________________
(१४२)
सादर्शः
[ प्रथमाकारकेन चैवम्- 'घटपटौ न द्वौ ' इतिप्रयोग आफ्धेत-घटपटयोरपि प्रत्येकं द्वित्वाचच्छिन्नभेदसत्त्वादिति वाच्यम् , द्विवचनाद्युपस्थापितद्वित्वावच्छेदेनैव द्वित्वावच्छिनभेदस्य बाधेन तादृशप्रयोगाभावोपपत्तेः । नञा व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदश्वोद्देश्यतावच्छेदकावच्छेदेनैव बोध्यते इतिव्युत्पत्विसामानाधिकरण्येन तदबाधस्याकिंचित्करत्वात् । कस्योभयस्वरूपत्वाभावेन प्रत्येकमुभयभेदस्य स्वीकारात् ) तेन संबन्धेन पर्याप्रिसंबन्धेन द्वित्वादिमद्भेदस्य-द्वित्वावच्छिन्नभेदस्य च तद्वति एकमात्रवृत्त्याकाशत्वादिधर्मवत्याकाशादौ वृत्तौ सत्त्वे बाधकामावादित्यन्वयः । तथा चाकाशवस्यैकमात्रवृत्तित्वेन द्वित्वपर्याप्त्यवच्छेदकत्वामावादाकाशस्वावच्छेदेनाकाशे द्वित्वात्रन्सिलभेदस्य वृत्तित्वे बाधकाभावात् ' भाकाशो न द्वौ ' इति प्रयोग उपपद्यते । ‘बटपटौ न द्वौ' इति प्रयोगस्तु न भवति घटपटोभये द्वित्वपर्याप्यवच्छेदकस्यो. भयत्वस्य सत्त्वेन तत्र द्वित्वावच्छिन्नभेदस्यासत्त्वादित्यर्थः ।
नन्वेवम् द्वित्वपर्याप्तेरुभयत्वादिव्यासज्यवृत्तिधर्मावच्छेदेनैव स्वीकारे यथा ' आकाशो न द्वौ' इति प्रयोगो भवति तथा ' वटपटौ न द्वौ ' इत्यपि प्रयोगः स्यादेव प्रत्येक घटे च पटे चोभयवाभावेन द्वित्वपर्यावरभासद् द्वित्वस्याभावेन द्वित्वावच्छिन्नमेदस्य सत्वात- द्वित्वपर्याप्तिं विना तादशपर्याप्तिसंबन्धेन द्वित्वस्यासंभवादित्याशङ्कयाह-- न चेसि । परिहारमाह- .निवचनेति,
वटपटौ ' इत्यत्र द्विवचनेन यद् द्वित्वमुपस्थितं भवति तस्य चटपटयोरन्वयात् तादृशद्वित्वावच्छेदेन घटपटयोरुभयोत्विावच्छिन्नभेदस्यासंभवात् ( द्वित्वस्यैव सत्त्वात् । तादृशप्रयोगाभाषः= -घटपढौ न द्वौ ' इतिप्रयोगाभाव उपपद्यते । घटपटोभयत्वावच्छेदेन द्वित्वपर्याप्तेः सत्त्वेन ता. शपर्याप्तिसंबन्धेन घटपटोभयस्मिद्वित्वस्यैव सत्त्वात् द्वित्वावच्छिन्नप्रतियोगिताकभेदो न संभवतीति यावत् । प्रत्येकं घटपटयोर्द्वित्वाभावेन द्वित्वावच्छिन्नमेदस्य सत्त्वेपि घटपटद्वये तु द्वित्वसत्त्वेन द्वित्वावच्छिन्नभेदस्यासत्त्वात् नत्रा घटपटद्वये द्वित्वावच्छिन्नभेदस्य स्वार्थस्य बोधनमेव न संभवति येन 'घटपटौ न द्वौ' इति प्रयोग आपद्यतेत्याह- नति, व्यासयवृत्तिधर्मो द्वित्वोभयत्वादिस्तेन व्यासज्यवृत्तिधर्मेण उभयत्वेन द्वित्वेन वाऽवच्छिन्ना प्रतियोगिता यस्यैवंभूतभेदस्य द्वित्वावच्छिनमेदस्य नार्थस्य ना उद्देश्यतावच्छेदकावच्छेदेनैव प्रतीतिर्भवति, 'वटपटौ न द्वौ' इत्यत्र चोहेश्यतावच्छेदकम् ‘घटपटौ । इति द्विवचनोपस्याप्यं द्वित्वमिति घटपटौ न द्वौ ' इत्यत्र द्वित्वाबच्छेदेन घटपटोभयस्मिन्नेव नभा द्वित्वावच्छिन्नभेदो बोधनीयस्तत्तु न संभवति-धटपटोभयस्मिन् द्वित्वस्यैव सत्त्वेन द्वित्वमेदस्य बाधितत्वात् , द्वित्वसामानाधिकरण्येन घटवृत्तिद्वित्वसामानाधिकरण्येन पटवृत्तिद्वित्वसामानाधिकरण्येन च तदऽवाधस्य द्विस्वावच्छिन्नभेदाऽबाधस्य-द्वित्वावच्छिन्नमेदसत्त्वस्याकिंचित्करत्वात्-प्रयोगापादकत्वाभावात् ' वटपटौ न द्वौ ' इति प्रयोगापत्ति ल्येव । अयं भावः- 'घटपटौ' इत्यत्र घटपटद्वये वर्तमानं द्वित्वं प्रत्येकं वटे च पटे चापि वर्तते एवं अन्यथा प्रत्येकं घटपटयोईित्वाभावे घटपटद्वयेपि द्वित्वं न म्यादेव समुदायवृत्तिधर्मस्य प्रत्येकम
"Aho Shrutgyanam"