________________
प्रत्ययविचारारम्भः ] व्युत्पत्तिवादः ।
(१२३) प्रत्ययाश्च विभक्तिकृत्तद्धितादिभेदेन नानाविधाः । विभाक्तिश्च सुतिङ्भेदेन द्विविधा । सुब्बिभक्तयः प्रथमाद्वितीयादयः सप्त । तत्र प्रथमार्थः प्रकृत्यर्थे विशेषणविधयाऽन्वयिनी संख्येव, अत एव यत्र विशेष्यवाचकसमानविभक्तिकपदं निपातपदं वा नास्ति तत्र प्रथमान्तार्थस्य विशेष्यभासकसामग्यऽभावादसौ मुख्यविशेष्यतयैव भासते । संख्यावाचकानां चैकवचन द्विवचनबहुवचनानामेकत्वत्वदित्वत्वबहुत्वत्वावच्छिन्नेषु शक्तिः । शक्तता च सुत्वौत्वजस्त्वादिना न तु स्वादितिबादिसाधारणैकवचनत्वादिना-एकवचनत्वादे१र्वचत्वात् । न चैकत्वादिवाचकत्वं तत्-वाचकतायाः शक्ततारूपत्वे आत्माश्रयप्रसङ्गात् , बोधकता
पूर्व प्रत्ययजन्योपस्थितेः शाब्दबोधं प्रति कारणत्वमुक्तमिति संप्रति प्रत्ययं निरूपयति-प्रत्ययाश्चेति । स्पष्टीयं ग्रन्थः । प्रथमं प्रथमाविभक्त्यर्थमाह- तत्रेति । प्रथमया कर्मत्यादीनां बोधो न भवतीति संग्ल्यैव प्रथमार्थः । सा च संख्या प्रकृत्यर्थे विशेषणं भवतीत्यर्थः । “संख्यैवेत्येवकारेण संख्यातिरिक्तार्थव्यवच्छेदः, अन्यथा' तण्डुलं पचति ' इत्यत्र द्वितीयार्थ एकत्वं कर्मत्वं च तत्र ' एकत्वविशिष्टतण्डुलनिष्ठा कर्मता ' इति बोधाद् यथैकत्वं प्रकार एव न तु विशेष्यं तथा, संख्यातिरिक्तार्थस्वीकारे तस्यैव विशेष्यतया भानं स्यान्न त्वेकत्वस्य, घटः' इत्यत्र नीलादिपदान्तराऽसमभिव्याहारे ‘घटवृत्त्य कत्वम् ' इत्येवानुभूयते न तु 'एकत्ववान् घटः' इति तथा सति घटस्वादिधदेकत्वस्यापि प्रकृत्यथत्वं स्यादिति प्रथमा निरर्थकैव स्यादिति वैयाकरणमतप्रवेश इति भावः" इति कृष्णभट्टाः । प्रथमार्थस्य संख्यायाः शाब्दबोधे विशेष्यत्वेपि प्रकृत्यर्थे नीलादिवदऽन्वयित्वाकम्-विशेषणविधयेति । अत एव संख्यामात्रस्यैव प्रथमार्थत्वादेव । 'नीलो घटः' इत्यत्र
शष्यवाचकसमानविभक्तिकं नीलपदमस्तीति का एक विशेष्यतया भासते। 'चन्द्र इव मुखम् ' इत्यत्र इवेतिनिपातस्य सादृश्यार्थकस्य सत्त्वात् चन्द्रप्रतियोगिकसादृश्यविशेष्यतया किं वा चन्द्रविशेष्यतया मुखमेव भासते न प्रथमार्थः संख्या । 'घळ ' इत्यत्र च प्रथमान्तार्थस्य=वटस्योक्तविशेष्यमासकसामग्र्यऽभावादसौ-प्रथमार्थः संख्यैव मुख्यविशेष्यतया मासते- 'घटवृत्त्येकस्वम् ' 'घटौ' इत्यत्र ' घटवृत्ति द्वित्वम् ' ' घटाः ' इत्यत्र ‘घटवृत्ति बहुत्वम् ' इति बोधोदयात् । शक्ततेति-सुइत्येकवचनस्यैकत्वं शक्यमित्येकत्वे एकवचनसुपदस्थ शक्तिः शक्ततावच्छेदकं च सुत्वमेव नैकवचनत्वम्, एवं द्वित्वे औइतिद्विवचनपदं शक्तं शक्ततावच्छेदकमौत्वमेव न द्विवचनत्वम् , बहुत्वे जसितिबहुवचनपदं शक्तं शक्ततावच्छेदकं च जस्वमेव न तु बहुवचनत्वमित्यन्वयः । एकवचनत्वादेः शक्ततावच्छेदकत्वाऽसंभवे हेतुमाह- एकवचनत्वादरिति । नन्वेकत्यादिवाचकत्वमेव तत्-एकवचनत्वादि ज्ञेयमित्याशझ्याह- न चेति । परिहारमाह- वाचकताया इति, 'एकत्ववाचकत्वमेकवचनत्वम्' इत्यत्र या वाचकता सा यदि शक्ततारूपा गृह्यते तदा 'केन रूपेण शक्तता ' इति निरूपणे किं वा शक्ततावच्छेदकनिरूपणे शक्तताज्ञानापेक्षा प्रात्यात्माश्रयदोषापत्तिः । यदि च वाचकतात्र बोधकतारूपा गृह्यते तदा शक्तिश्रमेण औइ
"Aho Shrutgyanam"