________________
( १३६ )
सादर्श:
[ प्रथमाकारके --
दर्शितोभयरूपेण वैशिष्ट्यं निवेश्य तदुभयम्. प्रत्येकं तादृशरूपद्रयावच्छिन्नायामुपस्थितौ योग्यताज्ञानस्य वैशिष्ट्यं निवेश्य च द्वयमिति तच्चतुष्टयमात्रमितिरी त्याऽस्माकमल्पतरतत्कल्पने महालाघवम् ।
तादृशरीत्यैव च ' प्रणमति ' इत्यादौ प्रकर्षविशिष्टनतिर्धातूनामेवार्थः, प्रादयो द्योतका एव न तु प्रकर्षादिवाचका इति सर्वानुमतः पन्थाः परिष्कर्तुं शक्यते, अन्यथा - अनन्तधातुजन्यप्रकर्षादिविशिष्टतत्तत्स्वार्थोपस्थितीनां शाब्दधीजनकतामपेक्ष्य कतिपयोपसर्गाधीनप्रकर्षाद्युपस्थितीनां तज्जनकताकल्पने लाघवात् स्वादीनामिव प्रादीनामपि वाचकता निराबाधा सिद्धयेतेति ।
संख्यायाश्च प्रकृत्यर्थे पर्याप्तिसंबन्धेनैव विशेषणत्वं न तु समवायादिना, तथा शिष्टप्रकृत्यर्थोपस्थितेर्य द्रुपद्वयं प्रदर्शितं तस्य प्रत्येकस्य योग्यताज्ञाने वैशिष्ट्य निवेशेन तदुभयम्= प्रतिबन्धकताद्वयम्, तथा प्रत्येकं तादृशरूपद्वयावच्छिन्नायामुपस्थितौ = या द्विविधरूपा संख्याविशिष्टार्थोपस्थितिः प्रदर्शिता तस्याः प्रत्येकरूपे योग्यताज्ञानस्य वैशिष्ट्यनिवेशेन च द्वयम् = प्रतिबन्धकत्वद्वयमिति मिलित्वा तच्चतुष्टयम् = प्रतिबन्धकत्वचतुष्टयमिति अल्पतरतत्कल्पने= भवदपेक्षयाऽल्पसंख्याक प्रतिबन्धकत्वकल्पनापत्त्या महालाघवम् । यथा - १ एकत्वादिप्रकारतानिरूपितघटादिविशेष्यको पस्थितिविशिष्टयोग्यताज्ञानस्य, २ घटादिविशेष्यतानिरूपितैकत्वादिप्रकारताकोपस्थितिविशिष्ट योग्यताज्ञानस्य ३ योग्यताज्ञानविशिष्टकत्वादिप्रकारतानिरूपितघटादिविशेष्यको पस्थितेः, ४ योग्यताज्ञानविशिष्टघटादिविशेष्यतानिरूपितैकत्वादिप्रकारताकोपस्थितेश्च प्रतिबन्धकत्वमिति ।
उक्तन्यायं प्रादिष्वतिदिशति- तादृशरीत्यैवेति, ' प्रणमति ' इत्यादी लक्षणया प्रकर्षविशिष्टेव तिर्वा एव प्रादीनां प्रकर्षादिद्योतकत्वम् = प्रकर्षादितात्पर्यमात्र ग्राहकत्वमेव न तु प्रकर्षादिवाचकत्वमिति मतमप्युक्तरीत्या परिष्कर्तुं शक्यते । प्रादीनां प्रकर्षादिवाचकत्वे शाब्दबोधसामग्र्यां प्रादिजन्यप्रकर्षाद्युपस्थितेः प्रवेशात् तस्याश्च विभिन्न विषयकप्रत्यक्ष प्रति समानविषयका - नुमिति प्रति च प्रतिबन्धकत्वे योग्यताज्ञानेन सह विशेष्यविशेषणभावविनिगमनाविरहाच प्रतिबध्यप्रतिबन्धकभावसंख्याधिक्यापत्त्या गौरवं स्यादिति धातोरेव प्रकर्षादिविशिष्टधात्वर्थे लक्षणा युक्तेत्यर्थः । विपक्षे बाधकमाह- अन्यथेति, यद्युक्तलाघवं न स्वीक्रियेत तदा धातूनामनन्तत्वेन प्रकर्षादिविशिष्टधात्वर्थविषयकानन्तोपस्थितीनां शाब्दबोधकारणत्वापेक्षया कतिपयोपसर्गाणामेव प्रकर्षादिवाचकत्वमाश्रित्य प्रादिजन्यप्रकर्षाद्युपस्थितीनां प्रकर्षादिप्रकारकशाब्दबोधकारणता कल्पने लाघवात् स्वादिविभक्तीनां संख्यावाचकत्वमित्र प्राद्युपसर्गाणामपि प्रकर्षादिवाचकत्वं निराबाधं सिद्धयेदेवेत्यर्थः ।
संख्यायाः प्रकृत्यर्थे=संख्येयपदार्थे समवायस्तु वृत्तिनियामक एव संबन्ध इति संख्येये संख्या गुणरूपत्वात्समवायेनैव वर्तते शाब्दबोधे च भासमान विशेष्य विशेषणभावावच्छेदकस्तु पर्याप्ति
" Aho Shrutgyanam"