________________
सादर्श:
[प्रथमाकारके इति । समवायस्य नानात्वमते च द्वित्वादिसमवाय एव तत्पर्याप्तिर्न तु स्वरूपमतिरिक्तपदार्थों वेत्यन्यदेतत् ।।
- यत्तु 'आकाशं न दे ' इत्यादिप्रतीतिवत् ' आकाशं न द्वित्ववत्' इतिप्र• तीतेः प्रमात्वस्य वारणाय समवायेन द्वित्वादिमद्भेद आकाशत्वावच्छेदेन न द्वित्वादिसंबन्धत्वस्वीकारे 'आकाशौ । इतिप्रतीतेरप्रमात्वस्य 'घटौ। इतिप्रतीतेः प्रमात्वस्य च सूपपादत्वात् तथा हि समवायस्य नानात्वेन द्वित्वसमवायस्याकाशेऽसत्त्वात् समवायेन द्वित्वस्याप्यसत्ताच 'आकाशौ' इतिप्रतीतेराकाशानुयोगिकद्वित्वावगाहिन्या अप्रमात्वमेव, घटे च द्वित्वसमवायद्वित्वयोः सत्त्वात् 'घटौ' इतिप्रतीतेर्घटानुयोगिकद्वित्वावगाहिन्याः प्रमात्वमेवेत्यभिप्रायेणाह- समवायस्येति । अन्यदेतत् अत्रैतद्विचारापेक्षा नास्तीत्यर्थः । . पर्यायाख्यसंबन्धसिद्धयर्थमन्योक्तयुक्त्यन्तरं परिहारायानुवदति- यत्त्विति । आकाशद्वयाभावेन 'आकाशं न द्वे ' इतिप्रतीतिर्भवति तस्याः प्रमात्वमपीष्टमस्ति, घटाकाशोभयगतद्वित्वस्याकाशेपि सत्त्वेन तेन द्वित्वेनाकाशस्यापि द्वित्ववत्त्वात् 'आकाशं न द्वित्ववत् । इतिप्रतीतिर्न भवति तस्याः प्रमात्वमपीष्टं नास्तीति सिद्धान्तः । किं च “आकाशं न द्वे, इत्यनेनापि द्वित्वावच्छिन्नभेदः ( द्वित्ववन्नेतिभेदः ) प्रतिपाद्यते तथा ' आकाशं न द्वित्ववत् । इत्यनेनापि द्वित्वावच्छिन्नभेद एव प्रतिपाद्यते इति प्रतीयते इत्युभयोरपि वाक्ययोस्तजन्यप्रतीत्योश्च साम्यमेव.! तत्र यदि द्वित्वसंबन्धः समवाय एव स्यात्तदा समवायस्यैकत्वेन द्वित्वसमवायस्याप्याकाशे सत्त्वाद् घटाकाशोभयगतद्वित्वस्याप्याकाशेपि सत्त्वादेवाकाशे 'आकाश द्वित्ववन' इत्याकारकस्य द्वित्वावच्छिन्नभेदस्याऽसत्त्वाद् द्वित्वावच्छिन्नभेदबोधकस्य ' आकाशं न द्वित्ववत् ' इतिवाक्यस्य यथा ह्यऽप्रामाण्यं स्यात् ( असद्बोधकत्वात् ) तथा ' आकाशं न द्वे ' इतिवाक्यस्याप्यमामाण्यं स्यादेव- उभयोर्वाक्ययोः समानार्थत्वात्, न च ' आकाशं न द्वे' इत्यस्याऽप्रामाण्यमिष्टम्, स्वयमप्येतद्वदति-- तथा चेत्यादिना । यदि चैतद्दोषपरिहाराय पर्याप्तेरेव द्वित्वसंबन्धत्वं स्वीक्रियते तदा घटाकाशोभयगतद्वित्वस्याकाशे सत्त्वेपि संबन्धभूता घटाकाशोभयगतद्वित्यपयोप्तिस्तु घटाकाशोभयस्मिन्नेव संभवति न तु केवलाकाशेपीति ताशपर्याप्तिसंबन्धेनाकाशे द्वित्वाभावेन द्वित्वावच्छिन्नभेदस्यापि (द्वित्ववन्नेतिभेदस्यापि ) सत्त्वात् तद्बोधकस्य ‘आकाशं न द्वे ' इति वाक्यस्य यथा हि प्रामाण्यं स्यात्तथा आकाशं न द्विरववत् । इतिवाक्यस्य तज्जन्यप्रतीतेश्चापि प्रामाण्यं स्यादेव- उभयोर्वाक्ययोस्तजन्यप्रतीत्योश्च विशेषाभावात् ( द्वित्वावच्छिन्नभेदंविषयकत्वेन समानत्वात् ) । न च 'आकाशं न द्वित्ववत् ' इतिप्रतीतेः प्रमात्वमिष्टमिति तस्याः प्रमात्वस्य वारणाय 'आकाशं न द्वित्ववत् ' इत्यत्राकाशे समवायेन द्वित्वादिमद्भेदःद्वित्वावच्छिन्नभेदो न स्वीकर्तव्यस्तथा च ' आकाशं न द्वित्ववत् । इतिवाक्यस्याकाशे समवायेन द्वित्वावच्छिन्नभेदबोधकत्वस्वीकाराद् आकाशे च द्वित्वसमवायस्य घटाकाशोभयगतद्वित्वस्यापि च सत्त्वेन समवायेन द्वित्वावच्छिन्नभेदस्याऽसत्वादऽसतो द्वित्वावच्छिन्नभेदस्थ बोधकत्वादप्रामाण्य
"Aho Shrutgyanam"