________________
एकवचनस्वादिपरिष्कारः] व्युत्पत्तिवादः ।
(१२५) इत्यादिपाणिनिसूत्रस्य तदीयसकेतग्रहपरतयाप्युपपत्तेः । न हि " यू स्याख्यौ नदी " इत्यनुशासनात् ख्याख्येदूदन्तादिशब्दे नद्यादिपदस्य शाक्तः सिद्धयति, किं तु तदीयसङ्केत एव । अत एव नद्यादिसंज्ञाऽऽधुनिकसङ्केतशालित्वात् पारिभापिक्येव न त्वौपाधिकी। __ अथैवमपि पाणिनिसङ्केत्तंसंवन्धेन तादृशपदवत्वमेवैकत्वादिशक्ततावच्छेदकमस्त्विति चेत्?, न । तादृशसङ्केतस्य केन रूपेण संबन्धता?, संकेतत्वेनेति चेत्?, तर्हि कस्यचित् धूस एकवचनपदात् स्वौजसादिबोद्धव्य इत्याकारकसंकेतस्यापि संभवादतिप्रसक्तिर्दुवारैव । पाणिनिसंकेतत्वेनेतिचेत् ?, तर्हि व्याकरणप्रणेतुः पुरुषान्सरस्थापि ताशसंकेतस्य सभवाव तदीयसङ्केतसंबन्धेन तत्पदवत्त्वस्य. डित्थादिपदात् स्वौजसादिबोधव्य इत्याकारकपुरुषसंकेतसंबन्धेन डित्यादिपदवत्त्वस्थ का विनिगमनाविरहेण शक्ततावच्छेदकताप्रसङ्गस्तथा चागत्या आनुपूर्वीविशेष एव शक्ततावच्छेदक इति । एवेत्यर्थः । न हीति- यथा- “ यूरुपाख्यौ नदी" इत्यत्र स्याख्येदूदन्तादिशब्देषु नदीपदस्य पाणिनिसंकेत एव न तु शक्तिस्तथैकवचनादिपदस्यापि स्वादिषु पाणिनिसंकेत एच न तु शक्तिरित्यर्थः । उक्त विनिगमनामाह- अत एवेति, नद्यादिसंज्ञा पाणिनिकृताधुनिकसंकेतशालिवात् परिभाषिक्येव न स्वौपाधिकी उपाधिभूतं घटत्वादिकं प्रवृत्तिनिमित्तं कृत्वा प्रवृत्ता संज्ञा औपाविकी भवति प्रथा घटे घट इति नद्यां च नदीति नह्येत्रमीदूदन्तशब्देषु नदीत्वं वर्तते येन नदीसंज्ञा औपाधिकी स्यात्, एवं प्रकृतेप्येकवचनादिपदं स्वादिषु पारिभाषिकमेवेति शक्तेरभावान्नोक्तं युक्तमित्यर्थः । शक्तिर्नास्त्येव यस्याः संबन्धत्वं स्थादिति यावत् । ___ ननु " तान्येकवचनशिवचन " इति संकेतेन 'एकवचनपदशक्यं सुअमादिकम् , द्विवचनपदशक्यं औइत्यादिकम् , बहुवचनपदशक्यं जसादिकम् ' इति बोध्यते तथा च निरूपकत्वसंबन्धेन पाणिन्युक्तसंकेतः सुअमादिषु वर्तते तादृशस्केतसंबन्धेन च सुअमादिषु एकवचनपदं वर्तते इति सुअमादीनामेकवचनपदवत्त्वं प्राप्तमिति तादृशपदवत्त्वमेव एकवचनपदवत्त्वमेव सुअमादिषु या एकत्वनिरूपिता शक्तता तादृशशक्तताया अवच्छेदकं ज्ञेयम्, एवम्- औइत्यत्र पाणिनिसंकेतसंबन्धेन द्विवचनपदवत्त्वं द्वित्वशक्ततावच्छेदकम्, जसादौ च बहुवचनपदवत्त्वं बहुत्वशक्ततावच्छेदकमित्याशङ्कते- अथेति । परिहरति- नेति । परिहारमुपपादयति-तादृशेति । ताहशसंकेतस्य-पाणिनिसंकेतस्य । यदि पाणिनिसंकेतस्यात्र केवलं संकेतत्वरूपेणैव संबन्यता तदा केनचित्पुरुषेण ' एकपचनपदात् स्वौजसादिबोद्धव्यः । इति संकेते कृते तादृशसंकेतसंबन्धेन एकवचनपदवत्त्वं ओजसादिनिष्ठाया द्वित्वबहुस्वशक्तताया अपि अवच्छेदकं स्यादित्यतिप्रसङ्गः स्यात् । यदि च पाणिनीसंकेतस्य पाणिनिसंकेतत्वेनैव संबन्धात्वं सदा चन्द्रादीनामपि व्याकरगप्रणेतृत्लेन चन्द्रादिसंकेतसंबन्धेनेकवचनपदवत्वस्याष्येकत्वादिशक्ततावच्छेदकत्वं स्यात् तथा
"Aho Shrutgyanam"