________________
१२४ )
सादर्श:
[ प्रथमाकारके
रूपत्वे शक्तिभ्रमेण द्विवचनादीनामप्येकत्वबोधकतयाऽविप्रसक्तत्वात् । न चैकवचनत्वादिकं जातिविशेषः- सुत्वादिना साङ्कर्यात् ।
LL
न च शक्तिसंबन्धेनैकवचनादिपदवत्रं तत् तादृशाज्ञानदशायां च सुत्वादिना शक्तिभ्रमादेव शाब्दबोधः, एकवचनादिशब्दस्य पदद्वयात्मकतमा तादृशसमुदायशक्तेरेवाप्रसिद्धिरिति तु नाशङ्कनीयम् एकं वक्तीत्यादिव्युत्पत्त्या एकवचनादिशब्दस्य स्वादिबोधकत्वे एकादिशब्देपि तादृशव्यवहारापत्तेः । एकवचनादिशब्दस्य स्वाद रूढिस्वीकारस्यावश्यकत्वादिति वाच्यम्, ग्रन्थकारीयसङ्केतेनैवोपपत्तावेकवचनादिपदे शक्तेरप्रामाणिकत्वात् । तान्येकवचनद्विवचन च्यादिद्विवचनस्याप्येकत्वबोधकत्वेन द्विवचनस्याप्येकवचनत्वं स्यादित्यन्वयः । साङ्कर्यादिति--सुगपघटकपदे त्वमस्त्येकवचनत्वं नास्ति अमूविभक्तावेकवचनत्वमस्ति सुत्वं नास्ति सुत्वमेकवचनत्वं च सुविभक्तात्रस्तीति साङ्कर्यम् । सुप्त्वादिनेति पाठे तु सुप्त्वं सुब्बहुवचनेष्वस्ति तत्रैकवचनत्वं नास्ति, एकवचनत्वं च तिडेकवचनेष्वस्ति तत्र सुप्त्वं नास्ति सुप्त्वमेकवचनत्वं च सुबे - कवचनेष्वस्तीति साङ्कर्यं विज्ञेयम् ।
शङ्कते - न चेति । अयमर्थ:- एकत्वादिबोधकं स्वादिकं तादृशस्वादिबोधकं चैकवचनादिपदम् - " तान्येकवचन" इत्यादिसङ्केतात् तत्रैकवचनादिपद निष्ठायाः शक्तेर्निरूपकत्वं स्वादिष्वऽस्तीति तादृशनिरूपकत्वसंबन्धेन स्वादिषु शक्तिर्वर्तत इति तादृशशक्तिसंबन्धेन स्वादिष्वेकवचनादिपदं वर्तते इति तादृशं शक्तिसंबन्धेनैकवचनादिपदवत्त्वमेवैकत्वादिनिरूपितशक्तताया अवच्छेदकं न तु सुत्वादिकमित्यर्थः । किं वा तत्पदेनात्रोक्तैकवचनत्वं प्राह्मं तच शक्ततावच्छेदकमेव । नन्चेतादृशशक्ततावच्छेदकज्ञानामाये स्वादिनैकत्वादिबोधो न स्यादित्याशङ्क्याह- तादृशेति, उक्तंशक्ततावच्छेदकाऽज्ञानदशायामपि स्वादीनां सुत्वादिरूपेणैकत्वादिषु : शक्तिभ्रमः संभवतीति नादृशशक्तिभ्रमादेवैकत्वादिबोधः संभवतीत्यर्थः । नन्वेकस्मिन्नर्थे एकस्य पदस्व शक्तिर्भवति न नेकपदानामत एव वाक्यस्य वाक्यार्थे शक्तिर्न स्वीक्रियते तथा च एकवचनम् ' इतिपदं पदद्वयात्मकमस्तीति तादृशपदसमुदायस्य शक्तिरेव प्रसिद्धा नास्ति यस्या उक्तरूपेण संबन्धत्वं स्यादित्याशङ्क्याह-- एकवचनादिशब्दस्येति, एकवचनादिशब्दानां स्वादिबोधकत्वस्य प्रसिद्धत्वात् स्वादिषु शक्तिरस्त्येव तत्रापि रूढयैव बोधकत्वं स्वीकार्य यदि चैकवचनादिपदस्यैकं बक्तीति व्युत्पत्त्या स्वादिबोधकत्वं स्यात्तदैकशब्दस्याप्येकत्वबोधकत्वेन ' एकं वक्ति ' इतियोना
27
6
"Aho Shrutgyanam"
वत्त्वात् किं वा स्त्रादिबोधकैकवचनपद घटकत्वात् स्वादिबोधकत्वमापद्येत तस्मादेकवचनादिपदस्य स्वादिषु रूढिरेवास्तीति स्वीकार्य स्वादिष्वेकपदस्य तु रूढिर्नास्त्येवेत्यभिप्रायेणाहएकमिति । तादृशव्यवहारापत्तेः स्वादिवाचकत्वव्यवहारापत्तेः । परिहारमाह- प्रन्धकारीयेति, एकवचनादिपदं स्वादिबोधकमिति पाणिनिसङ्केत एव न तु शक्तिः शक्तेरीश्वरेच्छारूपत्वात्. पाणिनिसङ्केतेनाप्येकवचनादिपदानां स्वादिबोधकत्वमुपपद्यते एवेति तत्र शक्तिस्वीकारो व्यर्थ