेनैव प्रतिपक्षिणा विरोधसंभवात् । स्वयमपि विरुद्धाविरुद्धस्वरूपमाह - लाघवादिति, अन्यप्रकारेण विरोधस्वीकारे गौरवालाघवात् ' भूतले घटः ' इत्यत्र ग्राह्यं यद् भूतलवृत्तित्वं स्वरूपसंबन्धेन=अभावीयविशेषणतासंबन्धेन तदभावनिश्चयस्य= भूतलवृत्तित्वाभा - वनिश्वयस्यैव=घटो भूतलवृत्तित्वाभाववानित्यस्यैव बोधस्य विशिष्टबुद्धिविरोधित्वात् घटो भूतलवृत्तिरित्येवं घटे भूतलवृत्तित्वलक्षणा या विशिष्टबुद्धिस्तां प्रति विरोधित्वमुपपद्यते, न त्वऽभेदसंसर्गकग्राह्याभावाश्रयप्रकारकनिश्चयस्य नाम ग्राह्याभावो यो भूतलवृत्तिर्घटाभावस्तदाश्रयो यत् घटाभाववद् अमेदसंबन्धेन यस्तत्प्रकारकनिश्वयः - घटाभाववदभिन्नं भूतलमिति तस्य तु विरोधित्व atreen इत्यर्थः ।
नीलो घट इति, अत्र कृष्णंमट्टो यथा- यथा राजस्वत्वाभाववान् पुरुषः सुन्दरः ? इति प्रत्यक्षं प्रति षष्ठी स्वत्वार्थिकेति नव्यमते ' राज्ञः पुरुषः ' इति शाब्दसामय्याः प्रतिबन्धकत्वं न कल्प्यते - ' राजस्वत्वाभाववान् पुरुषः ' इतिविशेष्यतावच्छेदकप्रकारक निर्णयः (निश्चयः) प्रत्यक्ष कारणं स एव निर्णयः शाब्दबोधे बाधः तादृशवाधाभावः शाब्दबोधे कारणं तथा च बाधतदभावयोर्युगपदवस्थानासंभवात् सामग्र्योर्मेलनं न संभवतीति न शाब्दसामग्री प्रत्यक्षे प्रतिबन्धिका तथा - ' नीलाभेदाभाववान् घटः प्रमेयः' इति प्रत्यक्षेपि नीलाभेदाभाववान् घटः । इति विशेष्यतावच्छेदकप्रकारक निर्णयः कारणं स एव च 'नीलो घटः ' इतिवाक्यजन्ये f नीलाभेदवान् घटः इतिशाब्दबोधे बाधः तस्य बावस्याभावः शाब्दबोधे कारणमिति प्रत्यक्षशाब्दसामयो बचतदभावघटितयोर्योगपद्यासंभवात् न शाब्दसामग्री प्रत्यक्ष प्रतिबन्धिकेत्युक्तरीत्येत्यर्थः । तथा च 'नीलो घटः इत्यत्रापि विशेषण विभक्तिरभेदबोधकतया षष्ठीवत्सार्थिकेत्यर्थः : । इष्टापत्त्या समाधत्ते - तथापि तत्रापि न नो विद्वेष इति दिगिति, तथापि प्रतिबध्यप्रतिबन्धकभावस्थले उक्तरीत्या लाघवसंभवेपि तत्रापि = प्रतिबन्धकतालाघवलभ्ये विशेषण विभवत्यभेदार्थकत्वेपि नः-अभेदसंसर्गतावादिनामस्माकं युक्तिबलाद्वस्तुसिद्धौ न विद्वेष इति भावः । इति व्युत्पत्तिवादे नामार्थान्वयबोधविवरणम् " इति ॥
६
"
66
G
"Aho Shrutgyanam"
"