________________
(१३२)
सादर्श:
[ प्रथमाकारकेतित्वेनैककरणताकल्पनं तु न सम्यक् निर्विभक्तिककुम्भपदादितः संख्योपस्थिती तदगृहीतवृत्तिकघटादिपदे तत्तद्विभत्तयन्तत्वज्ञानवतः पुंसो घटादौ संख्यान्वयबोधप्रसङ्गाद् , घटपदादिज्ञानजन्यैकत्वाद्युपस्थितित्वेनैकत्वादिविषयकशाब्दबोधहेतुतां कल्पयित्वा विभक्तिघटादिपदानुपूर्वीज्ञानताशोपस्थित्योः परस्परसहकारेण फलजनकताया अवश्याभ्युपेयत्वादिति वाच्यम्, घटादिपदस्यैकत्वादी लक्षणानन्चेकत्वादिसंख्याप्रकारकान्वयबोधं प्रति 'घटः । इत्यत्र धटपदजन्यैकत्वोपस्थितेः कारणता.. 'पट: ' इत्यत्र पटपदजन्यैकत्वोपस्थितेः कारणतेत्येवं न वक्ष्यामो येन तत्तत्पदनिवेशेनानन्तकारणताकल्पनं स्यात्, किं तु सामान्यतः पदवृत्तिज्ञानजन्यतदुपस्थितित्वेन पदनिष्ठसंख्या विषयकवृत्तिज्ञानजन्यसंख्योपस्थितेः ( लक्षणावृत्त्या प्रकृतिभूतपदजन्यसंख्योपस्थितेः ) कारणंतेत्येवमेककारणतामेव कल्पयाम इति नोक्तगौरवम्, पदवृत्तिज्ञानजन्यसंख्योपस्थितित्वं च घटादिसकलपदजन्यसंख्योपस्थितावस्त्येवेति प्रकृतेरेव संख्यायां लक्षणान विभक्तेः शक्तिरित्याशङ्कयाहसामान्यत इति । अस्य परिहारमाह- निर्विभक्तिकेति, एवं सामान्यतः पदजन्यसंख्योपस्थितेः संख्याप्रकारकशाब्दबोधं प्रति कारणत्वस्वीकारे यदा कस्यचित् पुंसः 'कुम्भरूपम् ' इत्यत्र निर्विभक्तिककुम्भपदात्संख्योपस्थितिर्जाता तदगृहीतवृत्तिकघटादिपदे- धटः । इत्यत्र घटपदस्य च संख्यायां लक्षणाग्रहो न जातः किं तु विभक्त्यन्तत्वमात्रज्ञानं जातं तदा कुम्भपदादु। पस्थितसंख्याया अपि घटेऽन्वयबोधः स्यादेव संख्योपस्थितेः घटपदेनाजातवेपि कुम्भपदेन जातत्वात् सामान्यतः पदजन्यसंख्योपस्थितेरेव कारणत्वस्वीकारात्, न च कुम्भपदादुपस्थितसंख्यायः घटादावन्वयो भवतीत्यर्थः । तथा चोक्तदोषवारणाय घटविशेष्यकसंख्याप्रकारकशाब्दबोधं प्रति घटपदजन्यैकत्वादिसंख्योपस्थितेः कारणत्वं कल्पनीयं तत्रापि 'घटरूपम् । इत्यादौ घटपदेन सं. ख्योपस्थितौ तादृशसंख्याया घटेऽन्वयबोधवारणाय विभक्तिघटादिपदानुपूर्वीज्ञानतादृशोपस्थित्यो:अव्यवधानेन घटपदविभक्तिपदानुपूर्वीज्ञानजन्ययोः (विभक्तयन्तघटादिपदज्ञानजन्ययोः . तादृशोपस्थित्योः प्रकृत्यर्थघटादिविषयकसंख्याविषयकोरस्थित्योः परस्परसहकारेण फलज नकताय :घटादिविशेष्यकसंख्याप्रकारकशाब्दबोधजनकतायाः स्वीकार्यत्वात् तत्र विभक्तिज्ञानस्यापि प्रविटत्वाल्लाघवात् संख्याया विभक्त्यर्थत्वमेवोक्तरीत्या युक्तं न प्रकृत्यर्थत्वमित्याह- घटपदादीति । 'प्रकृत्यर्थोपस्थिति विनापि संख्याप्रकारकशाब्दबोधो न संभवति संख्योपस्थिति विनापि न सभवतीत्युक्तम्- परस्परसहकारेणेति ।।
न चेत्यादिना शङ्कितं परिहरति- घटादिपदस्येति, त्वया टेकत्वादिसंख्यान्वयबोधे घटादिपदज्ञानजन्यसंख्योपस्थितेः कारणत्वे संख्योपस्थापकप्रकृतिभूतघटादिपदानामनातत्वेन तजन्यसख्योपस्थितीनामप्यनन्तत्वादनन्तकारणताकल्पनप्रयुक्तं संख्यायाः प्रकृत्यर्थत्वस्वीकारे गौरवं प्रदर्शितं तन्नृतनं नास्ति यतः- घटपदस्यैकत्वादी लक्षणाग्रहसत्त्वे ‘घटः प्रमेयः । इति वा
"Aho Shrutgyanam"