________________
( १४४ )
सादर्श:
[ प्रथमा कारके -
अस्तु वाऽतिप्रसक्तोऽपि वटत्वादिर्द्वित्व पर्याप्तैरवच्छेदकः 'घटौ ' इत्यादिप्रतीतिबलात् ।
6
"
वस्तुतस्तु घटत्वादेः प्रत्येकं द्वित्वपर्यात्यनवच्छेदकत्वेपि द्वित्वपर्याप्तित्वावच्छिनानतिप्रसक्ततया तदवच्छिन्नावच्छेदकत्वमव्याहतमेव । अभेदानुयोगितावच्छेदकत्वं संभवति येनैकत्वाऽविवक्षायामपि घटो न द्वौ ' इतिप्रयोग आपद्येतेत्यर्थः । ननु ' यद् मेदीयप्रतियोगितावच्छेदका नवच्छेदकं भवति तद् भेदावच्छेदकं भवति' इति नियमस्ति यथा ' घटो न पटः इत्यत्र पटभेदस्य प्रतियोगितावच्छेदकं पटत्वं प्रतियोगितावच्छेदकावच्छेदकं पटत्वत्वं भवति घटत्वं तु प्रतियोगितावच्छेदकानवच्छेदकमेवेति तद् घटत्वं पटदयावच्छेदकं भवत्येव - घटे पटमेदस्य घटत्वस्य च सत्त्वात् सामानाधिकरण्येन घटत्वस्य पट - भेदावच्छेदकत्वात् । एवम् - द्वित्ववद्भेदस्य ( द्वित्वावच्छिन्नभेदस्य ) प्रतियोगी द्वित्ववान् प्रतियोगिता द्वित्ववति प्रतियोगितावच्छेदकं द्वित्यवति वर्तमानं द्वित्वं प्रतियोगितावच्छेदकावच्छेदकं द्वित्वत्वं घटत्वं तु प्रतियोगितावच्छेदकानवच्छेदकमेवेति तद् घटत्वं द्वित्ववद्भेदस्यावच्छेदकं स्यादेव तथा च घटे द्वित्ववद्भेदस्य प्राप्त्या एकत्वाविवक्षायामपि 'घटो न द्वौ ' इति प्रयोगः स्यादेव न द्वौ ' इत्यस्य द्वित्वद्भेदबोधकत्वादित्याशङ्कयाह- प्रतियोगितावच्छेदकेति, भेदस्य प्रतियोगितावच्छेदकानवच्छेदकं घटत्वादिकं मेदस्यावच्छेदकं भवत्येवेति नियतं नास्त्येव - अस्वीकारात्, अन्यथा- एकत्वाविवक्षायामपि त्वदुक्तरीत्या 'घटो न द्वौ ' इति प्रयोगः स्यादेव, न चैवं प्रयोगो भवतीति नोक्तनियमः स्वीक्रियते तथा चोक्तनियमास्वीकारे घटत्वस्य द्वित्ववद्भेदावच्छेदकत्वाप्राप्तौ घटत्वावच्छेदेन द्वित्ववदेदाप्रसक्त्या 'घटो न द्वौ ' इतिप्रयोगापत्तिर्नास्येवेत्यर्थः ।
C
अतिप्रसक्तधर्मस्यावच्छेदकत्वं स्वीकृत्याप्याह- अस्तु वेति, न्यूनवृत्तिधर्मस्यावच्छेदकत्वाभावेप्यऽतिप्रसक्तधर्मस्यावच्छेदकत्वस्वीकारेणोक्तरीत्यातिप्रसक्तस्यापि घटत्वस्य द्वित्वपर्याप्त्यवच्छेदकत्व - स्वीकाराद् द्वित्वावच्छेदकत्वमेव प्राप्तमिति द्वित्वावच्छेदकस्य घटत्वस्य द्वित्ववद्भेदावच्छेदकत्वासंभवात् ' घटो न द्वौ ' इतिप्रयोगापत्तिर्नास्त्येव - एकत्वाविवक्षायां घंटे द्वित्वान्यस्वीकारेण द्वित्वबद्धेदासंभवादित्यर्थः । यद्यतिप्रसक्तस्थापि घटत्वस्य द्वित्वपर्याप्त्यवच्छेदकत्वं न स्यात्तदा 'घटौ ' इत्येवं घटव'वच्छेदेन घंटे द्विवचनोपस्थाप्यद्वित्वस्यान्वयो न स्यादिति 'घटौ ' इतिप्रतीतिबलादेवातिप्रमक्तस्यापि घटत्वस्य द्वित्वपर्याप्त्यवच्छेदकत्वं स्वीक्रियत इत्याह- बटाविति ।
घटत्वस्य द्विपर्याप्त्यतिप्रसक्तत्वमेव नास्ति येन द्वित्वपर्याप्त्यवच्छेदकत्वं न स्यादित्याहवस्तुतस्विति, द्वित्वपर्याप्तितत्तद्व्यक्तीनां भिन्नत्वाद् या द्वित्वपर्याप्तिव्यक्तिरेतद्घटपटद्वये - स्ति सान्यघटपटये नास्ति घटत्वं तु तत्राप्यस्त्येवेति चालनीन्यायेन प्रत्येकं द्वित्वपर्याप्तीनामू द्वित्वया तत तद्व्यक्तीनाम् ( द्वित्वपर्या सतत्तद्व्यक्त्यपेक्षया ) घटत्वस्यातिप्ररुक्ततयाऽनवच्छेदकत्वेपि द्वित्वपर्याप्तित्वावच्छिन्नानतिप्रसक्ततया = यत्र यत्र घटत्वं तत्र तत्र कस्या अपि द्वित्वपर्यातितेः सत्त्वात् सर्वासां च द्वित्वपर्यातीनां द्वित्वपर्याप्तित्वेन रूपेणैकत्वाद् घटत्वावच्छेदेन
"Aho Shrutgyanam"