________________
सख्यासंबन्धविचारः ] व्युत्पत्तिवादः।
( १४५) अथ पर्याप्त्याख्यविलक्षणसंबन्ध एवाऽप्रामाणिकस्तत्कथं तत्संबन्धता ? 'आकाशो न द्रौ' इति प्रतीतिस्तु समवायसंबन्धावच्छिन्नप्रतियोगितावच्छे. दकताकद्वित्वावच्छिन्नभेदविषयिकवाऽऽस्ताम्- आकाशादौ द्वित्वसमवायसत्त्वेपि द्वित्वादेरेवोभयादिवृत्तिधर्ममात्रावच्छिन्नत्वोपगमात् तदनवच्छेदकाऽऽकाशत्वाद्यवच्छेदेन समवायसंबन्धेन तद्वतो भेदस्य वृत्तौ बाधकाभावादिति चेत्?, नद्वित्वपर्याप्तित्वावच्छिन्नाभावस्याऽसत्त्वाद् द्वित्वपर्याप्तित्वावच्छिन्नातिप्रसक्तत्वं नास्त्येव घटत्वाधिकरणे कस्या अपि द्वित्वपर्याप्तेः सत्त्वादेवेति तदवच्छिन्नावच्छेदकल्बम् द्वित्वपर्याप्तित्वावच्छि. नावच्छेदकत्वं घटत्वस्याऽव्याहतमेव तथा च घटत्वस्य द्वित्वपर्याप्त्यवच्छेदकत्वेन द्वित्वावच्छे. दकत्वमपि प्राप्तमिति घटत्यावच्छेदेन द्वित्वस्यैव सत्त्वाद् द्वित्ववद्भेदस्यासत्त्वाच्चैकत्वाविवक्षायाम् ' घटो न द्वौ' इति प्रयोगापत्तिर्नास्त्येवेत्यर्थः । __ ननु पर्याप्तिरूपः कोपि संबन्ध एव प्रामाणिको नास्ति येन तत्संबन्धता तस्याः पर्याप्तेः संबन्धता स्यात् किं वा तस्याः पर्याप्तेः संबन्धो यस्मिन् स तत्संबन्धः शाब्दबोधः तत्संबन्धता=पर्याप्तिसंबन्धविषयतेत्यर्थः, अलीकभूतपर्याप्त्याख्यसंबन्धविषयता शाब्दबोधे कथं स्यादित्याशङ्कते- अथेति । ननु यदि पर्याप्तेः संख्यासंबन्धत्वं न स्यात्तदा पर्याप्तिसंबन्धेनाकाशादौ द्वित्वादिवभेदप्रतीतिरपि न स्यादिति 'आकाशो न द्वौ ' इत्यादिप्रतीतिरपि न स्यादित्याश
क्याह- आकाश इति, समवाय एव संख्यासंबन्धः 'आकाशो न द्वौ' इत्यत्रापि समवायसंबन्धेनैवाकाशे द्वित्ववभेदः प्रतीयते न पर्याप्तिसंबन्धेनेत्यर्थः। समवायसंबन्धावच्छिन्ना द्वित्वनिष्ठा प्रतियोगितावच्छेदकता यस्य स समवायसबन्धावच्छिन्नप्रतियोगितावच्छेदकताको द्वित्वावच्छिन्नभेदस्तद्विषयवेत्यन्वयः । द्वित्वावच्छिन्नभेदस्य द्वित्वावच्छिन्नः द्वित्ववान् प्रतियोगी, प्रतियोगिता द्वित्ववति. प्रतियोगितावच्छेदकं द्वित्वमिति प्रतियोगितावच्छेदकता द्वित्वे द्वित्वं च द्वित्ववति समवायेन वर्तते इति स समवायोपि घटे संयोग इव द्वित्वे वर्तते इति प्रतियोगितावच्छेदकता समवायसंबन्धावच्छिन्ना जातेति ' आकाशो न द्वौ ' इत्यत्राकाशे समवायसंबन्धावच्छिन्नप्रतियोगितावच्छेदकताकस्यैव द्वित्वावच्छिन्नभेदस्य प्रतीतिर्जायते न तु पर्याप्तिसंबन्धावच्छिन्न प्रतियोगितावच्छेदकताकस्येत्यर्थः । ननु यदि समवाय एव संख्यासंबन्धस्तदा समवायस्यैकत्वेन छटपटोभयस्मिन् वर्तमानस्य द्वित्वसमवायस्याकाशेपि सत्त्वात् ' आकाशो न द्वौ ' इत्येवमाकाशे द्वित्वबद्भेदः कथं प्रतीयेतेत्याशझ्याह-आकाशादाविति, यथा वायौ रूपसमवायसत्त्वेपि रूपाभावाद्रूपवत्ताबुद्धिर्न जायते तथा समवायस्यैकत्वेनाकाशे द्वित्वसमवायसत्त्वेपि द्विग्वस्योभयवृत्त्युभयत्वधर्मपात्रावश्छन्नत्योपगमेनोभयत्वावच्छेदेनैव सत्त्वात् तदनवच्छेदक=द्वित्वानवच्छेदकाकाशपत्वावच्छेदेन समवायेन द्वित्वस्याऽपत्ताचाकाशत्वावच्छेदेनाकाशे तद्वतो भेदस्य द्वित्वावच्छिन्नमेदस्य वृत्तौ सत्तो बाधकाभावात् 'आकाशो न द्वौ ' इत्येवमाकाशे द्विरवावच्छिन्नभेदप्रतीतौ न काप्यनुपपत्तरित्यर्थः । परिहरति-नेति, 'भाकाशौ ' इति वाक्यजन्यशाब्दबोधोऽनिष्टत्वादप्रा
"Aho Shrutgyanam