________________
संख्यावाचकविचार: ]
व्युत्पत्तिवादः ।
अथ विभक्तीनां सार्थकतामते प्रकृतिविभक्त्योरेकवाक्यताविरहनिश्चयदशायां विभक्त्युपस्थाप्यैकत्वादेः प्रकृत्यर्थेऽन्वयबोधवारणाय तयोः समभिव्याहारज्ञानस्य घटादिविशेष्य के कत्वान्वयबोधं प्रति कारणत्वमधिकं कल्पनीयम् । एकपदोप स्थापितयोर्धटेकत्वाद्योरन्वयबोधोपगमे च न समभिव्याहारज्ञानस्य तत्र हेतुता कल्प्यते इति लाघवात् प्रकृत्याद्यानुपूर्वीणां संख्यावाचकतावच्छेदकत्वमुपेयते इति चेत् ?, न, आकाङ्क्षाविचारे समभिव्याहाराकाङ्क्षाज्ञानस्य हेतुताया निराकृतत्वात् ।
संख्याबोधो भवतीति न त्वाद्यानुपूर्वीभिन्नधर्मस्य प्रातिपदिकत्वादेः शक्ततावच्छेदकत्वं किं तु त्वादेरेवेत्यर्थः ।
6
ननु यदि विभक्तेरेव संख्यार्थत्वं स्यात्तदा प्रकृतिविभक्त्योरेकवाक्यताविरहनिश्चयदशायां नाम यदा घट: ' इत्यत्र घटपदेन घटोपस्थितिर्जाता पट: इति पटपदोत्तरसुत्रिभक्त्या चैकवोपस्थितिर्जाता तदा प्रकृतिविभक्त्योरेकवाक्यत्वं नास्तीत्येकवाक्यत्वाभावेपि विभक्त्युपस्थितैकस्वस्य प्रकृत्यर्थे = प्रातिपदिकार्थे घटेऽन्वयः स्यादेव बाधकाभावाद् विभिन्नपदोपस्थितयोः परस्परमन्वयस्य लोकप्रसिद्धत्वात् न चैवं प्रकृतिविभक्त्योरेकवाक्यताविरहे पटपदोत्तर विभक्त्यर्थसंवाया घटादावन्वयो भवतीति तादृशान्वयबोधवारणाय तयोः = प्रकृतिविभक्त्योः समभिव्याहारज्ञानस्य=' घटः' इत्येवं घटपदोत्तर सुत्वरूप समभिव्याहाराकाङ्क्षाज्ञानस्य घटविशेष्यकैकत्वान्वयबोधं प्रति कारणत्वमधिकं कल्पनीयम्, तथा विभक्तिज्ञानजन्यैकत्वोपस्थितेरपि कारणत्वं कल्पनीयं स्यादित्याऽऽशङ्कते - अथेति । स्वमते लाघबमाह-- एकेति विभक्तेः संख्यार्थत्वास्त्री कारेण प्रकृतेरेव संख्यार्थत्वस्वीकारे तु घटपदेनैव घटेकत्वयोरुपस्थितिर्भवतीति तयोरन्वयबोधोपसेव तत्र-- घटविशेष्य के कत्वान्वयबोधे समभि याहारज्ञानस्य = घटपदोत्तर सुत्वरूपसमभिव्याहारज्ञानस्य हेतुता कल्प्यते - घटपदेनैव घटैकत्वयोरुपस्थितिस्वीकारात् विभक्तेः संख्यार्थत्वाभावाच्च संख्याप्रकारकान्वयबोधं प्रति विभक्तिसमभिव्याहारस्याऽकारणत्वादिति संख्ययाः प्रकृत्यर्थत्वे एतादृशलाघवात् प्रकृतेरेव संख्यावाचकत्वं प्रकृत्यानुपूर्व्या एव च संख्पानिरूपितशक्ततावच्छेद करवं स्वीक्रियते । अत्र च मते विभक्तिज्ञानजन्यैकत्वादिसंख्योपस्थित प्यपेक्षा नात्येव प्रकृत्वैव संख्योपस्थितेः संभवादित्यर्थः । परिहरति- नेति । परिहारहेतुमाह- --आक क्षेति, अत्र-- यत्पदार्थस्य यत्पदार्थेन सहान्वयत्रोधो विवक्षितस्तयोः पदयोः परस्परसमभिव्याहार आकाङ्क्षति तात्यगर्भाऽऽकाङ्क्षा सा च तात्पर्यघटितेति तात्पर्यज्ञानकारणतयैव शाब्दबोध निर्वाहे घट इत्यादी खटपदोत्तरसुत्वरूप समभिव्याहा गक झाज्ञानहेतुताया निराकृतत्वादित्यर्थः " इति कृष्णभट्टाः । एकपदोपस्थापितयोः = घटाद्यैकपदोपस्थापितयोः ।
Ex
नन्वेवमपि तात्पर्यज्ञानस्य कारणत्वमाश्रित्य समभिव्याहाररूपाचा क्षात्रः नस्य कारणत्वास्वीकारेपि विभक्तेः संख्यार्थकत्वे घटादिविशेष्यक संख्याप्रकारकान्वयबोध प्रति प्रकृतिधर्मिकस्य =
"
( १२९ )
"Aho Shrutgyanam"
"