________________
संख्यासंबन्धविचारः] व्युत्पत्तिवादः। यत इति वाच्यम्, 'घटौ ' इत्यादी घटत्वादीनां स्वरूपत एवोपस्थिततया बत्रोक्तान्वयबोधस्याऽसंभवात् । स्वव्यापकीभूतोद्देश्यतावच्छेदकवत्त्वरूपपरम्पराया एव प्रकृत्यर्थे द्वित्वादेः संबन्धतास्वीकारे च व्यापकतारूपसंबन्धतावच्छेदकांश भ्रमत्वस्यावश्यकतया उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तेः संवन्धतोपेक्षाया निर्वाजत्वात् ।
• अथात्र व्याप्तिापकसामानाधिकरण्यरूपैव वाच्या न तु तद्वदन्यावृत्तित्वद्वित्वव्यापकताया आकाशत्वेऽभावात्तेन संबन्धेनाकाशत्वे द्वित्वासंभवादिति विनिगमनाविरहेणाशझ्याह- न चेति । परिहारहेतुमाह- घटाविति, पदार्थान्तरनिष्ठप्रकारसानिरूपितविशेष्यतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रत्यऽन्वयितावच्छेदकरूपेणोपस्थितिः कारणमिति नियमात् 'घटौ । इत्यादी घटत्वादेः स्वरूपेणोपस्थितत्वेनाऽन्वयित्तावच्छेदक( घटत्वत्वादि रूपेणो, पस्थित्यभावातत्र द्वित्वादिसंख्यान्वयो न संभवतीति न प्रकृत्यर्थतावच्छेदके केनापि संबन्धेन संख्यान्वयः स्वीकर्तुं शक्यते इति उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तिसंबन्धेन प्रकृत्यर्थे एवोक्तरीत्या संख्यान्वयो युक्त इत्यर्थः । ननूक्तोद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तेः संबन्धलं त्यक्त्वा स्वव्यापकीभूतोदेश्यतावच्छेदकवत्त्वस्यैव संबन्धत्वं स्वीकार्य तथा च स्वं संख्या तद्ब्यापकीभूतं यदुद्देश्यतावच्छेदकं घटत्वादि तद्वत्त्वं प्रकृत्यर्थे घटादावस्त्येवेति तेन संबन्धेन घटादौ द्वित्वादिसंख्यान्वये न काचिदनुपपत्तिः, 'आकाशौ ' इत्यत्र स्वपदेन द्वित्वं ग्राह्य द्वित्वव्यापकता चोद्देश्यतावच्छेदके आकाशस्वे नास्तीति स्वव्यापकतावच्छेदकवत्त्वसंबन्धेनाकाशे द्वित्वाभावात् 'आकाशौ ' इतिप्रयोगापत्तिरपि नास्त्येवेत्याशङ्कयाह- स्वव्यापकीति । उत्तरमाह-- मापकतारूपेति, एवमपि भ्रान्त्या ' अत्राकाशौ ' इतिप्रयोगोपपत्त्यर्थ उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तः संबन्धत्वे यथोक्तरीत्या द्वित्वपर्याप्तौ आकाशत्वव्याप्यत्वनमः स्वीक्रियते तथा स्कव्यापकीभूतोद्देश्यतावच्छेदकवत्त्वस्य संबन्धत्वेप्याऽऽकाश द्वित्वव्यापकत्वनमः स्वीकर्तव्य एवेति विशेषाभावाद् उद्देश्यतावच्छेदकव्याप्यत्वविशिष्ट पर्याप्तेः संबन्धत्वपरित्यागे कारण नास्त्येव, न च विनिगमनाविरहः- " आचार्याः कृत्वा न निवर्तन्ते " इत्यस्यैव विनिगमकत्वादित्यर्थः स्वव्यापकीभूतोद्देश्यतावच्छेदकवत्त्वं संबन्ध इत्यस्य स्वनिरूपितव्यापकताश्रयीभूतोद्देश्यतावच्छेदकवत्त्वं संबन्ध इत्यर्थ एतत्संबन्धस्वरूपे च व्यापकता प्रविष्टास्तीति सा व्यापकता संबन्धतावच्छे. दिका जाता. स्वपदेन च द्विस्वादिसंख्या ग्राह्या. आकाशत्वे च द्वित्वव्यापकताया असत्त्वेपि यद् द्वित्वव्यापकताज्ञानं तद् अम एव ' आकाशी' इत्यत्रेत्यवधेयम् । । ननु संबन्धभूता योद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तिस्तत्र व्याप्यत्वस्य प्रवेशोस्ति व्याप्यत्वं हिन्याप्त्याश्रयत्वमेवेति व्याप्तेरपि पर्याप्तौ प्रवेशः प्राप्तो व्याप्तिश्च द्विविधाऽस्ति व्यापकसामानाधिकरण्यरूपा तद्वदन्यावृत्तित्वरूपा-व्यापकवदन्यावृत्तित्वरूपा च, तत्र तद्वदन्यावृत्तित्वरूपा व्याप्तिस्त्र न ग्रहीतुं शक्यते यतः 'दौ प्रमेयौ ' इत्यत्रोद्देश्यतावच्छेदकं प्रमेयरकं तक केवलान्वयि तथा
"Aho Shrutgyanam"