________________
( १२८ )
सादर्श:
[ प्रथम कारके
न च प्रातिपदिकत्वमेव शक्ततावच्छेदकं न तु घटपदत्वादिकमिति न शक्त्यानन्त्यमिति वाच्यम् प्रातिपदिकस्वस्थ दुर्वचत्वात् । तदज्ञानेष्येकत्वादिज्ञानस्थाssनुभविकत्वात् । पदत्वेन वर्णत्वेन वा शक्तत्वे विभक्तेरपि तद्वाचकतासिद्धेः । एकत्वादिशाब्दबोधात् पूर्वं वर्णत्वाद्युपस्थितेरप्यनावश्यकत्वाच्च । फलानुरोधेन तत्कल्पने च कल्पनागौरवात् ।
एवमानुपूर्वीभिन्नधर्मस्य वाचकतावच्छेदकत्वे घटपदं सुपदं च न संख्यावाचकमिति विपरीतनिश्चयकालेपि तादृशधर्मावच्छिन्नस्य वाचकताग्रहसंभवाद् घटः ' इत्यादौ संख्याया बोधापत्तिः ।
·
मनु यदि घटादिकमेकत्वादिशक्ततावच्छेदकं स्यात्तदा घटादिपदस्वरूपाऽऽनुपूर्वीणानन्तत्वादनन्तशक्ततावच्छेदकस्वीकारापत्तिः स्यादपि नैवमस्ति किं तु प्रातिपदिकत्वमेव शक्तता - बच्छेदकम् प्रातिपदिकत्वं च प्रकृतिभूताखिलपदेष्वेकमेवेति न शक्ततावच्छेदकानन्त्यं न वा शक्त्यानन्त्यम् - प्रातिपदिकस्यैव संख्यायां शक्तिस्वीकारादित्याशङ्क्याह- न चेति । परिहारहेतुमाह - प्रातिपदिकत्वस्येति, प्रकृतिभूतसकलपदसाधारणस्य प्रातिपदिकत्वस्य निरूपयितुमा - क्यत्वादित्यर्थः । किं च यदि प्रातिपदिकत्वमेकत्वादिशक्ततावच्छेदकं स्यात्तदा 'घटपदं प्रातिपदिकम् ' इत्येवं प्रातिपदिकत्वज्ञानं विनैकत्वबांधो न स्यात् न चैवमस्ति किं तु तदज्ञानेपि = प्रातिपदिकत्वाज्ञाप्येकत्वविषयक बोधो भवत्येवेति न प्रातिपदिकत्वमेकत्वादिशक्ततावच्छेदकमित्याह-- तदज्ञानेपीति । यदि च संख्यायां पदस्य शक्तिः शक्ततावच्छेदकं च पदत्वम्. किं वा संख्यायां वर्णस्य शक्तिः शक्ततावच्छेदकं च वर्णत्वमित्युच्यते तदा विभक्तेरपि पदरूपत्वाद्वर्णरूपनाव तद्वाचकता संख्यावाचकत्वं प्रातमेवेलाह- पदस्येनेति । यदि पदस्थं का वर्णत्वं वा शक्ततावच्छेदकं स्यात्तदा एकत्वादिसंख्याशाब्दबोधात्पूर्वं वर्णत्वात्युपस्थितेरप्यपेक्षा स्याद् न चैवमस्ति वर्णत्वाद्युपस्थितिं विनाप्येकत्वबोधसंभवादिति न वर्णत्वादिकं शक्ततावच्छेदकमिन्याह- एकत्वादीति । फलानुरोधेनेति- शक्ततावच्छेदकोपस्थितिं विना शक्यार्थबोधो न भवतौति नियममाश्रित्य यदेकत्वशाब्दबोधे फलरूपे जाते तत्पूर्वं हेतुभूतायाः शक्ततावच्छेदकरना - खुपस्थितेः कल्पना क्रियेत तदा गौरवं स्यादेव - लोके वर्णत्वायुपस्थितिमन्तरेणैवैकत्वादिबोधस्य श्रसिद्धत्वादित्यर्थः ।
5
दोषान्तरमाह - एवमिति, सुखाद्यानुपुर्वीभिन्नस्य धर्मस्य प्रातिपदिकत्वादेर्ययेकत्वादिसंख्यानिरूपितशक्ततावच्छेदकत्वं स्यात्तदा 'घटपदं सुपदं च न संख्यावाचकम् इत्याकारकबाधनिवकालेपि तादृशधर्मावच्छिन्नस्य प्रातिपदिकत्वादिधर्मावच्छिन्नस्य संख्यावाचकत्वप्रहस्य संभवात् 'घटः ' इत्यादी संख्याया बोचः स्यादेव - घटपदं सुपदं च न संख्यावाचकम् ' इति ज्ञानेन घटपदपदयोः संख्यावाचकत्वग्रह प्रतिबन्धेपि प्रातिपदिकस्य संख्यावाचकत्वग्रहप्रतिबन्वासंभवात् । न च ' त्रपदं सुपदं च न संख्यावाचकम् ' इति ज्ञाने सति 'घटः ' इत्पादो
"Aho Shrutgyanam"