________________
संख्यावाचकविचार: ]
व्युत्पत्तिवादः ।
( १२७ )
न चैवं कर्मत्वादिकमपि प्रकृत्यर्थ पवास्तु किं तत्र द्वितीयादिशक्त्येतिवाच्यम्, नामार्थधात्वर्थयोः साक्षाद्भेदान्वयबोधस्याव्युत्पन्नतया कर्मत्वादेर्नामार्थत्वे सेन समं धात्वर्थान्वयाऽसंभवात् ।
न च संख्यायाः प्रातिपदिकार्थत्वे सति तात्पर्यज्ञाने विनैव शक्तिभ्रमं लक्षणाग्रहं च द्विवचनाद्यन्तपदादेकत्वादिबोधसंभवात् एकत्वादितात्पर्येणैकवचनान्तस्येव द्विवचनान्तस्यापि पदस्य स्वारसिकप्रयोगापत्तिरिति वाच्यम्, अनादितात्पयेस्यैव स्वारसिकप्रयोग मूलत्वात् एकवचनाद्यन्तपदस्यैवैकत्वादावनादितात्पर्योपगमेनातिप्रसङ्गविरहात् । द्वयेकयोर्द्विवचनैकवचने " इत्याद्यनुशासनं च ताहशतात्पर्यग्राहकमेवेति वैयाकरणमतम् ।
፡፡
तदसत् - अनन्तानां प्रकृत्यानुपूर्वीणां शक्ततावच्छेदकत्वाषेक्षयाऽल्पतरविभयाद्यानुपूर्वीणामेकत्वादिशक्ततावच्छेदकत्वस्यैवोचितत्वात् ।
ननु यथा संख्या प्रकृत्यर्थस्तथा कर्मत्वादिकमपि ' घटं करोति' इत्यादौ प्रकृत्यर्थ एव भवतु द्वितीयादिविभक्तिश्च तात्पर्यग्राहिका भविष्यतीत्याशङ्क्याह- न चैवमिति । परिहारहे - तुमाह- नामार्थेति, नामार्थधात्वर्थयोः साक्षाद् भेदेनान्वयो न भवतीति कर्मत्वादेरपि प्रकृत्यर्थवेन नामार्थस्खे प्राप्ते तेन कर्मत्वादिना सह धात्वर्थस्य साक्षाद् भेदेनान्त्रयो न स्यादिति न कर्मस्वादीनां प्रकृत्यर्थत्वं स्वीकर्तुं शक्यते - कर्मत्वादेर्धात्वर्थेन सह साक्षाद्भेदान्वयस्यैवेष्टत्वात् कर्मत्वादेर्द्वितीयाद्यर्थत्वस्वीकारे तु प्रत्ययार्थधात्वर्थयोः साक्षाद् भेदान्वयस्येष्टत्वात् निरूपकत्वसंबन्धेन कर्मत्वादेर्धात्वर्थेन सह साक्षाद् भेदान्त्रयः संभवति ।
संख्यायाः प्रातिपदिकार्थत्वे = प्रकृत्यर्थत्व स्वीकारे शक्तिभ्रमं लक्षणाग्रहं च विनैव 'घटो इतिपदमेकत्वविशिष्टं बोधयत्विति तात्पर्यज्ञाने सति द्विवचनाद्यन्तपदादेकत्वादिबोधसंभवादेकत्वादितात्पर्येणैकवचनान्तस्येव द्विवचनान्तस्यापि पदस्य प्रयोगः स्यादेव प्रकृतेरेवैकत्वादिसंख्याबोधकत्व - स्वीकारात् तादृशप्रकृतेश्च द्विवचनान्त प्रयोगेपि सत्त्वादित्याशङ्कयाह - न चेति । संख्याया विभक्त्यत्वे तु द्विवचनान्तप्रयोगे एकत्वबोध कैकवचनस्याभावान्न द्विवचनान्तपदेनैकत्वबोधापत्तिः, एकतात्पर्येण द्विवचनान्तप्रयोगापत्तिर्वेति भावः । परिहारहेतुमाह- अनादीति, अनादितात्पर्ये सत्येव स्वारसिकप्रयोगो भवति, एकत्वादौ चैकवचनाद्यन्तपदस्यैवानादितात्पर्यस्वीकारेण नैकत्वतापर्येण द्विवचनान्तपदप्रयोगापत्तिरिति नातिप्रसङ्ग इति संख्यायाः प्रकृत्यर्थत्वस्वीकारेपि न दोष इत्यर्थः । नन्वेकवचनान्तपदस्यैवैकत्वादावनादितात्पर्यमस्ति न द्विवचनाद्यन्तपदस्येत्यत्र किं मानमित्याशङ्कयाह- द्वषेकयोरिति । तादृशतात्पर्यग्राहकम् = अनादितात्पर्यग्राहकम् ।
यत्वित्यादिनोक्तं वैयाकरणमतं निराचष्टे- तदसदिति, संख्यायाः प्रकृत्यर्थत्वे प्रकृतेरेव · संख्यायां शक्तत्वं स्यादिति घटपटादिप्रकृत्यानुपूर्वीणामनन्तानां शक्ततावच्छेदकत्वं स्यादिति महद् गौरवं स्यात् तस्मात् सुत्लोवजस्त्वादिरूपाणां विभक्त्यानुपूर्वीणामेव लाघवाच्छक्ततावच्छेदकत्वं युक्तं विभक्त्यानुपूर्वीणामत्यतरत्वादिति विभक्तेरेव संख्यार्थकत्वं न प्रकृतेरित्यर्थः ।
"Aho Shrutgyanam"