________________
'सादर्श:
[ प्रथम कारके
( १३४ ) विशिष्टविषयको पस्थित्या विशिष्टविषयकशाब्दधीजननात् तथाविधोपस्थितिहेतुतायाः सर्वानुमतत्वात् । पदान्तरासमभिव्याहतात् 'घट: ' इत्यादिपदादेकत्वादिविशिष्टघटादिशाब्दबोधस्त्वलीक एव तद्विषयकस्मरणस्य तत्रोपगमात् तथा. चोक्तम् - " सर्वं हि वाक्यं क्रियायां परिसमाप्यते " इत्यपि निरस्तम् । यादृशपदानां लक्षणयैकत्वादिविशिष्टस्वार्थबोधहेतुत्वं नोभयवादिसिद्धं तादृशानन्तपदजन्य विशिष्टोपस्थितीनां शाब्दधीहेतुताकल्पनमपेक्ष्य विभक्तिजन्यसंख्योपस्थितीनामल्पानां तत्कल्पने लाघवात् ।
इदं पुनरिहावधेयम् - विभक्तेः संख्याबोधकत्वे समानविषयकानुमित्यादिकं प्रति शाब्दसामग्रीप्रतिबन्धकतायां या प्रातिपदिकजन्या घटाद्युपस्थितिर्या च शिष्टादौ लक्षणाग्रहो जातस्तदा सर्वैरेव तज्जन्यविशिष्टविषयको पस्थित्या घटपद अन्यैकत्ववि-शिष्टघट विषय कोपस्थित्या विशिष्टविषयकशाब्दधीजननात् = एकत्वविशिष्टघट विषयकशाब्दबोधोत्पत्तेः स्वीकृतत्वात् नैकत्वविशिष्टपदार्थविषयको पस्थितिशाब्दबोधयोः कार्यकारणभावो नूतनः कल्प्यते इत्येकत्वादिसंख्याविशिष्टे घटादिपदानां सर्वानुमतलक्षणाग्रहस्थले इवान्यत्रापि घटादिपद्रादेकत्वादिसंख्या विशिष्टघटादिविषयको पस्थितिशाब्दबोधयोः संभवात् सर्वैः स्वीकर्तव्यत्वाच ! नमु शाब्दबोधे ह्येकपदार्थेऽपरपदार्थस्य संसर्गो भासते इति नियमोस्ति तत्र संख्याया विभक्त्यश्रवे घट: ' इत्यत्र घटपदार्थे विभक्त्यर्थसंख्यायाः संसर्गभानेन शाब्दबोध उपपद्यते तब मते शिष्ट घटो घटपदस्यार्थो विभक्तिश्च निरर्थकेवेति ' घट:' इत्यत्र पदार्थान्तरसंसर्गभानाभावाच्छाब्दबोधो न स्यादित्याशङ्क्याह- पदान्तरेति, 'घटः' इत्येकपदादेकत्वविशिष्टघटविभयको पस्थितिरेव भवति न तु शाब्दबोधोपीत्यर्थः । अत्र प्रमाणमाह- सर्वमिति । क्रियायां परिसमाप्यते = क्रियाविशेष्यक एव शाब्दबोधो भवतीति 'अस्ति इत्यादिक्रियापदसहितादेव वाक्याच्छान्दबोधो जायते न तु घटः इत्याद्येकपदादित्यर्थः । इत्येवं निरसनीयमतमनूचं निरसति- इत्यपि निरस्तमिति । निरस्तत्यं उक्तहेतुं स्मारयति - यादृशेति । पदानामनन्तस्वमैकत्वादिसंख्या विशिष्टऽगृहीतवृत्तिकपदानामप्यनन्तत्वात् तज्जन्यैकत्वादिसंख्याविशिष्टविषयको - पस्थितीनां संख्याविशिष्टविषयकशाब्दबोधं प्रति हेतुत्वकल्पनापेक्षयाऽल्पानां विभक्तिजन्यसंख्योपस्थितीनां तत्कल्पने==संख्याप्रकार कशाब्दबोधहेतुत्वकल्पने लाघवादित्यर्थः । अत्र एतेन मैवमित्यायुक्तेन इत्यपि = संख्याविशेषावच्छिन्नत्याद्युक्तमपि निरस्तमित्यन्वयः ।
L
उक्ते विभक्तेः संख्याबोधकत्वमते गौरवदोषं प्रदर्शयति- इदमित्यादिना, विभिन्नविषयकप्रत्यक्षं प्रति समानविषयकानुमितिं प्रति च शाब्दबोधसामय्याः प्रतिबन्धकत्वं भवति विभक्तेः संख्याबोधकत्वस्वीकारे च संख्याप्रकारकशाब्दबोधसामग्रयां प्रातिपदिक = प्रकृतिभूतघटादिपदजन्यबंष्टाद्युपस्थितेर्विभक्तिजन्यसंख्योपस्थितेश्च प्रवेशादुपस्थितिद्वयस्य प्रतिबन्धकत्वं प्राप्तं किं चोतोपस्थित्योः परस्परं विशेष्यविशेषणभावे विनिगमनाविरहाद् बटपदजन्यघटोपस्थिति विशिष्टविभक्ति
9
"Aho Shrutgyanam"