________________
(१४०)
सादर्स:
[ प्रथमाकारकेरूपा-केवलान्वयिधर्मस्य प्रकृत्यर्थतावच्छेदकता यत्र तत्राप्रसिद्धः, एवं चोद्देश्य तावच्छेदकव्याप्तिविशिष्टपर्याप्त्यऽपेक्षया लघोः स्वव्यापकतादृशधर्मवत्वस्यैव संबन्धत्वमुचितमिति चेत् ?, तर्हि 'आकाशो न द्वौ ' इत्यादिवाक्यजन्यशाब्दबो: धदशायामपि ' आकाशौ ' इत्यादिवाक्याद् द्वित्वबोधापत्तिः, तथा हि-' आकाशो न दौ' इत्यादितो द्वित्वावच्छिन्नभेदः प्रतीयते स च न स्वव्यापकाssकाशत्ववत्त्वादिसंबन्धावच्छिन्नप्रतियोगितावच्छेदकताकः-- तादृशसंबन्धेन द्वित्ववतोऽप्रसिद्धः. अपि तु पर्याप्तिसंबन्धावच्छिन्नप्रतियोगितावच्छेदकताक एव तत्काले च पर्याप्तिसंबन्धेन द्वित्वविशिष्टबुद्धिरेव प्रतिबध्यते न तुक्तपरम्परासंबन्धेन तद्विशिष्टबुद्धिरपीति । चावपर्याप्तौ प्रमेयत्वाभाववदऽवृत्तित्वमपेक्ष्यते तच्च न संभवति प्रमेयत्वाभावस्याप्रसिद्धत्वादिति व्यातिरत्र व्यापकसामानाधिकरण्यरूपैव ग्राह्या. 'द्वौ प्रमेयो' इत्यत्राप्युद्देश्यतावच्छेदकं यत्प्रमेयत्वं तत्सामानाधिकरण्यं तु द्वित्वपर्याप्तावस्त्येवेति न कोपि दोषः, किं त्वेवमुद्देश्यतावच्छेदकरूपं यद् व्यापकं तादृशव्यापकसामानाधिकरण्यविशिष्टायाः पर्याप्तेः संबन्धत्व प्राप्तं तत्र च व्यापकत्वस्य ब्यापकसामानाधिकरण्यस्य च प्रवेशेन गौरवात् तादशपर्याप्त्यपेक्षया लघुभूतस्य स्वव्यापकतादृशधर्मवत्त्वस्थ स्वव्यापीभूतोद्देश्यतावच्छेदकवत्त्वस्यैव संबन्धत्वमुचितम्, अत्र व्यापकत्वस्य प्रवेशेपि व्यापकसामानाधिकरण्यप्रवेशाभावेन लाघवादित्याशङ्कते-अथेति । स्वं संख्या। परिहरतितीति, स्व(संख्या) व्यापकीभूतोद्देश्यतावच्छेदकवत्त्वसंबन्धेन प्रकृत्यर्थे संख्याया अन्ययस्वीकारे 'आकाशो न द्वौ ' इतिवाक्यजन्यशाब्दबोधे सत्यपि 'आकाशौ ' इतिवाक्येनाकाशे द्वित्वान्वयबोधोऽनिष्ट आपद्येत । एतदेवोपपादयति- तथाहीति, 'आकाशो न द्वौ ' इत्यत्राकाशशब्दद्विशब्दयोः समानविभक्तिकत्वाद् द्वित्वावच्छिन्नप्रतियोगिताकभेदः प्रतीयते, स च भेदो न स्त्र(संख्या)व्यापकाकाशत्ववत्त्वसंवन्धावच्छिन्न प्रतियोगितावच्छेदकताक इति न स्वव्यापकाकाशत्ववत्त्वसंबन्धेन द्वित्वावच्छिन्नभेदः प्रतीयते । अत्र हेतुमाह- तादृशसंबन्धेनेति, यथा संयोगसंबन्धेन घटवतो भूतलस्य प्रसिद्धत्वात् संयोगसंबन्धेन घटाभावः प्रत्येतुं शक्यते तथा यदि तादृशसंबन्धेन-स्व (द्वित्व ) व्यापकीभूताकाशत्ववत्त्वसंबन्धेन द्वित्ववान् प्रसिद्धः स्यात्तदा तादशसंबन्धेन द्वित्वावच्छिन्नभेद: प्रत्येतुं शक्येतापि नैवमस्ति, आकाशत्वे द्वित्वव्यापकत्वस्यैवाभावादित्यर्थः, किं तु 'आकाशो न द्वौ' इत्यत्र पर्याप्तिसंबन्धावच्छिन्नप्रतियोगितावच्छेदकताक:उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तिसंबन्धेन द्वित्वावच्छिन्नभेदः प्रतीयते उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तिसंबन्धेन द्वित्ववतो घटादेः प्रसिद्धत्वात् , अत्रापि शब्दे उद्देश्यतावच्छेदकीभूताकाशत्वव्याप्यत्वस्य सत्त्वादेवेत्यर्थः । तथा च यथा संयोगसंबन्धेन घटाभावज्ञानकाले संयोगेनैव घटवत्त्वज्ञान प्रतिबन्धो भवति न तु समवायादिनापि तथा प्रकृतेपि 'आकाशो न द्वौ । इत्यत्र तत्काले उक्तपर्याप्तिसंबन्धेन द्वित्वावच्छिन्नभेदप्रतीतिकाले उक्तपर्याप्तिसंबन्धेनैव द्वित्वनि
"Aho Shrutgyanam"