________________
( १४६)
सादा
[प्रथमाकारके'आकाशौ' इत्यादिवाक्यजन्यशाब्दबोधस्थाप्रमात्वानुपपत्यैव ताशसंबन्धसिद्धेः । तादृशबुद्धः समवायविषयकत्वे प्रमात्वनिराकरणस्याशक्यत्वात् । उद्देश्यतावच्छेदकव्याप्तिविशिष्टसमवायस्य संसर्गतोपगमे ? 'घटौ' इत्यादिवाक्यस्याप्यऽप्रमाणतापत्तिः- समवायस्यैक्येन घटादिनिष्ठस्य द्वित्वादिसमवायस्य पटादावपि सत्त्वेन घटत्वाद्यव्याप्यत्वात् । माणिक एव तस्याप्रमात्वं च समवायस्य संख्यासंबन्धत्वस्वीकारे न संभवतीति तस्याऽप्रमात्वोपपादनार्थमेव तादृशसंबन्धसिद्धेः पर्याप्तिसंबन्धः सिद्धयंतीत्यर्थः । विपक्षे बाधकमाह-तादृशेति, तादृशबुद्धेः= आकाशौ , इत्यादिवाक्यजन्यबोधस्य समवायविषयकत्ये यदि संख्यासंबन्धः समवायः स्यात्तदा धटाकाशगतद्वित्वस्य द्वित्वसमवायस्य चाकाशे सत्वादेवं ' आकाशौ । इतिवाक्यजन्यस्याकाशानुयोगिकद्वित्वविषयकशाब्दबोधस्याप्रामाण्यं न स्यादेव । पर्याप्तेः संबन्धरवे तु द्वित्वपर्याप्तेः घटाकाशोभयस्मिन्नेव सत्त्वेन केवलाकाशेऽभावात् तादृशपर्याप्तिसंबन्धेनाकाशे द्वित्वस्यासंभवाद् ‘आकाशौ । इतिवाक्यजन्यशाब्दबोधस्याऽप्रामाण्यं सूपपादमेवेत्यर्थः । अत्र " यधपि समवायेनाकाशे द्वित्वं नाकाशत्वावच्छेदेन किं तु घटाकाशोमयत्वावच्छेदेनैवेति पर्याप्त्यऽनङ्गीकारेपि 'आकाशौ ' इति धियोऽप्रमात्वं सूपपादं तथापि तत्संबन्धावच्छेदकस्य तदवच्छे. दकतानियमात् प्रकृते च द्वित्वसमवायावच्छेदकस्याकाशत्वस्य द्वित्वावच्छेदकत्वनियमादाकाशवावच्छेदेन द्वित्वसमवायोस्ति द्वित्वं चास्तीति 'आकाशौ ' इतिप्रतीतेः प्रमात्वं स्यादतः आकाशत्वानवच्छेद्यः कश्चिद् द्वित्वसंबन्धोऽन्चेष्टव्यः स च पर्यातिनामास्तु इति द्वित्वपर्याप्त्यऽनवच्छेदकाकाशत्वावच्छेदेन पर्याप्तिसंबन्धेन द्वित्वावगाहिनी 'भाकाशौ ' इतिप्रतीतिरप्रमैवेति पर्याप्तिसंबन्धोऽवश्यमङ्गीकरणीयः " इति कृष्णंभट्टाः । - ननु न शुद्धसमवायस्य संबन्धस्वं येन 'आकाशौ' इतिवाक्यजन्यशाब्दबोधस्याप्रमात्वं न स्यात् किं तूद्देश्यतावच्छेदकव्याप्ति विशिष्टसमवायस्य संबन्धत्वमुच्यते व्याप्तिश्च तदभाववदवृत्तित्वं तथा चोदेश्यतावच्छेदकाभाववदऽवृत्तिसमवायस्य संबन्धत्वं प्राप्तं समवायस्य चकत्वात् 'आकाशौ । इत्यत्रोद्देश्यतावच्छेदकं यदाकाशत्वं तदभाववति घटादावपि वृत्तित्वात् समत्राये उद्देश्तावच्छेदकव्याप्यत्वमेव नास्तीत्याऽऽकाशत्वव्याप्तिविशिष्टसमवायेनाऽऽकाशे द्वित्वासंभवात् ' आकाशो' इतिप्रतीतेः कथं प्रमात्वं स्यादित्याशङ्याह- उद्देश्यतावच्छेदकेति । अत्र दोषाह- घटाविति, उद्देश्यतावच्छेदकव्याप्तिविशिष्टसमवायस्य संबन्यत्वस्वीकारे - आकाशौ । इत्यादिपतातेरप्रामाण्यवत् 'घटौ ' इत्यादिप्रतीतेरप्यप्रामाण्यं स्यात् 'घटौ ' इत्यत्रोदेश्यतावच्छे कं घटत्वं घटत्वव्याप्यत्वं च द्वित्वसमवाये नास्त्येव- द्वित्वसमवायस्य घटवाभाववत पटादावरि त्वादिति घटत्व पाप्यसमवायस्यालोकत्येन तेन संबन्धन घटेप द्वित्वासंभवात् 'घटौ । इतिवाक्यजन्यशाब्दबोधस्याप्यत्रामाण्यं स्यात् तत्तु नेटमियर्थः । द्वित्वसमवायस्य घटत्वाच्याप्यवं स्वयमेवोपपादयति- समवायस्यैक्येनेति ।
"Aho Shrutgyanam"