________________
संख्यासंबन्धविचारः ]
व्युत्पत्तिवादः ।
( १३७ )
सति - एकव्यक्तिबोध परादाकाशशब्दादपि द्विवचनबहुवचनायापत्तेः- तत्तदर्थयोद्वित्वबहुत्वयोः समवायादिनाऽऽकाशाद्यन्वययोग्यत्वात् ।
न च पर्याप्तेः संसर्गत्वेपि तद्दोषतादवस्थ्यम्- घटाकाशादौ द्वित्वादेः पर्याप्तिसत्त्वे प्रत्येकमाकाशादौ तत्पर्याप्तिर्नास्तीति वक्तुमशक्यत्वात् प्रत्येकस्योभयानतिरिक्तत्वादिति वाच्यम्, उद्देश्यतावच्छेदकव्याप्यत्व विशिष्ट पर्याप्तेरेव संसर्गतोपगमात्, आकाशत्वादिव्याप्यताया द्वित्वादिपर्याप्ताव सत्त्वेनातिप्रसङ्गविरहात् । संबन्ध एवेत्यभिप्रायेणाह - संख्यायाश्चेति | तथासति-संख्यायाः प्रकृत्यर्थे समवायेन विशेघणत्वे सति समवायस्यैकत्वेन द्वित्वबहुत्वसमवायस्याप्याकाशे सत्त्वात् तेन समवायेन च तत्तदयोर्द्वत्वबहुत्वयोरप्याकाशेऽन्वय संभवादेकव्यक्तिविषयकबोधजनकादप्याकाशपदाद् द्विवचनबहुच चनयोरापत्तिः स्यादिति न समवायादिना संख्याया विशेषणत्वं किं तु पर्याप्तिसंबन्धेनैव, द्वित्वनहुत्त्रपर्याप्तेश्चानेकव्यक्तिकपदार्थेष्वेव सत्त्वेनाकाशेऽभावात्तादृशपर्याप्तिसंबन्धेन द्वित्वबहुत्वयोरप्याकाशेऽसंमवान्नाऽऽकाशपदाद् द्विवचनबहुवचनापत्तिः, एकलपर्याप्तेश्च सत्त्वादेकवचनं भवत्येवेत्यर्थः । तत्तदर्थयोरिति - संख्यायाः प्रकृत्यर्थत्वमते प्रकृत्यर्थभूतयोः संख्याया विभक्त्यर्थत्वमते विभक्त्यर्थभूतयोरित्यर्थः । किं वा द्विवचनबहुवचनार्थयोर्घटाकाशादिगत द्वित्वबहुत्वयोरित्यर्थः । न च वायौ रूपसमवाये सत्यपि रूपाभावेन रूपवत्त्वप्रसक्त्यऽभाववदाकाशेपि द्वित्वसमवाये सत्यपि द्वित्वाभावेन द्विवचनाद्यापत्त्यभाव इति वाच्यम्, घटाकाशोभयगतद्वित्वस्याकाशेपि सत्त्वादेव |
ननु संख्यायाः प्रकृत्यर्थे पर्याप्तिसंबन्धेनापि विशेषणत्वोपगमे तदोषतादवस्थ्यम् = आकाशपदाद् द्विवचनबहुवचनयोरापत्तिरस्त्येव यतः -- घटाकाशोभयपदार्थे द्वित्वपर्याप्तिरस्त्येव प्रत्येकमाकाशादौ घटाकाशाद्युभयभेदाभावेन प्रत्येकस्योभयानतिरिक्तत्वात् प्रत्येकमाकाशादौ तत्पर्यातिः द्वित्वपर्याप्तिर्नास्तीति वक्तुमशक्यत्वादित्याशङ्क्याह - न चेति । घटपटोभयस्य प्रत्येकरूपत्वमेव प्रत्येकं त्यक्त्वा घटपटोमयस्वरूपासंभवादित्युभयस्मिन् प्रत्येकस्य भेदो न स्वीकियते प्रत्येकं तूभयभेदः स्वीक्रियते-- प्रत्येकस्योभयस्वरूपत्वाभावादन्यथा प्रत्येकेनाप्युभयकार्यापत्तिः स्यादिति सिद्धांत इति अत्र यत् " प्रत्येकस्योमयानतिरिक्तत्वात्" इत्यनेन प्रत्येकस्योभयानतिरिक्तत्वस्य = उभयस्वरूपत्वस्य प्रतिपादनद्वारा प्रत्येकस्योभयाभिन्नत्वं प्रतिपादितं तद् यद्यपि सिद्धान्तविरुद्धमेव सिद्धान्ते प्रत्येकस्योभय स्वरूपत्वाभावात्तथाप्यस्य शङ्काग्रन्थत्वान्न दोषः । सिद्धान्तानुकूलं कथंचिदेतद्वाक्यव्याख्यान संभवेपि शङ्काग्रन्थसमन्वयो न स्यात् । परिहारहेतुमाहउद्देश्यतेति यथा आकाशम् ' इत्यत्रोद्देश्यतावच्छेदकं यदाकाशत्वं तद्व्याप्यत्वविशिष्टा तद्व्याया या पर्याप्तिस्तस्या एव संबन्धत्वस्वीकाराद् आकाशत्वव्याप्या चैकत्वपर्याप्तिरेव न द्वित्वपर्याप्तिर्यतः - व्यापत्वं हि व्यापकाभाववदऽवृत्तित्वं द्वित्वपर्याप्तिस्त्वाऽऽकाशत्वाभाववति घटादावप्यस्त्येवेति तस्याः संबन्धत्वाभावान्नाकाशपदाद् द्विवचनबहुवचनयोरापत्तिरित्यर्थः, एतदेवाह - आकाशलादीति । द्वित्वादिपर्याप्तावाकाशत्वव्याप्यताया अभावान्न तस्याः संबन्धत्वम् । अतिप्रसङ्गविरहात् =
6
"Aho Shrutgyanam"