________________
र. १२६ )
सादर्श:
[ प्रथमाकारके -
यत्तु संख्यापि प्रकृतेरर्थः, एकवचनादिकं चैकत्वाद्यर्थे तात्पर्यग्राहकमेव, न चैवमेकप्रकृत्युपस्थाप्ययोरर्थयोः परस्परमन्वये आकाङ्क्षाविरहाद् घटादावेकत्वाव्यन्वयानुपपत्तिः, अन्यथा हर्यादिपदादुपस्थितयोरश्वसूर्ययोराधाराधेयभावेनान्वयापत्तिः, घटादिपदस्यैकत्वादिविशिष्टघटादौ च न शक्तिसंभवः 'घटरूपं पश्य इत्यादी संख्यानवच्छिन्नघटादेरेवाऽऽन्वयबोधादितिवाच्यम्, आकाङ्क्षावैचित्रयादेकप्रकृत्युपस्थाप्ययोरपि घटैकत्वयोः परस्परमन्वय संभवात् । अत एव खण्ड- शक्तयैवकारापस्थाप्ययोरन्ययोगव्यवच्छेदाद्योः परस्परमन्वयबोधः ।
केनचित् ' डित्थपदात् स्वौजसादिर्बोद्धव्यः' इति संकेते कृते तादृशसंकेतसंबन्धेन डित्थपदवत्वस्याप्येकत्वादिशक्ततावच्छेदकत्वं स्यादिति विनिगमनाविरहः कस्य शक्ततावच्छेदकत्वं स्वीकामिति निश्वयो न स्यादित्यगत्याऽऽनुपूर्वीविशेषः = सुत्वौत्वजस्त्वादिकमेव शक्ततावच्छेदकमिति स्वीकार्यमित्यर्थः ।
यत्तु केनचिदर्धवैयाकरणेनोक्तम्- ' प्रथमाविभक्तत्यर्थः संख्यापि 'घटः ' इत्यादौ प्रकृतेवार्थो न तु विभक्तेः, न चापि विभक्तेः सर्वथा नैरर्थक्यम् ? एकवचनादीनामेकत्यादी तात्पग्राहकत्वेन सार्थक्यात् ' इति तदनुवदति- यत्त्विति । ननु संख्याया अपि प्रकृत्यर्थत्वे छटः' इत्यादी घटपदेनैव संख्याया घटस्य चोपस्थितिः स्यादित्येकप्रकृत्युपस्थाप्यत्वाद् घटादौ संख्याया अन्वयो न स्यात्तादृशाकाङ्क्षाविरहादित्याशङ्कते - न चेति । विपक्षे बाधकमाहअन्यथेति । अन्यथा == एक प्रकृत्युपस्थाप्ययोरपि परस्परमन्वये हरिपदेनोपस्थितयोरश्वसूर्ययोरप्याधाराधेयभावेनान्वयः स्यात् न चैवं भवतीत्यर्थः । ननु यथैकघटपदेनोपस्थितयोरपि घटटटस्वयोः परस्परमन्यो भवति तथात्राप्येक ( घटपदरूप ) प्रकृत्युपस्थितयो र्घटैकत्वयोः परस्परमन्वयो भविष्यतीत्याशङ्क्याह - घटादिपदस्येति । तत्र घटपदस्य घटत्वविशिष्टे एवं घंटे शक्तिरस्तीति संभवत्यन्वयः, अत्रत्वेकत्वविशिष्ट घटे घटपदस्य शक्तिर्न संभवति, अन्यथा एकत्वावच्छिन्नस्यैव घटस्य सर्वत्र बोधः स्यान्न त्वेकत्वानवच्छिन्नस्य, भवति च संख्याऽनवच्छिन्नस्थापि चटस्य ' घटरूपं पश्य ' इत्यादौ बोधः, 'घटरूपम् ' इत्यादी रूपे एव संख्यान्वयस्य प्रतीयमानत्वादित्याह - घटरूपमिति । परिहारहेतुमाह - आकाङ्क्षति । आकाङ्क्षावैचित्र्यात् =शभक्तिवैचित्र्यात् ( अत्राकाङ्क्षापदं शक्तिपरमेवात्र ज्ञेयम् ) अत एव = आकाङ्क्षा ( शक्ति ) वैचि=यादेकप्रकृत्युपस्थाप्ययोरर्थयोः परस्परमन्वय संभवादेव एकेनाप्येवकारपदेन खण्डशक्त्योपस्थितयोरन्ययोगव्यवच्छेदयोः परस्परमन्वयो भवत्येव तत्रान्ययोगप्रतियोगिकस्य व्यवच्छेदस्य = अभावस्य प्रतीयमानत्वेन स्वप्रतियोगिकत्वसंबन्धेन व्यवच्छेदेऽन्ययोगस्यान्वयो भवति । तथा प्रकृतेपि संख्यायां घटादौ च घटादिपदानां खण्डशक्तिस्वीकारेण परस्परमन्वय संभवान्न का - चिदनुपपत्तिरित्यर्थः ।
4
"
"Aho Shrutgyanam"