________________
- संख्यावाचकविचारः ]
व्युत्पत्तिवादः ।
( १३१ )
क्यलक्ष्ययोः परस्परमन्ययोपगमे क्षतिविरहात्, प्रथमाविभक्तेः कुत्रापि शक्तेरक्ल- सतया तस्याः शक्यसंबन्धरूपा लक्षणा न संभवति, द्वितीयादेः कर्मत्वादौ शक्तत्वेपि तादृशविभक्तेस्तत्समभिव्याहतप्रकृतेर्वा संख्यायां लक्षणेत्यत्र विनिगमकं दुर्लभम् । न चैकत्वाद्यन्वयबोधे घटपदादिज्ञानजन्योपस्थितित्वेनाऽनन्तहेतुता कल्पनमपेक्ष्य स्वादिपदज्ञानजन्यतदुपस्थितित्वेन कतिपयहेतुताकल्पनायां लाघवात् कतिपयशक्तिकल्पने गौरवमकिंचित्करम, सामान्यतः पदवृत्तिज्ञानजन्यतदुपस्थि
शक्त्या घटोपस्थितिर्लक्षणया: चैकत्वोपस्थितिः स्यात्तत्र शक्यलक्ष्ययोर्घटैकत्वयोः कथं परस्पर-मन्वयः स्यात् एकेन घटपदेनैककाले व्यापारद्रयासंभवेन शक्त्या घटस्य लक्षणया चैकत्वस्योपस्थितैरसंभवादित्याशङ्क्याह - शक्येति, ८ यथा गङ्गायां घोष:' इत्यनेन ' गङ्गातीरे बोष: - इति बोधस्वीकारे गङ्गापदेन शक्त्या प्रवाहस्य लक्षणया च तीरस्योपस्थितिर्जायते तथात्रापि - शक्त्या वस्य लक्षणया चैकत्वस्योपस्थितिसंभवाद् कत्वयोः परस्परान्वये न काप्यनुप* पत्तिर्न वा कापि क्षतिरित्यर्थः । ननु संख्यायां प्रकृतेर्लक्षणास्वीकारापेक्षया विभक्तेरेव लक्षणा किं - न स्यादित्याशङ्क्याह-- प्रथमाविमक्तेरिति । नन्वेवं द्वितीयादेस्तु कर्मत्यादौ शक्तिरस्तीति संख्यायां शक्यसंबन्धरूपा लक्षणा संभवत्येवेति ' घटं करोति' इत्यादौ विभक्तेरेव संख्यायां -लक्षणा स्वीकार्य न तु प्रकृतेरित्याशङ्क्याह- द्वितीयादेरिति द्वितीयादेः कर्मत्वादौ शक्ति- रस्ति प्रकृतेरपि प्रकृत्यर्थे शक्तिरस्तीति प्रकृतित्रिभक्त्योरुभयोरपि संख्यायां शक्यसंवन्धरूपा 'लक्षणा संभवत्येवेति द्वितीयादिविभक्तेरेव संख्यायां लक्षणा स्यात् किं वा द्वितीयादिप्रकृतेरेव • संख्यायां लक्षणा स्यादित्यत्र विनिगमकं किमपि नोपलभ्यते इत्यर्थः । तादृशविभक्तेः द्वितीयादिविभक्तेः । तत्समभिव्याहृतप्रकृतेः द्वितीयादिविभक्तिसमभिव्याहृतप्रकृतेः । यथप्युक्तरीत्या द्वितीयाद्यन्तप्रयोगस्थले संख्यायां विमक्तेर्वा प्रकृतेर्वा लक्षणेत्यत्र विनिगमकं दुर्लभं तथापि प्रथमान्तप्रयोगस्थले संख्यायां प्रकृतेरेव लक्षणाया उक्तरीत्या समाश्रयणाद् द्वितीयायन्तप्रयोगस्थ - प्रकृतेरेव संख्यायां लक्षणा स्वीकार्या, अन्यथा प्रथमान्तप्रयोगस्थले संख्यायां प्रकृतलक्षणा द्वितीयाद्यन्तप्रयोगस्थले च संख्यायां विभक्तेर्लक्षणेति वैषम्यं स्यादित्यवधेयम् ।
ननु संख्यायां प्रकृतेर्लक्षणास्वीकारे प्रकृतीनां घटपटादिपदानामनन्तत्वेनैकत्वादिसंख्याप्रका- रकान्यबोधं प्रति 'घटः' इत्यत्र घटपदजन्यैकत्वोपस्थितेः कारणता 'पटः' इत्यत्र च पटपदजन्यैकत्वोपस्थितः कारणतेत्यनन्तकार्य कारण मात्र कल्पनापत्त्या महद् गौरवं स्यादिति तदपेक्षया लाघवार्थ विभक्तेरेत्र संख्यार्थकत्वं स्वीकार्य तथा च प्रकृतीनामपेक्षया स्वादिविभक्तीना मल्पत्वाद् एकत्वादिसंख्याप्रकारकान्वयबोधं प्रति स्वादिविभक्तिपदजन्यैकत्वादिसंख्योपस्थितेः कारणत्वाभाव लाघवं स्यात् एवं हि यद्यपि संख्यायां प्रथमाविभक्तेः शक्ति कल्लनप्रयुक्तं गौरवमस्ति तथापि लक्षणयाउनन्त प्रकृतिजन्याऽनन्तसंख्योपस्थितीनां कारणत्वस्वीकारापेक्षया संख्यायां विभक्तिशक्तिकल्पनप्रयुक्तं गौरवमर्किचित्करम्= तुच्छमेवास्तीति विभक्तेरेव संख्यायां शक्तिरेव स्वीकर्तव्येत्याशङ्कते - न चेति ।
"Aho Shrutgyanam"