________________
( १३८ )
सादर्श:
[ प्रथमाकार के
वैशिष्ट्यं च वैज्ञानिक न तु वास्तवं तेन यत्र योग्यताभ्रमजन्यः ' अत्राकाशों इत्यादिवाक्यजन्यद्वित्वादिप्रकारकाऽऽकाशादिशाब्दबोधस्तत्र विशिष्टसंसर्गामसिद्धावपि न क्षतिः - द्वित्वादिपर्याप्तावन्यत्र प्रसिद्धस्याकाशत्वादिव्याप्यत्वस्य भ्रान्तस्तत्रोपगमात् प्रकारतायां भ्रमस्य सर्वानुभवसिद्धत्वेपि संबन्धतावच्छेदकांशे भ्रमत्वस्यान्यत्रोपपादितत्वात् ।
न च प्रकृत्यर्थतावच्छेदके एव व्यापकतासंबन्धेन द्वित्वान्वयधीः किं नोपेद्वित्वादिपर्याप्तेराकाशेऽसत्त्वेनाकाशपदाद् द्विवचनाद्यापत्तिर्नास्तीत्यर्थः । अत्र पर्याप्ता बुद्देश्यताव - च्छेदकव्याप्यत्ववैशिष्ट्यं च वैज्ञानिकमेव न तु वास्तवं विवक्षितम्, वैशिष्ट्यस्य ज्ञानमात्रमपेक्ष्यत इत्याह- वैशिष्ट्यं चेति । तथा चाऽऽकाशे वस्तुतो विशिष्टसंसर्गाप्रसिद्धावपि उद्देश्यतावच्छेदकव्याप्यत्वविशिष्ट द्वित्वपर्याप्तेः संबन्धभूताया असत्त्वेपि यदि कस्यचित् पुंस आकाशे द्वित्वभ्रान्तिः स्यात्तदा द्वित्वपर्याप्तावप्युद्देश्यतावच्छेदकाकाशत्वव्याप्यत्य वैशिष्टयस्य भ्रमसत्त्वेन ' अत्राकाशौ ' इति द्विवचनान्तप्रयोगसंभवात् न क्षति:-' अत्राकाशौ ' इति प्रयोगस्यानुपपत्तिर्नास्ति, यदि चात्र वैशिष्ट्यं वास्तवं विवक्षितं स्यात्तदा वस्तुतो द्वित्वपर्याप्त वाकाशत्वव्याप्यत्ववैशिष्टयस्याभावात् ' अत्राकाशौ ' इति प्रयोगो भ्रान्त्यापि न स्यादेवेत्यर्थः । ननु कचित् प्रसिद्धस्यैषान्यत्र अमो भवतीति कथं द्वित्वपर्याप्ताषाकाशत्वव्याप्यत्वस्य भ्रम इत्याशङ्क्याह- द्वित्वादीति । अन्यत्र - शब्दादौ प्रसिद्धस्याकाशत्वव्याप्यत्वस्य तत्र ' अत्राकाशौ ' इतिवाक्यस्थले द्वित्वपर्यातौ आन्तेः स्वीकारादित्यर्थः । ननु प्रकारांशे भ्रमो भवति न तु संबन्धांशे पर्याप्तिश्चात्र संबन्ध एवेति कथं तत्र भ्रमः स्यादित्याशङ्क्याह- प्रकारतायामिति । प्रकारतायां भ्रमस्य शुक्तिरजतादि -- स्थले शुक्तौ रजतत्वमसदपि प्रकारतया मासते इति सर्वानुभवसिद्धत्वेपि संबन्धताषच्छेदकांशेपि मो भवतीत्यन्यत्रोपपादितम् । अत्र नन्यत्राकाशावित्यत्राकाशे द्वित्वं प्रकारतया भासते तत्र संबन्धः पर्याप्तिस्तत्राकाशत्वव्याप्यत्वमसदपि भासते संबन्धतावच्छेदकांशे भ्रमत्वं न तु द्वित्वरूपप्रकारांशे संबन्धतावच्छेदकांशे च भ्रमत्वस्यानङ्गीकारादित्यत आह- संबन्धतावच्छेदकांशे च मत्वस्यान्यत्रोपपादितत्वादिति, पर्याप्तिः संबन्धस्तत्राकाशत्वव्याप्यत्वं विशेषणं संबन्धतावच्छेदकं तत्राकाशत्वव्याप्यत्वाभाववत्पर्याप्तौ चाकाशत्वव्याप्यत्वं प्रकारतयाऽवच्छेदक इति संबन्धता - बच्छेदकांशे भ्रमत्वस्यान्यत्रोपपादितत्वादित्यर्थः । परस्परविशेषणविशेष्यभावापन्नेष्वेव संसर्गता - स्वीकारात् तादृशप्रकारतामादायैव भ्रमत्वमुपपादनीयमित्याद्यन्यत्र स्थितम् ।" इति कृष्णभट्टा :
ननु संख्यायाः व्यापकतासंबन्धेन प्रकृत्यर्थतावच्छेद के एवान्वयः स्वीक्रियतां तथा च यत्र यत्र घटादौ संख्या वर्तते तत्र तत्र प्रकृत्यर्थतावच्छेदक घटत्वादेरपि सत्त्वात् प्रकृत्यर्थतावच्छेद के व्यापकत्वमस्त्येवेति तेन संबन्धेन प्रकृत्यर्थतावच्छेदके संख्यान्वयो नानुपपन्नः, द्वित्वपर्याप्तावाssकाशत्वव्याप्यत्ववैशिष्ट्यस्याभावाद् यथा ' आकाशौ ' इतिप्रयोगवारणं पर्याप्तेः संबन्धले संभचति तथा व्यापकता संबन्धेन द्वित्वस्य प्रकृत्यर्थतावच्छेदके आकाशत्वेप्यन्वयस्वीकारे संभवत्येक
८८
"Aho Shrutgyanam"