________________
संख्यासंबन्धविचारः ]
व्युत्पत्तिवादः ।
( १४७ )
.
न चोद्देश्यतावच्छेदकव्याप्यद्वित्वादिसमवायत्वेनैव संबन्धतास्तु द्वित्वादिसघट मवायस्य घटत्वाद्यव्याप्यत्वेपि द्वित्वादेस्तद्व्याप्यतया न इत्यादे- रप्रमाणतेति वाच्यम्, एवं सति तथाविधद्वित्वादेरेव लाघवेन द्वित्वादिसंबन्धतौचित्यात् ।
"
अथास्त्वेवमेव तावतापि पर्याप्तिसंबन्धस्य विलयादिति चेत् ?, न- - द्वित्वादिस्वरूपस्यैव द्वित्वादिपर्याप्तितयाऽभिमतसिद्धेः । उक्तं च दीधितिकृता- " पर्यामिश्व ' अयमेको घट इमौ द्वौ ' इत्यादिप्रतीतिसाक्षिकः स्वरूपसंबन्धविशेषः "
ननुदेश्यतावच्छेदकव्याप्यं यद् द्रिस्वं तादृशद्वित्वसमवायस्यैव संबन्धत्वमुच्यते तथा च द्विल समवायस्यैकत्वेन घटत्वाभाववति पटादी वृत्तित्वेन घटत्वव्याप्यत्वेपि द्वित्वस्य तु घटत्वव्याप्यत्वं संभवत्येव द्वित्वव्यक्तीनामधिकरणभेदेन भिन्नत्वात् प्रत्येक घटद्विकवृत्तिद्वित्वव्यक्तीनां घटत्वव्याप्य स्वात् तथा च घटत्वव्याप्यद्वित्वस्य घटे सत्त्वात् समवायस्याप्येकत्वेन घटे सत्त्वात् 'घटो' इति प्रतीतेः प्रमात्वेनाप्रामाण्यं न संभवति, आकाशे च समवायस्यैकत्वेन सत्त्वेपि द्वित्वे आकाशत्वव्यायत्वाभावेन तादृशद्वित्वासंभवात् ' आकाशौ ' इतिप्रतीतेः प्रमात्वं न संभवतीत्याशङ्क्याहन चैति । परिहारहेतुमाह - एवं सतीति, एवं सति = उद्देश्यतावच्छेदकव्याप्यत्वस्य द्वित्वविशेषणत्वे संति, उद्देश्यतावच्छेदकव्याप्यद्वित्वसमवायस्य संबन्धत्वापेक्षया लाववात् तथाविधद्वित्वादेः =उद्देश्यतावच्छेदकव्याप्यद्वित्वस्यैव ( अर्थात् स्वरूपस्यैव ) द्वित्वसंबन्धत्यं युक्तं प्रथमसंबन्धस्वरूपे समवायप्रवेशेन गौरवाद् उद्देश्यतावच्छेदकव्याप्यद्वित्वस्य च संबन्धत्वे समवायाप्रवेशेन लाघवात्, तथा च घंटे द्वित्वसंबन्धभूतस्य घटत्वव्याप्यद्वित्वस्य सत्त्वात् ' घटौ ' इतिप्रतीतेर्नाऽप्रमात्वं आकाशे द्वित्वाभावादाकाशत्वव्याप्यत्वस्य च द्वित्वेऽभावाद् द्वित्वसंवन्धभूतस्याऽऽकाशत्वव्याप्यद्वित्वस्यालीकत्वेनाकाशेऽसंभवात् ' आकाशौ ' इतिप्रतीतेरप्रमात्वं सूपपादमेवेत्यर्थः ।
नन्वस्त्येवमेव उद्देश्यतावच्छेदकव्याप्यद्वित्वस्यैव ( स्वरूपस्यैव ) संबन्धत्वमस्तु तावतापि= उद्देश्यतावच्छेदकव्याप्यद्वित्वस्य संबन्धत्वस्वीकारेणापि पर्यातस्तु संबन्धत्वं नष्टमेवेत्यभ्युपगम्य शङ्कते - अथेति । परिहरति- नेति । द्वित्वादीति उद्देश्यतावच्छेदकस्यद्विस्वरूपैक द्वित्वपर्याप्तिरस्ति द्वित्वस्वरूपस्य संबन्धत्वे स्वीकृते च पर्याप्तः संबन्धवं स्वीकृतमेवेति सिद्धं नः समीहितमित्यर्थः । ननु द्वित्वस्वरूपस्य द्वित्वपर्याप्तिवं कथं स्यादित्याशङ्क्त्र प्रमाणमाहकृकं चेति, ' अयमेको घट इमौ द्वौ इतिप्रतीतिसाक्षिकः स्वरूपसंबन्धविशेषः' अयमेको घटः ' इत्यत्रैकत्वस्वरूपमेवैकत्वपर्याप्तिः ' इमौ द्वौ ' इत्यत्र द्वित्वस्वरूपमेव द्विलसित्रा घटा: ' इत्यत्र बहुत्वस्वरूपमेव बहुत्वपर्याप्तिः, तथा च घट: इत्यादावेकवादान स्वरूरेव पर्याप्तिरूपेण वडादौ प्रतीयमानस्यादेकत्वादिस्त्ररूप विकलादिपर्याप्तति वर्थः । यदा व समवायस्य नानात्वं स्वीक्रियते तदा द्वित्वा देवाय एवं द्वित्यादिपर्याप्तनं तु द्विस्यादस्वरूप पर्याप्तिः द्वित्वादिसमवायातिरिक्तपदार्थो वा पर्याप्तिः, सनवायस्य नानात्वेन द्वयादित वाप
.
•
"Aho Shrutgyanam"