________________
संख्यासंबन्धविचारः
व्युत्पत्तिवादः। न च घटत्वादेरतिप्रसक्तत्तया द्वित्वादिपर्याप्तेरऽनवच्छेदकत्वात् तदवच्छेदेन द्वित्ववद्भेदस्य भवतामप्यनुमतत्वात् प्रकृत्यर्थगतैकत्वाविवक्षायाम् ‘घटो न द्रौ' इत्यादिप्रयोगापत्तिरिति वाच्यम् , ताशप्रयोगाभावे घटत्वादेर्दित्वपर्याप्तरिव द्वित्वादिमद्भेदस्याप्यनुयोगितावच्छेदकताया अप्रामाणिकत्वाद, प्रतियोगिताव
च्छेदकाऽनवच्छेदकताया भेदावच्छेदकतानियतत्वासिद्धेः। प्यावश्यकत्वात् तत्र प्रत्येक घटपटयोर्वर्तमानद्वित्वसामानाधिकरण्येन प्रत्येक घटपटयोप्सज्यकृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदस्य-द्वित्वावच्छिन्नभेदस्य सत्त्वेपि- प्रत्येकं घटपटयोत्विस्याभावात् ) वटपटद्वये तु द्वित्वावच्छिनभेदो नास्त्येव द्वित्वस्यैव सत्त्वात् नना द्वित्वभेदश्वोद्देश्यतावच्छेदकावच्छेदेनैव उभयत्वावच्छेदेन घटपटोभयस्मिन्नेव बोधयितुं शक्यते न तु प्रत्येकम् . उभयस्मिश्च द्वित्वावच्छिन्नभेदस्यासत्त्वात् ' घटपटी न द्वौ' इतिप्रयोगस्यापत्तिर्नास्त्येव- द्वित्वावच्छि. नभेदमत्त्वे एव न द्वौ ' इतिप्रयोगस्य संभवात् । द्वित्वसामानाधिकरण्येन प्रत्येक घटपटयोxिस्वावच्छिन्नभेदसत्वेपि द्वित्वावच्छेदेन घटपटोभयस्मिन् द्वित्वसत्त्वेन द्वित्वावच्छिन्नभेदाभावसत्ले बाधकामावात् । ___ ननु द्वित्वपर्याप्तिस्तु ‘बटपटौ ' इत्यत्र घटपटोभयत्रैव वर्तते घटत्वं तु द्वित्वपर्याप्त्यनधिकरणेष्वपि बहुषु घटेषु वर्तते इत्यतिप्रसक्तं अतिप्रसक्तधर्मस्यावच्छेदकत्वास्वीकाराद् द्वित्वपर्याप्तेघटत्यमनवच्छेदकमेवेति तदवच्छेदेन-द्वित्वपर्यास्यनवच्छेदकीभूतघटत्वावच्छेदेन यत्र यत्र घटत्वं वर्तते तत्र तत्र द्वित्वपर्याप्तेरभावात् तादृशपर्याप्तिसंबन्धेन द्वित्वस्याप्यसत्त्वेन द्वित्ववद्भेदस्य-द्वित्वाचन्छिनभेदस्य सत्त्वात् भवतामध्यनुमतत्वात् प्रकृत्यर्थगतैकत्वस्याविवक्षायाम् ‘घटो न द्वौ ! इतिप्रयोगः स्यादेवेत्याशङ्क्याह- न चेति । प्रकृत्यर्थगतैकत्वस्य विवक्षायां स्वेकत्वविशिष्ट घटे द्वित्वाभावेन द्वित्वावच्छिन्नभेदस्य विवक्षितत्वात् 'घटो न द्वौ' इतिप्रयोगस्येष्टत्वादुक्तम्एकत्वाविवक्षायामिति । प्रकृत्यर्थगतैकत्वाविवक्षायां तु 'वटो न द्वौ' इति प्रयोगो नेष्ट:- द्वित्वसंमवेन द्वित्ववभेदासंभवादित्यर्थः । परिहरति- तादृशेति, तादृशप्रयोगाभावे-प्रकृत्यर्थगतैकत्वाविवक्षायाम् 'घटो न द्वौ' इतिप्रयोगाभावे घटत्वादेईित्वपर्याप्त्यनुयोगितावच्छेदकत्वस्याप्रामाणिकत्वस्येव द्वित्ववद्भेदा (द्वित्वावच्छिन्नभेदा ) नुयोगितावच्छेदकत्वस्याप्रामाणिकत्वस्यैव , हेतुत्वा. दित्यन्वयः । यथोक्तरीत्यातिप्रसक्तत्वेन चटत्वं द्वित्वपर्याप्त्यवच्छेदकत्वाभावेन द्वित्वपर्याप्यनुयोगितावच्छेदकं नास्ति तथा द्वित्वावच्छिन्नभेदानुयोगितावच्छेदकमपि नास्त्येव-- 'घटपटी द्वौ। इत्यत्र द्वित्वसत्त्वेन द्वित्वावच्छिन्नभेदाभावेपि घटत्वस्य सत्त्वेनातिप्रसक्तत्वात् तथा च घटस्य द्वित्वावच्छिन्नभेदानुयोगितावच्छेदकत्वाभावेन घटत्वावच्छेदेन द्वित्वावच्छिन्नभेदप्रसस्यऽसंभवात “घटो न द्वौ । इतिप्रयोगापत्तिरेकत्वाऽविवक्षायां नास्ति, एकत्वविवक्षामां त्वेकत्वस्य द्वित्वावच्छिनभेदानुयोगितावच्छेदकत्वसंभवेन तादृशैकत्वावच्छेदेनैकस्मिन् घटे द्वित्वावच्छिन्नभेदसंभवादेक घटमुद्दिश्य 'घटो न द्वौ ' इतिप्रयोग उपपद्यते, न चैवमेकत्वाविवक्षायामेकत्वस्य द्वित्वावच्छि
P- 47
"Aho Shrutgyanam"