________________
संख्यावाचकविचारः ]
व्युत्पत्तिवादः ।
( १३३ )
ग्रहसत्त्वे 'घटः प्रमेयः' इत्यादिवाक्यात् ' एकत्वं प्रमेयम् ' इत्याद्यन्वयवोंधस्य सर्वसंमतता तदनुरोधेनैकत्वादिविषयकशाब्दबोधे घटादिपदजन्यैकत्वायुपस्थितित्वेन हेतुतायाः सर्वसंमतत्वात् ।
मैवम्- यादृशयादृशपदानां लक्षणयैकत्वादिशाब्दधीजनकत्वं नोभयवादिसिद्धं - तादृशानन्त पदज्ञानजन्यैकत्वाद्युपस्थितीनां तच्छान्दहेतुत्वकल्पनं प्रकृतेः संख्या-वाचकतावादिनामधिकमिति तत्कल्पनापेक्षया चाल्पतरस्वादिपदजन्यैकत्वाद्यपस्थितिहेतुता कल्पन एव लाघवम् ।
4
एतेन - संख्याविशेषावच्छिन्न घटादिर्लक्षणया प्रकृतेरर्थो न तु संख्या विभक्त्यर्थः शाब्दबोधे विभक्तिजन्यसंख्योपस्थितिहेतुता कल्पनाधिक्येन गौर-वात्। घटादिपदस्यैकत्वादिविशिष्टघटादौ लक्षणाग्रहदशायां सर्वमत एव तज्जन्यक्यात् ' एकत्वं प्रमेयम्' इत्याकारकशाब्दबोधः सर्वसंमत एव तत्र लक्षणया घटपदेनैवैकत्वस्योपस्थितिर्भवतीति घटपदजन्यैकत्वोपस्थितेः कारणत्वमपि सर्वैः स्वीकर्तव्यमिति तदनुरोधेन =यथा -तत्र घटपदजन्यैकत्वोपस्थितेः कारणत्वं तथान्यत्र 'घट:' इत्यादी घटपदस्य घटे शक्तिग्रहदशाया-मप्येकत्वादिसंख्याविषयकशाब्दबोधे घटपदजन्यैकत्वादिसंख्योपस्थितेः कारणत्वं युक्तमेवेति न नूतनं घटपदजन्य संख्योपस्थितेः कारणत्वकल्पनमस्ति येन गौरवं स्यादिति संख्यायाः प्रकृत्यर्थस्वमेव युक्तमित्यर्थः । प्रत्युतोक्तलक्षणाग्रहस्थले घटपदजन्यसंख्योपस्थितेः कारणत्वमन्यत्र विभ क्तिजन्यसंख्योपस्थितेः कारणत्वमिति द्विविधकार्यकारणभावकल्पनप्रयुक्तं गौरवं संख्याया विभक्त्यर्थत्वस्वीकारे एवास्तीत्यभिप्रायः । घटपदस्यैकत्वे लक्षणाग्रहसत्त्वे घटपदेनैकत्वस्यैवोपस्थितिर्भवति प्रमेयपदेन च प्रमेयस्येति 'घटः प्रमेयः ' इतिवाक्यात् ' एकत्वं प्रमेयम् इति - शाब्दबोधो जायत इत्युक्तम्- घटादिपदस्येति ।
अथेत्यादिनोक्तं लक्षणावादं परिहरति- मैवमिति, येषां पदानां लक्षणयैकत्वादिसंख्यावि'षयकशाब्दबोधजनकत्वमुभयमतसिद्धं तत्र गौरवाभावेपि येषां पदानां लक्षणयैकत्वादिशाब्दबोधजनकत्वमुभयमतसिद्धं नास्ति तेषामप्यनन्तत्वात् तज्जन्यसंख्योपस्थितीनामप्यनन्तत्वेनानन्तका - रणताकल्पनं संख्यायाः प्रकृत्यर्थत्वमधिकमेव स्यादिति तदपेक्षया लाघवात् स्वादिविभक्तीनामेव संख्यायां शक्तिः स्वीकार्या स्वादिविभक्तिपदजन्यैकत्वादिसंख्योपस्थितेरेव च लाघवार्थ संख्याविषयकशाब्दबोधं प्रति हेतुत्वं स्वीकार्यमित्यर्थः । तच्छान्दहेतुत्वकल्पनम् संख्याविषयक - शाब्दबोधहेतुत्वकल्पनम् ।
एतेनेति - यचोक्तं घटपदस्य शुद्धघंटे शक्तिरेकत्वादिसंख्या विशिष्टे घंटे एवं प्रकृतेर्लक्षणा न तु प्रकृत्यापि लक्षणया केवलसंख्याया बोधो जायते न वा संख्या विभक्त्यर्थः- संख्याया विभक्त्यर्थत्वे संख्या प्रकार कशाब्दबोधं प्रति विभक्तिजन्यसंख्योपस्थितेरपि हेतुत्वापत्त्या गौरवं -स्मात् । यत्र विनिगमनामाह - घटादिपदस्येति, यदा कस्यचित् पुंसो वटादिपदस्यैकत्ववि
"Aho Shrutgyanam"
7