________________
संख्यासंबन्धविचारः ]
व्युत्पत्तिवादः ।
अथ 'आकाशो न द्वौ ' इत्यादी केवलपर्याप्तिसंबन्धावच्छिन्नप्रतियोगितावच्छेदकताकभेदो नञा बोधयितुं न शक्यते - आकाशेप्युक्तयुक्त्या द्वित्वपर्याप्तेः सत्त्वेन तत्र तेन संबन्धेन तद्वद्भेदस्य वक्तुमशक्यत्वात्, आकाशत्वव्याप्यपर्या प्तिसंबन्धावच्छिन्नप्रतियोगितावच्छेदकताकद्वित्वादिमद्वेदश्वाऽप्रसिद्ध एवेति चेत् ? न - द्वित्वादिपर्याप्तेरुभयादिवृत्तिधर्मेणैवाऽवच्छेदात्, तदनवच्छेदकै कमात्रवृत्तिधर्मावच्छेदेन तद्वदभेदस्य तेन संबन्धेन द्वित्वादिमद्भेदस्य च तद्वति वृत्तौ
बाधकाभावात् ।
( १४१ )
शिष्टबुद्धेः=द्वित्ववत्त्वबुद्धेः प्रतिबन्धः संभवति न तूक्तपरम्परासंबन्धेन = स्वव्यापकीभूतोद्देश्यतावच्छेदकवत्त्वसंबन्धेनापि तद्विशिष्टबुद्धे: -- द्वित्ववत्त्वबुद्धेः प्रतिबन्धः संभवतीति यथा संयोगेन घटाभावज्ञाने सत्यपि समवायेन घटवत्त्वज्ञानं जायते एव बाधकाभावात्तथात्रापि ' आकाशो न द्वौ ?. इतियाक्याद् उक्तपर्याप्तिसंबन्धेन द्वित्वावच्छिन्नमेदज्ञानकालेपि स्वव्यापकीभूतोद्देश्यतावच्छेदक
:
संबन्धेन 'आकाशौ' इत्यत्राकाशे द्वित्वान्ययबोधः स्यादेव बाधकाभावादित्याह- अपि विति । ननु पर्याप्तेः केवलपर्याप्तित्वरूपेण संबन्धत्वमुच्यते किं वाऽऽकाशत्वव्याप्यपर्याप्तित्वेन रूपेण संबन्धत्वमुच्यत इत्याशङ्कते - अथेति । यदि केवलपर्याप्सित्वरूपमात्रेण पर्याप्तेः संबन्धत्वं तदा आकाशेपयुक्तयुक्तया = घटाकाशोभयगतद्वित्वस्याऽऽकाशेपि सत्त्वात् प्रत्येकस्योभयानतिरिक्तत्वात् तत्र द्वित्ववत्याकाशे तेन संबन्धेन केवलपर्याप्तिसंबन्धेन तद्वद्भेदस्य = द्वित्ववद्भेदस्य ( द्वित्वावच्छिन्नभेदस्य ) वक्तुमशक्यत्वात् ' आकाशो न द्वौ ' इत्यत्र केवलपर्याप्तिसंबन्धावच्छिन्नप्रतियोगितावच्छेदकताकभेदः = केवलपर्याप्तिसंबन्धेन द्वित्वावच्छिन्नमेदो नत्र बोधयितुं नैव शक्येत सामान्यतः पर्याप्तिसंबन्धेन घटाकाशोभयगत द्वित्वस्याकाशेपि सत्त्वादवत्याह- केवलेति । द्वितीयदल -' मुद्दिशति - आकाशत्वेति, केवलाकाशे द्वित्वं नास्त्येवेति द्वित्वपर्याप्तावाकाशत्वव्याप्यत्वं नास्तीत्याकाशत्वव्याप्यपर्याप्तेः संबन्धस्वमपि न संभवति तथा चाऽऽकाशत्वव्याप्यपर्याप्तिसंबन्धावच्छिन्नप्रतियोगितावच्छेदकताकद्वित्वादिमभेदश्च = आकाशत्वव्याप्यपर्याप्तिसंबन्धेन द्वित्वावच्छिन्नभेदश्चाऽप्रसिद्ध एव यद्याकाशत्वव्याप्यपर्याप्तिसंबन्धेन द्वित्ववत्त्वं प्रसिद्धं स्यात्तदाऽऽकाशत्व व्याप्यपर्याप्तिसंबन्धेन द्वित्वावच्छिन्नमेदोनि प्रसिद्धः स्यात् नैवमस्ति द्वित्वपर्याप्तावाऽऽकाशत्वव्याप्यत्वाभावेनाऽलोकाया आकाशत्वव्याप्यपर्याप्तेः संवन्धत्वासंभवादित्याऽऽकाशे द्वित्वावच्छिन्नमेदबोधनस्याऽसंभवात् ' आकाशो न द्वौ ' इतिप्रयोगोऽमूलक एवेत्यर्थः । परिहरति- नेति । द्वित्वपर्याप्तेरुभयादिवृत्तिधर्मेणैवावच्छेदादिति - उभयवृत्तिधर्म उभयत्वमेव द्वित्वपर्याप्तेरवच्छेदकं भवतीत्युभयत्वावच्छेदेन द्वित्वावच्छिन्नभेदस्य विरोधोस्ति- द्वित्वपर्याध्यवच्छेदको भयत्ववति घटपटद्वये द्वित्वस्यैव सत्त्वेन द्वित्वावच्छिन्नमेदस्यासंभवात् । एकमात्रवृत्तिधर्मस्त्वाऽऽकाशत्वादि द्वित्वपर्यातेरवच्छेदकमेव न भवतीति तदनवच्छेदकैकमात्रवृत्तिधर्मावच्छेदेन = तस्या द्वित्वपर्याप्तेरनवच्छेदको य आकाशद्व्वादिरूप एकमात्रवृत्तिधर्मस्तदवच्छेदेन तद्वद्भेदस्य द्वित्वादिपर्याप्तिवद्भेदस्य = उभयभेदस्य (प्रत्ये
"Aho Shrutgyanam"