________________
संख्यावाचकविचारः] व्युत्पत्तिवादः। विभक्तिजन्या संख्योपस्थितिः प्रवेश्या तयोश्च मिथो विशेष्यविशेषणभावे विनिगमनाविरहात् प्रतिबन्धकताबाहुल्यम् । प्रकृतेविशिष्टलाक्षणिकत्वे तु तदुभयस्थलीयविशिष्टविषयकोपस्थितिरेकैव सामग्र्यामन्तर्भवतीति लाघवम् ।
न च विशिष्टविषयकोपस्थितेरप्येकत्वादिप्रकारतानिरूपितघटादिविशेष्यताशालित्वेन घटादिविशेष्यतानिरूपितैकत्वादिविषयताशालित्वेन वा प्रवेश इति विनिगमनाविरहात्साम्यमिति वाच्यम् , भवन्मते योग्यताज्ञानघटोपस्थित्येकत्वो. पस्थितीनां तिसृणां विशेष्यविशेषणभावे विनिगमनाविरहेण प्रतिबध्यप्रतिबन्धकमावषट्कम् । मन्मते तत्र योग्यताज्ञाने विशिष्टविषयकोपस्थिते. प्रत्येक
जग्यसंख्योपस्थितेः प्रतिबन्धकत्वं तथा विभक्तिजन्यसंख्योपस्थितिविशिष्टघटपदजन्यघटोपस्थिनेरसि प्रतिबन्धकस्वमित्येवं बहुविधोपस्थितीनां प्रतिबन्धकत्वकल्पनया गौरवं स्यादेवेत्यर्थः । प्रकृतेरेव संख्याविशिष्टप्रकृत्यर्थघटादौ लक्षणास्वीकारे तु तदुभयस्थलीयविशिष्टविषयकोपस्थिति:-उक्तधदादिप्रकृत्यर्थविषयकसंख्याविषयकोभयोपस्थितिस्थानीया संख्याविशिष्टप्रकृत्यर्थविषयकोपस्थितिरेकैवास्तीति तस्या एकस्या एव विशिष्टोपस्थितेः संख्याप्रकारकशाब्दबोधसामग्र्यामन्तर्भावात् तस्या एकस्या एवं समानविषयकानुमित्यादिकं प्रति प्रतिबन्धकश्वकल्पनाल्लाघवमित्याहप्रकृतरिति ।
ननु प्रकृत्या संख्याविशिष्टविषयकोपस्थितेरपि लक्षणया स्वीकारे तादृशोपस्थितेरप्येकत्वादिसंख्याप्रकारकघटादिविशेष्यकत्वेन घटादिविशेष्यकसंख्याप्रकारकत्वेन च द्वैविध्यात् तादशोभयोरुपरिसरयोः प्रतिबन्धकताकल्पनापत्त्या पूर्वोक्तमतेन साम्यमेवेत्याशङ्क्याहन चेति । परिहारहेतुमाह- भवन्मते इति, भवन्मते संख्याया विभक्त्यर्थत्वमते शाब्दबोधसामन्यां योग्यताज्ञानस्य घटपदजन्यघटोपस्थितेर्विभक्तिजन्यैकत्वादिसंख्योपस्थितेश्च प्रवेशात तेषां त्रयाणां विशेष्यविशेषणभावे विनिगमनाविरहाच षट् प्रतिबन्ध्यप्रतिबन्धकमावा भवन्ति यथा- १ योग्यताज्ञानविशिष्टा बा घटोपस्थितिस्तादृशघटोपस्थितिविशिष्टेकत्वोपस्थितेः प्रतिबन्धकत्वम् , २ योग्यताज्ञानविशिष्टा या एकत्वोपस्थितिस्तादृशैकत्वोपस्थितिविशिष्टघटोपस्थितेः प्रतिबन्धकत्वम् , ३ घटोपस्थितिविशिष्टं यद् योग्यताज्ञानं तादृशयोग्यताज्ञानविशिष्टैकत्वोपस्थितेः प्रतिबन्धकत्वम्,४घटोपस्थितिविशिष्टा या एकत्वोपस्थितिस्तादशैकत्वोपस्थिंतिविशिष्टयोग्यताज्ञानस्य प्रतिबन्धकत्वम,५.एकत्वोपस्थितिविशिष्टा या घटोपस्थितिस्तादृशघटोपस्थितिविशिष्टयोग्यताज्ञानस्य प्रतिबन्धकत्वम् , ६ एकवोपस्थितिविशिष्टं यद् योग्यताज्ञानं ताशयोग्यताज्ञानविशिष्टघटोपस्थितेश्च प्रतिबन्धकत्वमिति । स्वमते लाधवमाह- मन्मते इति, मन्मते प्रकृतेः संख्याविशिष्टप्रकृत्यर्थे लक्षणास्वीकारेण शाब्दबोधसामयां योग्यताज्ञानस्य प्रकृतिभूतपदजन्यसंख्याविशिष्टप्रकृत्यर्थविषयकोपस्थितेचकस्या एव प्रवेशात् तयोर्द्वयोर्विशेष्यविशेषणभावे विनिगमनाविरहाच प्रत्येकं दर्शितोभयरूपेण संख्य
"Aho Shrutgyanam"