________________
( १३० )
सादर्श:
[ प्रथमा कारके
अथैवमपि विभक्तेः संख्यार्थकत्वे विनिगमनाविरहेण प्रकृतिधर्मिकस्य विभ क्तिर्धार्मिकस्य च संख्या प्रकारकान्वयबोध परत्वज्ञानस्य हेतुता कल्पनीया, विभ क्तकत्वमते तु विभक्तितात्पर्यविरहेण प्रकृतिधर्मिकमेव तात्पर्यज्ञानं तादृशान्वयबोधहेतुरिति लाघवमिति चेत् ?, न- विभक्तः संख्यावाचकताविरहेपि प्रकृ तिविभक्त्योरानुपूर्वीज्ञानस्य तादृशान्वयबोधहेतुताया निर्विभक्तिकादिपदज्ञानादन्वयबोधवारणायावश्यकल्पनायतया संख्यावाचकमकृतेरिव तदवाचकविभक्तेरपि संख्यान्वयबोधकत्वप्रकारकेच्छाविषयत्वरूपतादृशबोधपरत्वसंभवेन विभ क्तिधर्मिकतज्ज्ञानहेतुताया विनिगमनाविरहेणाऽऽवश्यकत्वात् ।
अथ स्वादीनां संख्यावाचकत्वकल्पनापेक्षया प्रकृतेस्तत्र लक्षणैवोचिता शविभक्तिसमभिव्याहृता प्रकृतिः संख्याप्रकारकान्वयबोधपरा इत्यस्य विभक्तिधर्मिकस्य=प्रकृतिमन्याता विभक्तिः संख्याप्रकारकान्वयबोधपरेत्यस्य च तात्पर्यज्ञानस्य विनिगमनाविरहेण हेतुता प्राप्तति द्विविधतात्पर्यज्ञानस्य कारणत्वं कल्पनीयमिति गौरवं स्यादित्याशङ्कते - अथेति । स्वमते लाघवमाह-विभक्तेरिति । द्योतकत्वमते= संख्या तु प्रकृत्यर्थ एवं विभक्तेस्तात्पर्यग्राहकत्वंमिति मतं तु विभक्तितात्पर्यविरहेण = विभक्तिः संख्याप्रकारकान्वयबोधं जनयतु इत्याकारकतात्पर्यस्य विभक्ता ( विभक्तिविषयकस्य भावात् केवलं प्रकृतिधर्मिकस्यैव प्रकृतिः संख्याप्रकारकान्वयबोधं जयतु इत्यस्यैवैकस्य तात्पर्यज्ञानस्य घटादिविशेष्यकसंख्याप्रकारकान्वयबोधं प्रति हेतुत्वमस्तीति लाघवमित्यर्थः । परिहरति- नेति, यदि प्रकृतिविभक्त्योः 'घटः इत्येवमव्यवहितानुपूर्वीज्ञानस्य घटादिविशेष्य कसंख्याप्रकारकान्वयबोधं प्रति हेतुत्वं न स्यात्तदा घटरूपम् ' इत्यादी निर्विभक्तिकं यद् घटपदं तज्ज्ञानादपि घटे संख्यान्वयस्य बोधः स्यादेव बाध - काभावात् न चैत्रं भवतीति निर्विभक्तिकपदज्ञानात्संख्यान्वयबोधवारणाय प्रकृतिविभक्त्योरव्यवहितानुपूर्वीज्ञानस्य हेतुता विभक्तेः संख्यावाचकत्वास्वीकारेपि कल्पनीया तथा च संख्यावाचकप्रकृतेरिव तदवाचक= संख्यावाचकविभक्तेरपि प्रकृतिसमभिव्याहृता विभक्तिः संख्याप्रकारकानवमं बोधयतु इत्याकारिका या संख्यान्वयबोधकत्वप्रकारकेच्छा तादृशेच्छाविषयत्वरूपं यत्तादृशबोधपरत्वम् = संख्याप्रकारकबोधपरत्वं तत्संभवेन विभक्तिधर्मिकतज्ज्ञानहेतुतायाः = विभक्तिवर्मिकस्थ संख्याप्रकारकान्वयबोधतात्पर्यज्ञानस्य हेतुताया विनिगमनाविरहेणावश्यं कल्पनीयत्वात् तंव मयुक्तलाघवं न संभवतीति तव मम चात्र साम्यमेवेत्यर्थः । किं वा प्रकृतिधर्मिकस्येत्यस्य स्वादिविभक्तिपदाव्यवहितपूर्ववर्तिघटादिपदत्वज्ञानस्य विभक्तिधर्मिकस्येत्यस्य च घटादिपदाव्यवहितोत्तरवर्तिस्यादिविभक्तिपदत्वज्ञानस्येत्यर्थः । संख्या प्रकार कान्वयबोधं प्रति विनिगमनाविरहादेताशोभयविधतात्पर्यज्ञानस्य कारणत्वापत्तिः प्रतिपादितैव ।
,
ननु स्वादीनामपि संख्यावाचकत्वं न युक्तं तथा प्रकृतेरपि संख्यावाचकत्वं न युक्तं किं तु संख्यामा प्रकृतेर्लक्षणैव स्वीकार्येत्याशङ्कते - अथेति । नन्वेवम् घट: ' इत्यादौ पदेन
6
"Aho Shrutgyanam"